SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ १३२ भगवतीअगसूत्रं (२) १४/-19/५९७ इदं सामान्यं देवावांसमाश्रित्योक्तं । अथ विशेषितं तमेवाश्रित्याह- 'अनगारे ण'मित्यादि, ननु योभावितात्माऽनगारःस कथमसुरकुमारेषुत्पत्स्यते विराधितसंयमानांतत्रोत्पादादिति, उच्यते, पूर्वकालापेक्षया भावितात्मत्वम्, अन्तकाले च संयमविराधनासद्भावादसुरकुमारादितयोपपात इति न दोषः, बालतपस्वी वाऽयं भावितात्मा द्रष्टव्य इति । अनन्तरं देवगतिरुक्तेति गत्यधिकारान्नारकगतिमाश्रित्याह-'नेरइयाण' मित्यादि, कह सीहा गइ'त्ति 'कथं' केन प्रकारेण कीशीत्यर्थः शीघ्रा गतिः, नारकाणामुत्पद्यमानानां शीघ्रा गतिर्भव-तीति प्रतीतं, याशेन च शीघ्रत्वेन शीघ्राऽसाविति च न प्रतीतमित्यतःप्रश्नः कृतः । ___ 'कहंसीहेगइविसए'त्ति कथमितिकीशः 'सीहे'त्तिशीघ्रगतिहेतुत्वाच्छीघ्रो गतिविषयोगतिगोचरस्तद्धेतुत्वात्काल इत्यर्थः, कीशी शीघ्रा गति? कीशश्च तत्कालः? इति तात्पर्य, 'तरुणे'त्ति प्रवर्द्धमानवः, स च दुर्वलोऽपि स्यादत आह-'बलवंति.शारीरप्राणवान्, वलं च कालविशेषाद्विशिष्टं भवतीत्यत आह 'जुगवंतियुगं-सुषमदुष्षमादिकालविशेषस्तत्प्रशस्तं विशिष्टबलहेतुभूतं यस्यास्त्यसौ युगवान्, यावत्करणादिदं दृश्यं-'जुवाणे' वयःप्राप्तः 'अप्पायंके' अल्पशब्दस्याभावार्थःत्वादनातको-नीरोगः 'थिरग्गहत्थे स्थिराग्रहस्तः सुलेखकवत् 'दढपाणिपायपासपिटुंतरोरुपरिणए' दृढं पाणिपादं यस्य पाश्र्वी पृष्ठन्तरे च ऊरूच परिणते-परिनिष्ठिततां गते यस्य स तथा उत्तमसंहननइत्यर्थः, 'तलजमलजुयलपरिधनिभवाहू तलौ-तालवृक्षौ तयोर्यमलं-समश्रेणीकं यद् युगलं-द्वयं परिघश्च-अर्गला तन्निभौ. तत्सद्दशौ दीर्घसरलपीनत्वादिना बाहू यस्य स तथा । 'चम्मेठ्ठदुहणमुट्ठियसमाहयनिचियगायकाए' चर्मेष्टया द्रुघणेन मुष्टिकेन च समाहतानि अभ्यासप्रवृत्तस्यनिचितानि गात्राणि यत्र स तथाविधः कायो यस्यसतथा, चर्मेष्टादयश्चलोकप्रतीताः, ओरसबलसमन्नागए' आन्तरबलयुक्तः 'लंघणपवणजइणवायामसमत्थे' जविनशब्दःशीघ्रवचनः ‘छेए' प्रयोगज्ञः 'दक्खे' शीघ्रकारी ‘पत्तट्टे' अधिकृतकम्मणि निष्ठां गतः 'कुसले' आलोचितकारी मेहावी' सकृतश्रुतईष्टकर्मज्ञः 'निउणे' उपायारम्भकः, एवंविधस्य हिपुरुषस्य शीघ्रं गत्यादिकं भवतीत्यतो बहुविशेषणोपादानमिति। ___'आउंटिय'ति सङ्कोचितं 'विखिन्न'ति 'विकीर्णां प्रसारितां 'साहरेजत्ति “साहरेत्' सङ्कोचयेत् 'विक्खिरेज'त्ति विकिरेत्-प्रसारयेत् ‘उम्मिसिय'ति 'उन्मिषितम्' उन्मीलितं 'निमिसेज'त्ति निमीलयेत्, 'भवेयारूवे'त्ति काक्वाध्येयं, काकुपाठे चायमर्थः स्यात् यदुतैवं मन्यसे त्वं गौतम! भवेत्तद्रूपं भवेत्स स्वभावःशीघ्रतायां नरकगतेस्तद्विषस्य च यदुक्तं विशेषणपुरुष- बाहुप्रसारणादेरिति, एवं गौतममतमाशङ्कय भगवानाह-नायमर्थः समर्थं, अथ कस्मादेवमित्याह मू. (५९८) नेरइयाणं भंते ! कहं सीहा गति कहं सीहे गतिविसए पन्नते? गोयमा! से जहानामए-केइपुरिसे तरुणे बलवंजुगवंजाव निउणसिप्पोवगएआउट्टियं बाहं पसारेज्जा पसारियंवा बाहं आउंटेजा विक्खिण्णं वा मुद्धिंसाहरेजा साहरियंवा मुट्टि विक्खिरेज्जा उन्निमिसियंवा अच्छिं निम्मिसेजा निम्मिसियं वा अच्छि उम्मिसेजा, भवे एयारूवे?, नो तिणढे समढे, नेरइया णं एगसमएण वा दुसमएण वा विसमएण वा विग्गहेणं उववजंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy