________________
भगवती अङ्गसूत्रं (२) १४/-/४/६१०
मू. (६१०) परमाणुपोग्गले गं भंते! किं चरमे अचरमे ?, गोयमा ! दव्वादेसेणं नो चरिमे अचरिमे, खेत्तादेसेणं सिय चरिमे सिय अचरिमे, कालादेसेणं सिय चरमे सिय अचरिमे, भावादेसेणं सिय चरिमे सिय अचरिमे ।।
१४२
वृ. 'परमाणु' इत्यादि, 'चरमे 'त्ति यः परमाणुर्यस्माद्विवक्षितभावाच्युतः सन् पुनस्तं भावं न प्राप्स्यति स तद्भावापेक्षया चरमः, एतद्विपरीतस्त्वचरम इति, तत्र 'दव्वादेसेणं' ति आदेश:प्रकारो द्रव्यरूप आदेशो द्रव्यादेशस्तेन नो चरमः, स हि द्रव्यतः परमाणुत्वाच्युतः सङ्घातमवाप्यापि ततश्च्युतः परमाणुत्वलक्षणं द्रव्यत्वमवाप्स्यतीति ।
'खेत्ता देसेणं' ति क्षेत्रविशेषितत्वलक्षणप्रकारेण 'स्यात्' कदाचिच्चरमः, कथम् ?, यत्र क्षेत्रे केवली समुद्घातं गतस्तत्र क्षेत्रेयः परमाणुरवगाढोऽसौ तत्र क्षेत्रे तेन केवलिना समुद्घातगतेन विशेषितो न कदाचनाप्यवगाहं लप्स्यते, केवलिनो निर्वाणगमनादित्येवं क्षेत्रतश्चरमोऽसाविति, निर्विशेषणक्षेत्रापेक्षया त्वचरमः, तत्क्षेत्रावगाहस्य तेन लप्सयमानत्वादिति ।
'कालादेसेणं' ति कालविशेषितत्वलक्षणप्रकारेण 'सिय चरमे' त्ति कथञ्चिच्चरमः, कथम् यत्र काले पूर्वाह्रादौ केवलिना समुद्घातः कृतस्तत्रैव यः पमराणुतया संवृत्तः स च तं कालविशेषं केवलिसमुद्घातविशेषितं न कदाचनापि प्राप्स्यति तस्य केवलिनः सिद्धिगमनेन पुनः परमाणुतया संवृत्तः स च तं कालविशेषं केवलिसमुद्घातविशेषितं न कदाचनापि प्राप्स्यति तस्य केवलिनः सिद्धिगमनेन पुनः समुद्घाताभावादिति तदपेक्षया कालतश्चरमोऽसाविति, निर्विशेषणकालापेक्षया त्वचरम इति ।
'भावाएसेणं'ति भावो - वर्णादिविशेषस्तद्विशेषलक्षणप्रकारेण 'स्याच्चरमः' कथञ्चिच्चरमः, कथं ?, विवक्षितकेवलिसमुद्घातवसरे यः पुद्गलो वर्णादिभावविशेषं परिणतः स विवक्षितकेवलिसमुद्घातविशेषितवर्णपरिणामापेक्षया चरमो यस्मात्तत् केवलिनिर्वाणे पुनस्तं परिणाममसौ न प्राप्स्यतीति इदं च व्याख्यानं चूर्णिकारमतमुपजीव्य कृतमिति । अनन्तरं परमाणोश्चरमत्वाचरमत्वलक्षणः परिणामः प्रतिपादितः, अथ परिणामस्यैव भेदाभिधानायाह
मू. (६११) कइविहे णं भंते ! परिणामे पन्नत्ते ?, गोयमा ! दुविहे परिणामे पन्नत्ते, तंजहा - जीवपरिणामे य अजीवपरिणामे य, एवं परिणामपयं निरवसेसं भाणियव्वं । सेवं भंते! २ जाव विहरति ॥ वृ. 'कवि ॥ १ ॥
'मित्यादि, तत्र परिणमनं - द्रव्यस्यावस्थान्तरगमनं परिणामः, आह च“परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न तु सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥” इति ।
'परिणामपर्यं’तिप्रज्ञापनायां त्रयोदशं परिणामपदं तच्चैवं- 'जीवपरिणामे णं भंते! कइविहे पन्नत्ते ?, गोयमा ! दसविहेपन्नत्ते, तंजहा गइपरिणामे इंदियपरिणामे एवं कसायलेसा जोगउवओगे नाणदंसणचरित्तवेदपरिणामे 'इत्यादि, तथा
'अजीवपरिणामे णं भंते! कइविहे पन्नत्ते ?, गोयमा ! दसविहे पन्नत्ते तंजहा -- बंधपरिणामे १ गइपरिणामे २ एवं संठाण ३ भेय ४ वन्न ५ गंध ६ रस ७ फास ८ अगुरुलहुय ९ सद्दपरिणामे १०" इत्यादि ॥
Jain Education International
शतकं - १४ उद्देशकः-४ समाप्तः
For Private & Personal Use Only
www.jainelibrary.org