________________
भगवतीअङ्गसूत्रं 91-1३/३५
वृ. 'जीवा ण'मित्यादि व्यक्तं, नवरं 'करिसुत्ति अतीतकाले कृतवन्तः, उत्तरंतु हन्त! अकार्युः, तदकरणेऽनादिसंसाराभावप्रसङ्गात् । एवं करेंति' सम्प्रति कुर्वन्ति, एवं करिस्संति' अनेन च भविष्यत्कालता करणस्य दर्शितेति !! कृतस्य च कर्मणश्चयादयो भवन्तीति तान् दर्शयन्नाह___ “एवंचिए'इत्यादि व्यक्तनवरंचयः-प्रदेशानुभागादेर्वर्द्धनम् उपचयस्तदेवपौनःपुन्येन, अन्ये त्वाः-चयनं-कर्म-पुद्गलोपादानमात्रम् उपचयनं तु चितस्याबाधाकालं मुक्त्वा वेदनार्थ निषेकः, स चैवम्-प्रथमस्तितो बहुतरं कर्मदलिकं निषिञ्चति ततो द्वितीयायां विशेषहीनम् एवं यावदुत्कृष्टायां विशेषहीनं निषिञ्चति, उक्तंच॥१॥ “मोत्तूण सगमबाहं पढमाइ ठिईइ बहुतरं दव्यं ।
सेसं विसेसहीणंजावुक्कोसंति सव्वासिं॥ उदीरणम्-अनुदितस्य करणविशेषादुदयप्रवेशनं, वेदनम्-अनुभवनं, निर्जरणंजीवप्रदेशेभ्यः कर्मप्रदेशानांशातनमिति । इह च सूत्रसङ्ग्रहगाथा भवति, सा च गाहामू. (३६) कडचिया उवचिया उदीरिया वेदियाय निजिन्ना।
आदितिए चउभेदा तियभेदा पच्छिमा तिन्नि । वृ. 'कडचिए'त्यादि, भावितार्था च, नवरम् ‘आइतिए'त्ति कृतचितोपचितलक्षणे 'चउभेय'त्ति सामान्यक्रियाकालत्रयक्रियाभेदात्, 'तियभेय'त्तिसामान्यक्रियाविरहात्, पच्छिम'त्ति उदीरितवेदितनिर्जीर्णा मोहपुद्गला इतिशेषः, तिन्नित्तित्रयस्त्रिविधाइत्यर्थः । नन्वाचे सूत्रत्रये कृतचितोपचितान्युक्तानि उत्तरेषु कस्मानोदीरितवेदितनिर्जीर्णानि? इति, उच्यते, कृतंचितमुपचितं चकर्म चिरमप्यवतिष्ठतइति करणादीनां त्रिकालक्रियामात्रातिरिक्तं, चिरावस्थानलक्षणकृतत्वाद्याश्रित्य कृतादीन्युक्तानि, उदीरणादीनां तुनचिरावस्थानमस्तीति त्रिकालवर्तिना क्रियामात्रेणैव तान्यभिहितानीति ।
जीवाः कालमोहनीयंकर्मवेदयन्तीत्युक्तम,अथतवेदनकारणप्रतिपादनाय प्रस्तावयन्नाह
मू. (३७)जीवाणं भंते! कंखामोहणिजं कम्मं वेदेति?, हंता वेदेति । कहन्नं भंते! जीवा कंखामोहणिजं कम्मं वेदेति ?, गोयमा! तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिच्छिया भेदसमावना कलुससमावन्ना, एवं खलु जीवा कंखामोहणिजं कम्मं वेदेति।
वृ. 'जीवा णं भंते ! इत्यादि व्यक्तं, नवरं ननु जीवाः काङ्क्षामोहनीयं वेदयन्तीति प्राग निर्णीतं किं पुनः प्रश्नः?, उच्यते, वेदनोपायप्रतिपादनार्थम्, उक्तं च॥१॥ "पुवमणियंपि पच्छ ज भण्णइ तत्थ कारणं अस्थि ।
पडिसेहो य अणुना हेउविसेसोवलंभोत्ति॥ 'तेहिं तेहिंति तैस्तैर्दर्शनान्तरश्रवणकुतीर्थिकसंस्गादिभिर्विद्वप्रसिद्धैः, द्विर्वचनं चेह वीप्सायां, कारणैः-शङ्कादिहेतुभिः, किमित्याह-शङ्किताः-जिनोक्तपदार्थान् प्रति सर्वतो देशतो वा संजातसंशयाः काङिक्षताः-देशतः सर्वतो वा संजातान्यान्यदर्शनग्रहाः 'वितिगिच्छिय'त्ति विचिकित्सिताः-संजातफलविषयशङ्काः भेदसमापन्नाइति-किमिदं जिनशासनमाहोश्विदिदमित्येवं जिनशासनस्वरूपं प्रति मते<धीभावं गताः, अनध्यवसायरूपं वा मतिभङ्गं गताः, अथवा यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org