SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६६ भगवती अङ्गसूत्रं १/-/३/४३ अथ काङ्क्षामोहनीयवेदनादिकं निर्जरान्तं सूत्रप्रपञ्चं नारकादिचतुर्विंशतिदण्ड कैर्नियोजयन्नाह मू. (४४) नेरइयाणं भंते! कंखामोहणिज्जं कम्मं वेएइ ?, जहा ओहिया जीवा तहा नेरइया, जाव थणियकुमारा ।। पुढविक्काइयाणं भंते! कंखामोहणिज्जं कम्मं वेइंति, हंता वेइंति, कहन्नं भंते! पुढविक्का० कंखामोहणिज्जं कम्मं वेदेति ?, गोयमा ! तेसिणं जीवाणं णो एवं तक्का इ वा सण्णा इवा पण्णा इ वामणे इ वा वइति वा अम्हे णं कंखामोहणिज्जं कम्मं वेएमो, वेएंति पुण ते । से नूनं भंते! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं, सेसं तं चेव, जाव पुरिस्कारपरिक्कमेइ वा | एवं जाव चउरिंदियाणं पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा ओहिया जीवा । वृ. इह च 'जहा ओहिया जीवा' इत्यादिना 'हंता चेयंति, कहन्नं भंते! ' नेरइयाणं कखामोहणिज्जं कम्मं वेयंति?, गोयमा ! तेहिं तेहिं कारणेहिं' इत्यादिसूत्रं निर्जरासूत्रान्तं स्तनितकुमारप्रकरणान्तेषु प्रकरणेषु सूचितं, तेषु च यत्र यत्र जीवपदं प्रागधीतं तत्रतत्र नारकादिपदमध्येयमिति पञ्चेन्द्रियाणामेव शङ्कितत्वादयः काङ्क्षामोहनीयवेदनप्रकारा घटन्ते नैकेन्द्रियादीनाम्, अतस्तेषां विशेषेण तद्वेदनप्रकारदर्शनायाह 'पुढविक्काइयाण' मित्यादि व्यक्तं, नवरम्- 'एवं तक्का इव' त्ति एवं यक्ष्यमाणोल्लेखेन तर्कोंविमर्श, स्त्रीलिङ्गनिर्देशश्च प्राकृतत्वात्, 'सन्नाइ व 'त्ति सञ्ज्ञा अर्थावग्रहरूपं ज्ञानं, 'पण्णा इ व'त्ति प्रज्ञा-अशेषविशेषविषयं ज्ञानमेव, 'मणे इ व'त्ति मनः स्मृत्यादिशेषमतिभेदरूपं, 'वइ इ व'त्ति वाग्-वचनं, 'सेसं तं चेव' त्ति शेषं तदेव यथा औधिकप्रकरणेऽधीतं, तच्चेदम्- 'हंता गोयमा तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं । से नूनं भंते! एवं मणं धारेमाणे' इत्यादि तावद्वाच्यं यावत् 'से नूनं भंते! अप्पणा चेव निजरेइ अप्पणा चेव गरहइ' इत्यादेः सूत्रस्य 'पुरिसक्कार परकमेइ व'त्ति पदम् । $ 'एवं जाव चउरिंदिय'त्ति पृथिवीकायप्रकरणवदप्कायादिप्रकरणानि चतुरिन्द्रियप्रकरणान्तान्यध्येयानि तिर्यक्पञ्चेन्द्रियप्रकरणादीनि तु वैमानिकप्रकरणान्तानि औधिकजीवप्रकरणवतदभिलापेनाध्येयानीति, अत एवाह- 'पंचेदिए 'त्यादि । भवतु नाम शेषजीवानां काङ्क्षामोहनीयवेदनं निग्रन्थानां पुनस्तन्न संभवति जिनागमाबदा- तबुद्धित्वात्तेषामिति प्रश्नयन्नाह सू. (४५) अत्थि णं भंते! समणावि निग्गंथा कंखामोहणिज्जं कम्मं वेएइ ?, हंता अस्थि, कहन्नं भंते! समणा निग्गंथा कंखामोहणिज्जं कम्मं वेएइ ?, गोयमा ! तेहिं २ नाणंतरेहिं दंसणंतरेहिं चरितंतरेहिं लिंगंतरेहिं पवयणंतरेहिं पावयणंतरेहिं कप्पंतरेहिं मग्गंतरेहिं मतंतरेहिं भंगंतरेहिं नयंतरेहिं नियमंतरेहिं पमाणंतरेहिं संकिया कंखिया वितिगिच्छिया भेयसमावन्ना कलुससमावन्ना, एवं खलु समणा निग्गंथा कंखामोहणिज्जं कम्मं वेइति । से नूनं भंते! तमेव सचं नीसंकं जं जिणेहिं पवेइयं, हंता गोयमा ! तमेव सच्चं नीसंकं, जाव पुरिसक्कारपक्कमेइ वा सेवं भंते । वृ. 'अत्थि 'मित्यादि काकाऽध्येयम् 'अस्ति' विद्यतेऽयं पक्षः यदुत 'श्रमणाः ' व्रतिनः अपिशब्दः श्रमणानां काङ्क्षामोहनीयस्यावेदनसंभावनार्थः, ते च शाक्यादयोऽपि भवन्तीत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy