________________
शतकं - १२, वर्ग:-, उद्देशकः -४
६७
जाव वेमाणियाणं वेमाणियत्ते केवतिया आणापाणुपोग्गलपरियट्टा अतीया ?, अनंता, केवतिया पुरेक्खडा ?, अनंता ।
वू. 'एएसि ण'मित्यादि, 'एतेषाम्' अनन्तरोक्तस्वरूपाणां परमाणुपुद्गलानां परमाणूनामित्यर्थः 'साहणणाभेयाणुवाएणं' ति 'साहणण' त्ति प्राकृतत्वात् संहननं सङ्घातो भेदश्चवियोजनं तयोरनुपातो-योगः संहननभेदानुपातस्तेन सर्वपुद्गलद्रव्यैः संह परमाणूनां संयोगेन वियोगेन चेत्यर्थः, 'अनंतानंत' त्ति अनन्तेन गुणिता अनन्ता अनन्तानन्ताः, एकोऽपि हि परमाद्वर्यणुकादिभिरनन्ताणुकान्तैर्द्रव्यैः सह संयुज्यमानोऽनन्तान् परिवर्त्तान् लभते, प्रतिद्रव्यं परिवर्त्तभावात्, अनन्तत्वाच्च परमाणूनां प्रतिपरमाणु चानन्तत्वात्परिवर्त्तानां परमाणुपुद्गलपरिवर्त्तानामनन्तानन्तत्वं द्रष्टव्यमिति ।
' पुग्गलपरियट्ट' त्ति पुद्गलैः-- पुद्गलद्रव्यैः सह परिवर्त्ताः - परमाणूनां मीलनानि पुद्गलपरिवत्ता' 'समनुगन्तव्याः' अनुगन्तव्या भवन्तीति हेतोः 'आख्याताः' प्ररूपिताः भगवद्भिःरिति गम्यते, मकारश्च प्राकृत शैलीप्रभवः ॥ अथ पुद्गलपरावर्त्तस्यैव भेदाभिधानायाह - 'कइविहे ण'मित्यादि, ‘ओरालियपोग्गलपरियट्टे' त्ति औदारिकशरीरे वर्त्तमानेन जीवेन यदौदारिकशरीरप्रायोग्यद्रव्याणामौदारिकशरीरतया सामस्त्येन ग्रहणसावीदारिकपुद्गलपरिवर्त्तः, एवमन्येऽपि 'नेरइयाणं' ति नारकजीवानामनादौ संसारे संसरतां सप्तविधः पुद्गलपरावत्तः प्रज्ञप्तः
'एगमेगस्से' त्यादि, अतीतानन्ता अनादित्वात् अतीतकालस्य जीवस्य चानादित्वात् अपरापरपुद्गलग्रहणस्वरूपत्वाच्तेति । 'पुरक्खडे' त्ति पुरस्कृता भविष्यन्तः 'कस्सइ अत्थि कस्सइ नथि' त्ति कस्यापि जीवस्य दूरभव्यस्याभव्यस्य वा ते सन्ति, कस्यापि न सन्ति, उद्धृत्य यो मानुषत्वमासाद्य सिद्धिं यास्यति सङ्घयेयैरसङ्घययैर्वा भवैर्यास्यति यः सिद्धिं तस्यापि परिवर्त्तो नास्ति, अनन्त कालपूर्यत्वातस्येति । 'एगत्तिय'त्ति एकत्विकाः - एकनारकाद्याश्रयाः 'सत्त' त्ति औदारिकादिसप्तविधपुद्गल - विषयत्वात्सप्तदण्डकाश्चतुर्विंशतिदण्डका भवन्ति, एकत्वपृथकत्वदण्डकानां चायं विशेष:- एकत्वदण्डकेषु पुरस्कृतपुद्गलपरावर्त्ताः कस्यापि न सन्त्यपि, बहुत्वदण्डकेषु तु ते सन्ति, जीवसामान्याश्रयणादिति । 'एगमेगस्से' त्यादि, 'नत्थि एक्कोवि' त्ति नारकत्वे वर्त्तमानस्यौ - दारिकपुद्गलग्रहणाभावादिति ।
‘एगमेगस्स णं भंते! नेरइयस्स असुरकुमारते' इत्यादि, इह च नैरयिकस्य वर्त्तमानकालीनस्य असुरकुमारत्वे चातीतानागतकालसम्बन्धिनि 'एगुत्तरिया जाव अनंता व 'त्ति अनेनेदं सूचितं'कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि तस्स जहन्त्रेणं एक्को वा दोन्नि वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा अनंता वा' इति 'वेउव्वियसरीरं तत्थ एकोत्तरिओ' त्ति यत्र वायुकाये मनुष्यपञ्चेन्द्रियतिर्यक्षुव्यन्तरादिषु च वैक्रि यशरीरंतत्रैको वेत्यादि वाच्यमित्यर्थः, 'जत्थ नत्थी' त्यादि यत्राप्कायादौ नास्ति वैक्रि यं तत्र यथा पृथिवीकायिकत्वे तथा वाच्यं, न सन्ति वैक्रयपुद्गलपरावर्त्ता इति वाच्यमित्यर्थः, 'तेयापोग्गले' त्यादि तैजसकार्म्मणपुद्गलपरावर्त्ता भविष्यन्त एकादयः सर्वेषु नारकादिजीवपदेषु पूर्ववद्वाच्यास्तैजसकार्म्मणयोः सर्वेषु भावादिति ।
‘मनपोग्गले’त्यादि, मनःपुद्गलपरावर्त्ताः पञ्चेन्द्रियेष्वेव सन्ति, भविष्यन्तश्च ते एकोत्तरिकाः पूर्ववद्वाच्याः, 'विंगलिंदिएसु नत्थि' त्ति विकलेन्द्रियग्रहणेन चैकेन्द्रिया अपि ग्राह्याः तेषामपीन्द्रि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org