________________
शतकं-१, वर्ग:-, उद्देशकः-३ तथा 'गरहइत्ति आत्मनैव गर्हते निन्दतीत्यतीतकालकृतं कर्म स्वरूपतः तत्कारणगर्हणद्वारेण वाजातविशेषबोधः सन्।तथा संवरइत्ति संवृणोति न करोति वर्तमानकालिकंकर्मस्वरूपतस्तद्धेतुसंवरणद्वारेण वेति, गर्हादौचयद्यपिगुर्वादीनामपिसहकारित्वमस्ति तथाऽपिन तेषांप्राधान्यंजीववीर्यस्यैव तत्र कारणत्वात्, गुर्वादीनां च वीर्योल्लासनमान एव हेतुत्वादिति।
__ अथोदीरणामेवाश्रित्याह-'जं तं भंते !' इत्यादि व्यक्तं, नवरम् अथोदरीयतीत्यादिपदत्रयोद्देशेऽपि कस्मात् 'तं किं उदिन्नं उदीरेइ'इत्यादिनाऽऽद्यपदस्यैव निर्देशः कृतः ?, उच्यते-उदीरणादिके कर्मविशेषणचतुष्टये उदीरणामेवाश्रित्य विशेषणस्य सद्भावाद् इतरयोस्तु तदभावाद्, एवंतर्हि उद्देशसूत्रेगर्हतेसंवृणोतीत्येतत्पदद्वयं कस्मादुपात्तम्? उत्तरत्रानिर्देश्यमाणत्वात्तस्येति, उच्यते-कर्मण उदीरणायां गर्हासंवरणेप्राय उपायावित्यभिधानार्थम्, एवमुत्तरत्तापि वाच्यमिति
प्रश्नार्थश्चेहोत्तरव्याख्यानाद्बोद्धव्यः, तत्र ‘नोउदिन्नं उदीरेइ'त्ति १ उदीर्णत्वादेव, उदीर्णस्याप्युदीरणे उदीरणाऽविरामप्रसङ्गात् । 'नोअणुदिन्नं उदीरेइत्ति २ इहानुदीर्ण-चिरेण भविष्यदुदीरणम् अभविष्यदुदीरणं च तन्नोदीरयति तद्विषचोदीरणायाः सम्प्रत्यनागतकाले चाभावात । ___'अनुदिन्नं उदीरणाभवियं कम्मं उदीरेइ'त्ति ३ अनुदीर्णं स्वरूपेण किन्त्वनन्तरसमय एव यदुदीरणाभविकं तदुदीरयति, विशिष्टयोग्यताप्राप्तत्वात्, तत्र भविष्यतीति भवा सैव भविका उदीरणा भविका यस्येत प्राकृतत्वाद् उदीरणाभविकम्, अन्यथा भविकोदीरणमिति स्यात्, उदीरणायां वा भव्यं-योग्यमुदीरणाभव्यमिति।
____ 'नोउदयानंतरपच्छकडन्ति४ उदयेनानन्तरसमये पश्चातकृतम्-अतीततां नीतंयत्तत्तथातदपि नोदीरयति, तस्यातीतत्वात् अतीतस्य चासत्त्वाद् असतश्चानुदीरणीयत्वादिति। इह च यद्यप्युदीरणादिषु कालस्यभावादीनां कारणत्वमस्ति तथाऽपि प्राधान्येन पुरुष- वीर्यस्यैव कारणत्वमुपदर्शयन्नाह-जंत'मित्यादिव्यक्तं, नवरम् उत्थानादिनोदीरयतीत्युक्तं, तत्च यदापन्नं तदौह-‘एवं सइत्ति ‘एवम्' उत्थानादिसाध्ये उदीरणे सतीत्यर्थः, शेषं तथैव ।। काङ्खामोहनीयस्योदीरणोक्ता, अथ तस्यैवोपशमनमाह- से नून' मित्यादि, उपशमनं मोहनीयस्यैव, यदाह॥१॥ "मोहस्सेवोवसमो खाओवसमो चउण्ह घाईणं ।
उदयक्खयपरिणाणा अट्ठण्हवि होति कम्माणं॥ उपशमचोदीर्णस्य क्षयः अनुदीर्णस्य च विपाकतः प्रदेशतश्चाननुभवनं, सर्वथैव विष्कम्भितोदयत्वमित्यर्थः, अयं चानादिमिथ्याध्टेरौपशमिकसम्यक्त्वलाभे उपशमश्रेणिगतस्य चेति, अनुदिन्नं उवसामेति'त्ति उदीर्णस्य त्ववश्यं वेदनादुपशमनाभाव इति । उदीरणं सद्वेद्यते इति वेदनसूत्रं, तत्र 'उदिन्नं वेएइ'त्ति अनुदीर्णस्य वेदनाभावात्, अथानुदीर्णमपि वेदयति तर्हि उदीर्णानुदीर्णयोःको विशेषः स्यात्? इति । वेदितंसन्निजीर्यत इति निर्जरासूत्र, तत्र 'उदयानंतरपच्छकडं ति उदेयनान्तरसमये यत्पश्चात्कृतम्-अतीततां गमितंतत्तथा तत् 'निर्जरयति' प्रदेशेभ्यः शातयति, नान्यद्, अननुभूतरसत्वादिति । उदीरणोपशमवेदनानिर्जरणसूत्रोक्तार्थसङ्गहगाथा
"तईएण उदीरेंति उवसामेति य पुणोवि बीएणं । वेइंति निजरंति य पढमचउत्थेहिं सव्वेऽवि।।
55
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org