________________
१३०
भगवतीअगसूत्रं (२) १३/-१०/५५९ समुग्घाया पन्नत्ता, तंजहा-वेयणासमुग्घाए एवं छाउमस्थियसमुग्घाया नेयव्वा जहा पन्नवणाए जाव आहारगसमुग्धायेत्ति । सेवं भंते ! सेवं भंतेत्ति।।
वृ. 'कइ णमित्यादि, 'छाउमत्थिय'त्ति छद्मस्थः-अकेवली तत्र भवाश्छाग्रस्थिकाः 'समुग्घा- येति ‘हन हिंसागत्योः' हननं घातः सम्-एकीभावे उत्-प्राबल्ये ततश्चैकीभावेन प्राबल्येनचघातः समुदघातः,अथ केन सहकीभावगमनम?, उच्यते,यदाऽऽत्मा वेदनादिसमुद्घातं गतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहकीभावः, प्राबल्येन घातः कथम्? उच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभ- वयोग्यानुदीराकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति-आत्मप्रदेशैः सह संश्लिष्टान् सातयतीत्यर्थः अतः प्राबल्येन घात इति, अयं चेह षड्विध इति बहुवचनं।
तत्र 'वेयणासमुग्घाए'त्तिएकः, 'एवंछाउमत्थिए' इत्यादिअतिदेशः, 'जहा पन्नवणाए'त्ति इह षट्विशत्तमपद इति शेषः, तेच शेषाः पञ्चैवं–'कसायसमुग्घाए २ मारणंतियसमुग्घाए ३ वेउब्वियसमुग्घाए ४ तेयगसमुग्घाए ५ आहारगसमुग्घाए ६'ति।
तत्र वेदनासमुद्घातः असद्वेद्याश्रयः कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकाश्रयःमारणान्तिकसमुद्घातः अन्तर्मुहूर्तशेषायुष्ककर्माश्रयः वैकुर्विकतैजसाहार-कसमुद्घाताः शरीरनामकर्माश्रयाः,तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्घातसमुद्धतः कषायपुद्गलशातं, मारणान्तिकसमुद्घातसमुद्धत आयुष्ककर्मपुद्गलशातंवैकुर्विकसमुद्घातसमुद्धतस्तुजीवप्रदेशान् शरीराद्धहिर्निष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्खयेयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मापुद्गलान् प्राग्बद्धान् सातयति सूक्ष्मांश्चादत्ते, यथोक्तं ।
"वेउब्वियसमुग्धाएणंसमोहणइसमोहणित्ता संखेज्जाइंजोयणाइंदंडं निसिरइ २ अहाबायरे पोग्गले परिसाडेइ २ अहासुहुमेपोग्गले आइयइत्ति । एवं तैजसाहारकसमुद्घातावपि व्याख्येयाविति ।।
शतकं-१३ उद्देशकः-१० समाप्तः त्रयोदशस्यास्य शतस्य वृत्तिः, कृता मया पूज्यपदप्रसादात् । न ह्यन्धकारे विहितोद्यमोऽपि, दीपं विना पश्यति वस्तुजातम् ।।
शतकं-१३ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता भगवती अगसूत्रे त्रयोदशशतस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता।
(शतक-१४) वृ. व्याख्यातं विचित्रार्थःत्रयोदशं शतम्, अथ विचित्राथमेव क्रमायातं चतुर्दशमारभ्यते, तत्र च दशोद्देशकास्तत्सङ्ग्रहगाथा चेयम्मू. (५९६)चर १ उम्माद २ सरीरे ३ पोग्गल ४ अगणी ५ तहा किमाहारे ६।
संसिट्ठ ७ मंतरे खलु ८ अणगारे ९ केवली चेव १०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org