SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ ७६ भगवतीअङ्गसूत्रं (२) १२/-/६/५४६ चन्द्रविमानावरणेचन्द्रदीप्तेरावृत्तत्वाचन्द्रलेश्यांपुरस्तादावृत्य पञ्चच्छिमेणंवीइवयइतिचन्द्रापेक्षया परेण यातीत्यर्थः 'पुरच्छिमेणं चंदे उवदंसेइ पच्चच्छिमेणं राहुत्ति राह्वपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदर्शयति चन्द्रापेक्षया च पश्चिमायां राहुरात्मानमुपदर्शयीत्यर्थः । एवंविधस्वभावत्यां च राहोश्चन्द्रस्य यद्भवति तदाह-'जया णमित्यादि, 'आवरेमाणे' इत्यत्र द्विर्वचनं तिष्ठतीति क्रियाविशेषणत्वात् 'चंदेण राहुस्स कुच्छी भिन्नति राहोरंशस्य मध्येन चन्द्रोगत इति वाच्यं, चन्द्रेण राहोः कुक्षिर्भिन्न इतिव्यपदिशन्तीति, पच्चोसक्कइ'त्ति 'प्रत्यवसप्रपति' व्यावर्त्तते 'वंते'त्ति 'वान्तः परित्यक्तः, 'संपक्खि सपडिदिसं"ति सपक्ष-समानदिग्यथा भवति सप्रतिदिक्-समानविदिक्च यथा भवतीत्येवं चन्द्रलेश्यां 'आवृत्त्य' अवष्टभ्य तिष्ठतीत्येवंयोगः, अत आवरणमात्रमेवेदं वैनसिकं चन्द्रस्य राहुणा ग्रसनं न तु कार्मणमिति । __ अथ राहोर्भेदमाह-'कइविहेण मित्यादि, यश्चन्द्रस्य सदैव संनिहितः संचरति सध्रुवराहुः, आह च॥१॥ किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहियं । ___ चउरंगुलमप्पत्तं हेहा चंदस्स तं चरइ ॥ इति यस्तु पणि-पौर्णमास्यामावास्ययोश्चन्द्रादित्ययोरुपरागं करोति स पर्वराहुरिति । 'तत्थ मंजे से धुवराहू'इत्यादि 'पाडिवए'त्ति प्रतिपद आरभ्येति शेषः पञ्चदशभागेन स्वकीयेन करणभूतेन पञ्चदशभागं चंदस्सलेस्सं'तिविभक्तिव्यत्ययाच्चन्द्रस्यलेश्यायाः चन्द्रबिम्बसम्बन्धिनमित्यर्थः आवृण्वन् २ प्रत्यहं तिष्ठति, पढ़माए'त्तिप्रथमतिथौ, पत्ररसेसुति पञ्चदशसु दिनेषुअमावास्यायामित्यर्थः ‘पन्नरसमभाग' 'आवरित्ताणंचिट्टइत्तिवाक्यशेषः,एवं च यद्भवति तदाह-'चरिमे'त्यादि, चरमसमये पञ्चदशभागोपेतस्य कृष्णपक्षस्यान्तिमे काले कालविशेषे वा चन्द्रो रक्तो भवति-राहुणोपरक्तो भवति सर्वथाऽप्याच्छादित इत्यर्थः, अवशेषे समये प्रतिपदादिकाले चन्द्रो रक्तो वा विरक्तो वा भवति, अंशेन राहुणोपरक्तोऽशान्तरेण चानुपरक्तः आच्छादिता- नाच्छादित इत्यर्थः । ___'तमेव'त्ति तमेव चन्द्रलेश्यापञ्चदशभागंशुक्लपक्षस्यप्रतिपदादिष्वितिगम्यते 'उपदर्शयन् २' पञ्चदशभागेन स्वयमपसरणतः प्रकटयन्प्रकटयंस्तिष्ठति, चरिमसमयेत्ति पौर्णमास्यांचन्द्रो विरक्तो भवति सर्वथैव शुक्लीभवतीत्यर्थः सर्वथाऽनाच्छादितत्वादिति, इह चायं भावार्थःषोडशभागीकृतस्य चन्द्रस्यषोडशोभागोऽवस्थित एवास्ते, ये चान्ये भागास्तन् राहुः प्रतितिथ्येकैकं भागं कृष्णपक्षे आवृणोति शुक्ले तु विमुञ्चतीति, उक्तञ्च ज्योतिष्करण्डके॥१॥ “सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं। तत्तियमेत्ते भागे पुणोवि परिवड्डई जोण्हा ॥" इति, इहतुषोडशभाकल्पना न कृता व्यवहारिणां षोडशभागस्यावस्थितस्यानुपलक्षणादिति सम्भावयाम इति, ननु चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वाद् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशे दिने चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात् ? इति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं तत्प्रायिक, ततश्च राहोहस्योक्ताधिकप्रमाणमपि विमानं संभाव्यते, अन्ये पुनराहुः-लघीयसोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy