________________
भगवतीअगसूत्रं 9/1३/४०
तथा भवति, इदमुक्तं भवति-द्रव्यस्य प्रकारान्तरेण सत्ता प्रकारान्तरसत्या वर्तते यथा मृबव्यस्य पिण्डप्रकारेण सत्ता घटप्रकारसत्तायामिति ।
'नत्थित्तंनस्थित्तेपरिणमइत्तिनास्तित्वम्-अङ्गुल्यादेरङ्गुष्ठादिभावेनासत्त्वंतच्चाङ्गुष्ठादिभाव एव, ततश्चाङ्गुल्यादेर्नास्तित्वमङ्गुष्ठाद्यस्तित्वरूपमङ्गुल्यादेनास्तित्वे अङ्गुष्ठादेः पर्यायान्तरेणास्तित्वरूपे परिणमति, यथा मृदो नास्तित्वं तन्त्वादिरूपं मृन्नास्तित्वरूपे पटे इति, अथवाऽस्तित्वमितिधर्मधर्मिणोरभेदात् सद्वस्तु अस्तित्वे-सत्त्वे परिणमति, तत्सदेव भवति, नात्यन्तं विनाशि स्याद्, विनाशस्य पर्यायान्तरगमनमात्ररूपत्वात्, दीपादिविनाशस्यापि तमिनादिरूपतया परिणामात्
तथा 'नास्तित्वम्' अत्यन्ताभावरूपं यत् खरविषाणादि तत् 'नास्तित्वे' अत्यन्ताभाव एववति, नात्यन्तमसतः सत्त्मस्ति, खरविषाणस्येवेति, उक्तंच-“नासतोजायतेभावो, नाभावो जायते सतः।" अथवाऽस्तित्वमिति धर्माभेदात् सद् ‘अस्तित्वे सत्त्वे वर्तते, यथा पटः पटत्व एव, नास्तित्वं चासत् 'नास्तित्वे' असत्त्वे वर्तते, यथा अपटोऽपटत्व एवैति ।
अथ परिणामहेतुदर्शनायाह-जं न मित्यादि 'अस्थित्तं अत्थित्ते परिणमईत्ति पर्यायः पर्यायान्तरतां यातीत्यर्थः 'नस्थित्तं नस्थित्ते परिणमइत्ति वस्त्वन्तरस्य पर्यायस्तत्पर्यायान्तरतां यातीत्यर्थः, 'पओगस'त्ति सकारस्यागमिकत्वात् 'प्रयोगेण' जीवव्यापारेण 'वीसस'त्ति यद्यपि लोके विश्रसाशब्दोजरापर्यायतयारूढस्तथाऽपीह स्वभावार्थोश्यः, इहप्राकृतत्वाद् ‘वीससाए'त्ति वाच्ये वीससा' इत्युक्तमिति, अत्रोत्तरम्-'पओगसावितंतिप्रयोगेणापि तद्-अस्तित्वादि, यथाकुलालव्यापारान्मृत्पिण्डोघट तया परिणमति, अङ्गुलिऋजुता वावक्रतयेति, अपिः समुच्चये,
विससानि तंत्ति यथा शुभाघ्रमशुभ्राभ्रतया, नास्तित्वस्यापि नास्तित्वपरिणामे प्रयोगविश्रसयोरेतान्येवोदाहरणानि, वस्त्वन्तरापेक्षया मृत्पिण्डादेरस्तित्वस्यनास्तित्वात्, सत्सदेवस्यादिति व्याख्यानान्तरेऽप्येता-न्येवोदाहरणानिपूर्वोत्तरावस्थयोः सद्रूपत्वादिति, यदपि-'अभावोऽभाव एव स्याद्' इति व्याख्यातं तत्रापि प्रयोगेणापि तथा विनसयाऽपि अभावोऽभाव एव स्यात् प्रयोगादेः साफल्यमिति व्याख्येय- मिति ॥ अथोक्तहेत्वोरुभयत्र समतां भगवदभिमततां च दर्शयत्राह
'जहा ते' इत्यादि, 'यथा' प्रयोगविश्रसाभ्यामित्यर्थः 'ते'इति तवमतेन अथवा सामान्येनास्तित्वनास्तित्वपरिणामः प्रयोगविश्रसाजन्य उक्तः, सामान्यश्च विधि कचिदतिशयवति वस्तुन्यन्यथाऽपिस्याद अतिशयवांश्च भगवानिति तमाश्रित्यपरिणामान्यथात्वमाशङ्कमान आह-'जहा ते'इत्यादि, 'ते'इति तव सम्बन्धि अस्तित्वं, शेषं तथैवेति।
अथोक्तस्वरूपस्यैवार्थस्य सत्यत्वेन प्रज्ञापनीयतां दर्शयितुमाह-'से नून'मित्यादि, अस्तित्वमस्तित्वे गमनीयं सद्वस्तु सत्वेनैव प्रज्ञापनीयमित्यर्थ, 'दो आलावगत्ति से नूनं भंते! अस्थित्तं अस्थित्तेगमणिज्ज'मित्यादि पओगसावितं वीससावितं' इत्येतदन्त एकः, परिणामभेदाभिधानात, जहातेभंते! अस्थित्तं अस्थित्तेगमणिज्ज'मित्यादि 'तहा मेअस्थित्तं अस्थित्तेगमणिज्ज' मित्येतदन्तस्तु द्वितीयोऽस्तित्वनास्तित्वपरिणामयोः समताऽभिधायीति ।
एवं वस्तुप्रज्ञापनाविषया समभावतां भगवतोऽभिधायाय शिष्यविषयांतां दर्शयत्राहमू. (४१) जहा ते भंते ! एत्थ गमणिजंतहा ते इहंगमणिशं, जहा ते इहंगमणिजंतहा ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org