SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ शतकं-१२, वर्गः-, उद्देशकः-४ अवसर्पिण्य इत्यादि सुष्ठुक्तमिति । 'सव्वत्थोवे कम्पगपोग्गले'त्यादि, सर्वस्तोकः कार्मणपुद्गलपरिवर्तनिवर्तनाकालः, ते हि सूक्ष्मा बहुतमपरमाणुनिष्पन्नाश्च भवन्ति, ततस्ते सकृदपि वहयोगृह्यन्ते, सर्वेषुचनारकादिपदेषुवर्तमानस्य जीवस्य तेऽनुसमयं ग्रहणायान्तीतिस्वल्पकालेनापि तत्सकलपुद्गलग्रहणं भवतीति, ततस्तैजसपुद्गलपरिवर्तनिवर्तनाकालः, ते हि सूक्ष्मा वहुतमपरमाणुनिष्पन्नाश्चभवन्ति, ततस्तेसकृदपिबहवो गृह्यन्ते, सर्वेषुचनारकादिपदेषुवर्तमानस्य जीवस्य तेऽनुसमयं ग्रहणमायान्तीति स्वल्पकालेनापि तत्सकलपुद्गलग्रहणं भवतीति, ततस्तैजसपुद्गलपरिवर्तिनिर्वर्तनाकालोऽनन्तगुणो। यतः स्थूलत्वेन तैजसपुद्गलानामल्पानामेकदा ग्रहणम्, एकग्रहणे चाल्पप्रदेशनिष्पन्नत्वेन तेषामल्पानामेव तदणूनां ग्रहणं भवत्यतोऽनन्तगुणोऽसाविति, तत औदारिकपुद्गलपरिवर्तनिवर्तनाकालोऽनन्तगुणो, यत औदारिकपुगला अतिस्थूराः, स्थूराणां चाल्पानामेवैकदा ग्रहणं भवति अल्पतरप्रदेशाश्च ते ततस्तद्रहणेऽप्येकदाऽल्पा एवाणवो गृह्यन्ते, न च कार्मणतैजसपुद्गलवत्तेषांसर्वपदेषुग्रहणमस्ति, औदारिकशरीरिणामेव तद्रहणाद्, अतो बृहतैव कालेन तेषां ग्रहणमिति, तत आनप्राणपुद्गलपरिवर्तनाकालोऽनन्तगुणः, यद्यपि हि औदारिकपुद्गलेभ्य आनप्राणपुद्गलाः सूक्ष्मा प्रदेशिकाश्चेति तेषामल्पकालेन ग्रहणं संभवति तथाऽप्यपयप्तिकावस्थायां तेषामग्रहणात्पर्याप्तकावस्थायामप्यदारिकशरीरपुद्गलापेक्षया तेषामल्पीयसामेव ग्रहणान्नशीघ्रं तद्रहणमित्यौदारिकपुद्गलपरिवर्तनिर्वर्तनाकालादनन्तगुणताऽऽनप्राणपुद्गलपरिवर्तनिवर्तनाकालस्येति, __ततो मनःपुद्गलपरिवर्तिनिवर्त्तनाकालोऽनन्तगुणः, कथम्?, यद्यप्यानप्राणपुद्गलेभ्यो मनःपुद्गलाः सूक्ष्मा बहुप्रदेशाश्चेत्यल्पकालेन तेषां ग्रहणं भवति तथाऽप्येकेन्द्रियादिकायस्थितिवशान्मनसश्चिरेण लाभान्मानसपुद्गलपरिवरत्तो बहुकालसाध्य इत्यनन्तगुण उक्तः, ततोऽपि वाक्पुद्गलपरिवर्तनिर्वर्तनाकालोऽनन्तगुणः, कथम्?, यद्यपि मनसः सकाशाद्भाषा शीघ्रतरं लभ्यते द्वीन्द्रियाद्यवस्थायां च भवति तथाऽपि मनोद्रव्येभ्यो भाषाद्रव्याणामतिस्थूलतया स्तोकानामेवैकदा ग्रहणात्ततोऽनन्तगुणो वाक्पुद्गलपरिवर्तनिवर्तनाकाल इति, ततो वैक्रयपुद्गलपरिवर्त्तनिवर्त्तनाकालोऽनन्तगुणो, वैक्रयशरीरस्यातिबहुकाललभ्यत्वादिति । पुद्गलपरिवर्तानामेवाल्पबहुत्वं दर्शयन्नाह मू. (५४१) एएसिणं भंते! ओरालियपोग्गलपरियट्टाणंजाव आणापाणुपोग्गलपरियाण य कयरे २ हिंतो जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा वेउव्चियपो० वइपो० परि० अनंत-गुना मणपोग्गलप० अनंत० आणापाणुपोग्गल० अनंतगुणा ओरालियपो० अनंतगुणा तेयापो० अनंत० कम्मगपोग्गल० अनंतगुणा । सेवं भंते ! सेवं भंतेत्ति भगवंजाव विहरइ। वृ. 'एएसिण'मित्यादि, सर्वस्तोका वैक्रियपुद्गलपरिवर्ता बहुतमकालनिर्वर्तनीयत्वात्तेषां, ततोऽनन्तगुणा वागविषया अल्पतरकालनिर्वतत्वात्, एवं पूर्वोक्तयुक्ता बहुबहुतराःक्रमेणान्येऽपि वाच्या इति। शतकं-१२ उद्देशकः-४ समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy