SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ शतकं - १, वर्ग:-, उद्देशकः-३ $ 'निर्ग्रन्थाः' सबाह्याभ्यन्तरग्रन्थान्निर्गताः साधव इत्यर्थः, 'नाणंतरेहिं 'ति एकस्माञ्ज्ञानादन्यानि ज्ञानानि ज्ञानान्तराणि तैर्ज्ञानविशेषैर्ज्ञानविशेषेषु वा शङ्किता इत्यादिभि संबन्धः, एवं सर्वत्र, तेषु चैवं सङ्कादयः स्युः यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन सङ्घयातीतरूपाण्यवधिज्ञानानि सन्ति तत्किमपरेण मनः पर्यायज्ञानेन ?, तद्विषयभूतानां मनोद्रव्याणामवधिनैव दृष्टत्वात् उच्यते चागमे मनःपर्यायज्ञानमिति किमत्र तत्वमिति ज्ञानतः शङ्का, इह समाधिःयद्यपि मनोविषयमप्यवधिज्ञानमस्ति तथाऽपि न मनःपर्यायज्ञानमवधावन्तर्भवति, भिन्नस्वभावत्वात्, तथाहि-मनःपर्यायज्ञानं मनोमात्रद्रव्यग्राहकमेवादर्शनपूर्वकं च अवधिज्ञानं तु किञ्चिन्मनोव्यतिरिक्तद्रव्यग्राहकं किञ्चिञ्च्चोभयग्राहकं दर्शनपूर्वकं च न तु केवलमनोद्रव्यग्राहकम् इत्यादि बहु वक्तव्यमतोऽवधिज्ञानातिरिक्तं भवति मनःपर्यायज्ञानमिति । तथा दर्शनं - सामान्यबोधः, तत्र यदि नामेन्द्रियानिन्द्रियनिमित्तः सामान्यार्थविषयो बोधो दर्शनं तदा किमेकश्चक्षुर्दर्शनमन्यस्त्वचक्षुर्दर्शनम्, अथेन्द्रियानिन्द्रियभेदाद् भेदस्तदा चक्षुष इव श्रोत्रादीनामपि दर्शनभावात् षडिन्द्रियनोइन्द्रियजानि दर्शनानि स्युर्न द्वे एवेति, अत्र समाधिसामान्यविशेषात्मकत्वाद्वस्तुनः क्वचिद्विशेषतस्तन्निर्देशः क्वचिच्च सामान्यतः, तत्र चक्षुदर्शनमचक्षुर्दर्शनं चेत्युक्तं तदिन्द्रियाणामप्राप्तकारित्वप्राप्तकारित्वविभागात्, मनस्त्वप्राप्तकारित्वेऽपि प्राप्तकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वात्तद्दर्शनस्याचक्षुर्दर्शनशब्देन ग्रहणमिति । अथवा दर्शनं सम्यक्त्वं तत्र च शङ्का- “मिच्छत्तं जमुदिनं तं खीणं अनुदियं च उवसंतं" । इत्येवंलक्षणं क्षायोपशमिकम्, औपशमिकमप्येवंलक्षणमेव, यदाह 119 11 "खीणम्मि उग्रम्मी अणुदिति य सेसमिच्छत्ते । ६७ अंतोमुहुत्तमेत्तं उवसमसम्मं लहइ जीवो ॥ ततोऽनयोर्न विशेषः उक्तश्चासाविति, समाधिश्च क्षयोपशमो हि उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः, प्रदेशानुभवतस्तूदयोऽस्त्येव, उपशमे तुप्रदेशानुभवोऽपि नास्तीति, उक्तं च 119 11 “वेएइ संतकम्मं खओवसमिएसु नाणुभावं सो । उवसंतकसाओ पुण वेदेइ न संतकम्मं ति ॥ तथा चारित्रं चरणं तत्र यदि सामायिकं सर्वसावद्यविरतिलक्षणं छेदोपस्थापनीयमपि तल्लक्षणमेव, महाव्रतानामवद्यविरतिरूपत्वात्, तत्कोऽनयो र्भेदः ? उक्तञ्चासाविति । अत्र समाधि ऋजुजडवक्रजडानां प्रथमचरमजिनसाधूनामाश्वासनाय छेदोपस्थापनीयमुक्तं, व्रतारोपणे हि मनाक् सामायिका शुद्धावपि व्रताखण्डनाच्चारित्रिणो वयं चारित्रस्य व्रतरूपत्वादिति बुद्धि स्यात्, सामायिकमात्रे तु तदशुद्धौ भग्नं नश्चारित्रं चारित्रस्य सामायिकमात्रत्वादित्येवमना - श्वासस्तेषां स्यादिति, आह च 119 11 “रिउवक्कजडा पुरिमेयराण सामाइए वयारुहणं । मणयसमुद्धेवि जओ सामइए हुंति हु वयाई ॥ इति तथा लिङ्गं साधुवेषः, तत्र च यदि मध्यमजिनैर्यथालब्धवरूपं लिङ्गं साधूनामुपदिष्टं तदा किमिति प्रथमचरमजिनाभ्यां सप्रमाणधवलवसनरूपं तदेवोक्तं ?, सर्वज्ञानामविरोधि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy