________________
८3
शतकं-१, वर्ग:-, उद्देशकः-३ एत्थं गमणिजं?, हंता! गोयमा!, जहा मे एत्थं गमणिशं जाव तहा मे एत्थं गमणिकं ।
वृ. 'जहा ते' इत्यादि 'यथा' स्वकीयपरकीयताऽनपेक्षतया समत्वेन विहितमितिप्रवृत्त्या उपकारबुद्धया वा 'ते' तव भदन्त ! "एत्थं ति एतस्मिन् मयि संनिहिते स्वशिष्ये गमनीयं-वस्तु प्रज्ञापनीयं तथा तेनैव समतालक्षणप्रकारेण उपकारधियावा 'इहंति 'इह' अस्मिन् गृहिपाषण्डिकादो जने गमनीयं? वस्तुप्रकाशनीयमितिप्रश्नः ।अथवा एत्थं ति स्वात्मनियथागमनीयं सुखप्रियत्वादितथा 'इह' परात्मनि, अथवा यथाप्रत्यक्षाधिकरणार्थतया ‘एत्थ'मित्येतच्छब्दरूपं गमनीयं तथा 'इहामित्येतच्छब्दरूपमिति?, समानार्थत्वाद् द्वयोरपीति ।
कासामोहनीयकर्मवेदनं सप्रसङ्गमुक्तम्, अथ तस्यैव बन्धमभिधातुमाह
मू. (४२) जीवाणं भंते ! कंखामोहणिजं कम्मं बंधति?, हंता बंधति । कहणं भंते ! जीवा कंखामोहणिज्जं कम्मं बंधति?, गोयमा! पमादपचया जोगनिमित्तं च ।
से णं भंते ! पमाए किंपवहे ?, गोयमा ! जोगप्पवहे । से णं भंते ! सरीरे किंपवहे ?, गोयमा! जीवप्पवहे।
एवं सति अस्थि उट्ठाणे ति वा कम्मे ति वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमेइ वा
वृ. “जीवाणं भंते ! कंखे'त्यादि ‘पमायपञ्चय'त्ति प्रमादप्रत्ययात्' प्रमत्ततालक्षणाद्धेतोः प्रमादश्चमद्यादि, अथवा प्रमादग्रहणेन मिथ्यात्वाविरतिकषायलक्षणंबन्धहेतुत्रयं गृहीतम्, इष्यते च प्रमादेऽन्तर्भावोऽस्य, यदाह
“पमाओ यमुर्णिदेहि, भणिओ अट्ठभेयओ ।
अन्नाणं संसओचेव, मिच्छनाणं तहेवय।। ॥२॥ रागो दोसो मइब्भंसो, धम्ममि य अणायरो।
जोगाणं दुप्पणीहाणं, अट्ठहा वञ्जियव्वओ॥ति तथा योगनिमित्तंच' योगाः मनःप्रभृतिव्यापाराःते निमित्तं-हेतुर्यत्रतत्तथाबन्धन्तीति, क्रियाविशेषणंचेदम्, एतेनच योगाख्यश्चतुर्थकर्मबन्धहेतुरुक्तः, चशब्दः समुच्चये।अथप्रमादादेरेव हेतुफलभावं दर्शनायाह
_ 'सेण'मित्यादि 'पमाए किंपवहे'त्ति प्रमादोऽस कस्मात्प्रवहति-प्रवर्तत इति किंप्रवहः पाठान्तरेण किंप्रभवः ?, 'जोगप्पवहेत्ति योगो-मनःप्रभृतिव्यापारः, तत्प्रवहत्वं च प्रमादस्य मद्याद्यासेवनस्य मिथ्यात्वादित्रयस्य च मनःप्रभृतिव्यापारसद्भावे भावात्, 'चीरियप्पवहे'त्ति वीर्यं नाम वीर्यान्तरायकर्मक्षयक्षयोपशमसमुत्यो जीवपरिणामविशेषः, 'सरीरप्पवहे ति वीर्य द्विधा-सकरणमकरणंच,तत्रालेश्यस्यकेवलिनः कृत्योर्जेयध्ययो केवलंज्ञानदर्शनं चोपयुानस्य योऽसावपरिस्पन्दोऽप्रतिधो जीवपरिणामविशेषस्तदकरणं तदिह नाधिक्रियते, यस्तु मनोवाकायकरणसाधनः सलेश्यजीवकर्तृको जीवप्रदेशपरिस्पन्दात्मको व्यापारोऽसौ सकरणं वीर्यं तच्च शरीरप्रवह, शरीरं विना तदभावादिति । 'जीवप्पवहे'त्ति इह यद्यपि शरीरस्य कर्मापि कारणंन केवलमेवजीवस्तथाऽपिकर्मणो जीवकृतत्वेनजीवप्रधान्यात्जीवप्रवहंशरीरमित्युक्तम्
अथ प्रसङ्गतो गोशालकमतं निषेधयन्नाह-एवं सइत्ति, 'एवम्' उक्तन्यायेन जीवस्य काजामोहनीयकर्मबन्धकत्वे सति ‘अस्ति' विद्यतेनतुनास्ति, यथा गोशालकमतेनास्तिजीवाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org