________________
२
भगवतीअङ्गसूत्रं (२) १२/-1५/५४३ मनाक्रिययोत्कृष्टताकरणंउत्काशनं वा-प्रकाशनमभिमानत्स्वकीयसमृद्धयादेः अवक्कोसे'त्ति अपकर्षणमवकर्षणं वा अभिमानादात्मनः परस्य वा क्रियारम्भात् कुतोऽपि व्यावर्त्तनमिति अप्रकाशोवाऽभिमानादेवेति। 'उण्णए'त्तिउच्छिन्नंनतं-पूर्वप्रवृत्तंनमनमभिमानादुन्नतम्, उच्छिन्नो वा नयो-नीतिरमि-मानादेवोन्नयो नयाभाव इत्यर्थः, 'उन्नामे'त्ति प्रनतस्य मदानुप्रवेशादुन्नमनं 'दुन्नामेत्तिमदाद्दुष्टंनमनंदुर्नाम इति, इह चस्तम्भादीनि मानकार्याणिमानवाचका वैते ध्वनय इति । _ 'माय'त्ति सामान्य उपध्यादयस्तभेदाः, तत्र उवहित्ति उपधीयते येनासावुपधिः -वञ्चनीय-समीपगमनहेतुर्भावः "नियडित्ति नितरां करणं निकृति-आदरकरणेन परवञ्चनं पूर्वकृतमाया-प्रच्छादनार्थं वा मायान्तरकरणं वलए'त्ति येन भावेन वलयमिव वक्र वचनं चेष्टा वाप्रवर्तते स भावो वलयं 'गहणे'त्ति परव्यामोहनाय यद्वचनजालं तद्गहनमिव गहनं ‘णूमे'ति परवञ्चनाय निम्रताया निम्नस्थानस्य वाऽश्रहयणंतत्रूमंति 'कक्केत्तिकल्कंहंसादिरूपंपापं तन्निमित्तो यो वञ्चनाभिप्रायः स कल्कमेवोच्यते 'कुरूए'त्ति कुत्सितं यथा भवत्येवं रूपयति-विमोहयति यत्तत्कुरूपं भाण्डादिकरम्म मायाविशेष एव ।।
"जिम्हे त्ति येन परवञ्चनाभिप्रायेण जैह्यं-क्रियासु मान्धमालम्बते स भावो जैहयमेवेति 'किविसे'त्तियतो मायाविशेषाजन्मान्तरेऽत्रैव वाभवे किल्बिषः-किल्बिषिको भवतिस किल्बिष एवेति, 'आयरणय'त्तियतो मायाविशेषादादरणं अब्युपगमंकस्यापि वस्तुनः करोत्यसावादरणं, ताप्रत्ययस्यचस्वार्थिःकत्वाद् आयरणया, आचरणंवा-परप्रतारणाय विविधक्रियाणामाचरणं, 'गूढनया' गूहनं गोपायनं स्वरूपस्य 'वंचणया' वञ्चनं-परस्य प्रतारणं पलिउंचणया' प्रतिकुञ्चनं सरलतया प्रवृत्तस्य वचनसय्खण्डनं साइजोगे'त्ति अविश्रम्मभसम्बन्धः सातिशयेन वा द्रव्येण निरतिशयस्य योगस्तप्रतिरूपकरणमित्यर्थः, मायैकार्था वैते ध्वनय इति।
. 'लोभे'त्ति सामान्यं इच्छादयस्तद्विशेषाः, तत्रेच्छा-अभिलाषमात्रं 'मुच्छा कंखा गेही त्ति मूर्छा-संरक्षणानुबन्धः काङ्क्षा-अप्राप्ताशंसा 'गेहित्ति गृद्धि प्राप्तार्थेष्वासक्ति 'तण्ह'त्ति तृष्णा-प्राप्तार्थानामव्ययेच्छा 'भिज्ञ'त्ति अभि-व्याप्तया विषयाणांध्यानं तदेकाग्रत्वमभिध्यापिधानादिवदकारलोपाद्भिध्या 'अभिज्झ'त्ति न भिध्या अभिध्या भिध्यासशं भावान्तरं, तत्र दृढाभिनिवेशोभिध्या ध्यानलक्षणत्वात्तस्याः, अध्ढाभिनिवेशस्त्वभिध्या चित्तलक्षणत्वात्तस्याः
ध्यानचित्तयोस्त्वयं विशेष:-"जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं"ति 'आसासणय'त्ति आशंसनं-मम पुत्रस्य शिष्यस्य वा इदमिदं च भूयादित्यादिरूपा आशीः 'पत्थणय'त्तिप्रार्थःनं-परंप्रतीष्टार्थःयाचा 'लालप्यणय'त्ति प्रार्थःनमेवभूसंलपनतः ‘कामास'त्ति शब्दरूपप्राप्तिसम्भावना भोगास'त्ति गन्धादिप्राप्तिसम्भावना 'जीवितास'त्ति जीवितव्यप्राप्तिसम्भावना, 'मरणास'त्ति कस्याञ्चिदवस्थायां मरणप्राप्तिसम्भावना, इदं च क्वचिन्न दृश्यते, 'नंदिरागे'त्ति समृद्धौ सत्यां रागो-हर्षो नन्दिरागः, 'पेजेत्ति प्रेम-पुत्रादिविषयः स्नेहः 'दोसे'त्ति अप्रीति कलहः-इह प्रेमहासादिप्रभवंयुद्धं, यावत्करणात् 'अब्भक्खाणे पेसुन्ने अरइरईपरपरिवाए मायामो से त्ति दृश्यम्।
अथोक्तानामेवाष्टादशानां प्राणातिपातादिकानां पापस्थानानां ये विपर्यास्तेषां स्वरूपाभिधानायाह- 'अहे'त्यादि, 'अवन्ने त्ति वधादिविरमणानि जीवोपयोगस्वरूपाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org