________________
शतकं-१२, वर्ग:-, उद्देशकः-५
७३ जीवोपयोगचामूर्तोऽमूर्तत्वाच्च तस्य वधादिविरमणानाममूर्तत्वं तस्माच्चावर्णादित्वमिति ।
जीवस्वरूपविशेषमेवाधिकृत्याह-उप्पत्तियत्तिउत्पत्तिरेवप्रयोजनंयस्याः साऔत्पत्तिकी, ननुक्षयोपशमः प्रयोजनमस्याः? सत्यं, स खल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते, नचान्यच्छस्त्रकर्माभ्यासादिकमपेक्षत इति, 'वेणइय'त्ति विनयो-गुरुशुश्रूषा स कारणमस्यास्तप्रधाना वा वैनयिकी, 'कम्मय'त्त अनाचार्यकं कर्म साचार्यकं शिल्पं कादाचित्कं वा कर्म शिल्पं तु नित्य- व्यापारः, ततश्च कर्मणो जाता कर्मजा, 'पारिणामिय'त्ति परि-समन्तानमनं परिणामः सुदीर्घकालपूर्वापरावलोकनादिजन्मआत्मधर्म स कारणंयस्याः सापारिणामिकी बुद्धिरिति वाक्यशेषः, इयमपि वर्णादिरहिता जीवधर्मत्वेनामूर्त्तत्वात्।
जीवधर्माधिकारादवग्रहादिसूत्रं कर्मादिसूत्रं च, अमूर्ताधिकारादवकाशान्तर सूत्रं अमूर्त्तत्वविपर्ययात्तनुवातादिसूत्राणि चाह-तत्र च ‘सत्तमेणं भंते! उवासंतरे'त्तिप्रथमद्वितीयपृथिव्योर्यदन्तराले आकाशखण्डं तपथमं तदपेक्षया सप्तमं सप्तम्या अधस्तात्तस्योपरिष्टासप्तमस्तनुवातस्तस्योपरि सप्तमो धनवातस्तस्याप्युपरि सप्तमो धनोदधिस्तस्याप्युपरि सप्तमी पृथिवी, तनुवातादीनांचपञ्चवर्णादित्वंपौद्गलिकत्वेन मूर्त्तत्वात्, अष्टस्पर्शत्वंचवादरपरिणामत्वात्, अष्टौ च स्पर्शाशीतोष्णस्निग्ध-रूक्षमूदुकठिनलघुगुरूभेदादिति ।
जम्बूद्वीपे इत्यत्रं यावत्करणाल्लवणसमुद्रादीनि पदानि वाच्यानि 'जाव वेमाणियावासा' इह यावत्करणादसुरकुमारावासादिपरिग्रहः,ते च भवनानि नगराणि विमानानि तिर्यगलोके तन्नगर्यश्चेति । 'वेउब्बियतेयाइं पडुच्च'त्ति क्रियतैजसशरीरे हि बादरपरिणामपुद्गलरूपे ततो वादरत्वात्तयोनारकाणामष्टस्पर्शत्वं, 'कम्मगं पडुच्च'त्ति कार्मणं हि सूक्ष्मपरिणामपुद्गलरूपमतश्चतुःस्पर्श, ते च शीतोष्णस्नग्धरूक्षाः।।
'धम्मत्थिकाए' इह यावत्करणादेवं दृश्यम्-'अधम्मत्थिकाएआगासत्थकाए पोग्गलत्थिकाए अद्धासमए आवलिया मुहुत्ते' इत्यादि, ‘दव्वलेसं पडुच'त्ति इह द्रव्यलेश्यावर्ण: 'भावलेसं पडुच्च'त्ति भावलेश्या-आन्तरः परिणामः, इहच कृष्णलेश्यादीनि परिग्रहसज्ज्ञाऽवसानानि अवर्णादीनि जीवपरिणामत्वात्, औदारिकादीनि चत्वारि शरीराणि पञ्चवर्णादिविशेषणानि अष्टस्पर्शानि च बादरपरिणामपुद्गलरूपत्वात्, सर्वत्र च चतुःस्पर्शत्वे सूक्ष्मपरिणामः कारणं अष्टस्पर्शत्वे चबादरपरिणामः कारणं वाच्यमिति, 'सव्वदव्य'त्तिसर्वद्रव्याणिधर्मास्तिकायादीनि 'अत्थेगइया सव्वदव्या पंचवन्ने'त्यादि बादरपुद्गलद्रव्याणि प्रतीत्योक्तं सर्वद्रव्याणां मध्ये कानिचिधर्मास्तिकायादीनि अत्थेगइया सव्वदव्वापंचवन्ने त्यादिवादरपुद्गलद्रव्याणिप्रतीत्योक्तं सर्वद्रव्याणां मध्ये कानिचित्पञ्चवर्णादीनीति भावार्थः 'चउफासा' इत्येतञ्च पुद्गलद्रव्याण्येव सूक्ष्माणि प्रतीत्योक्त।
“एगगंधे' त्यादि च परमाण्वादिद्रव्याणि प्रतीत्योक्तं, यदाह परमा-गुद्रव्यमाश्रित्य॥१॥ “कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः।
एकरस वर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ।।" इति, स्पर्शद्वयं च सूक्ष्मसम्बन्धिनांचतुर्णा स्पर्शानामन्यतरदविरुद्धं भवति, तथाहि-स्निग्धोष्णलक्षणं स्निग्धशीतलक्षणं वा रूक्षशीतलक्षणं रूक्षोष्णलक्षणं वेति, 'अवण्णे'त्यादि च धर्मास्तिकायादिद्रव्याण्याश्रित्योक्तं, द्रव्याश्रितत्वात्प्रदेशपर्यवाणां द्रव्यसूत्रानन्तरं तत्सूत्रं, तत्र च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org