________________
शतकं १, वर्गः, उद्देशकः-३
शतकं-१ उद्देशकः-३ वृ. द्वितीयोद्देशकान्तिमसूत्रेष्वायुर्विशेषो निरूपितः, स च मोहदोषे सति भक्तीत्यतो मोहनीयविशेषं निरूपयन्नादौ च सङ्ग्रहगाथायां यदुक्तं 'कंखपओसेत्ति तदर्शयन्नाह
मू. (३४) जीवाणं भंते! कंखामोहणिजे कम्मे कडे?, हंता कडे॥से भंते! किं देसेणं देसे कडे? १ देसेणं सव्वे कडे ? २ सव्वेणं देसे कडे ? ३ सव्वेणं सब्वे कडे? ४॥
गोयमा! नो देसेणं देसे कडे १ नो देसेणं सब्वेकडे २ नो सव्वेणं देसे कडे ३ सव्वेणं सव्वे कडे ४ ॥ नेरइयाणं भंते ! कंखामोहणिजे कम्मे कडे?, हंता कडे, जाव सब्वेणं सब्वे कडे ४ ।
एवंजाव वेमाणियाणं दंडओ भाणियव्यो।
वृ. 'जीवाण'मित्यादि व्यक्तं, नवरंजीवानांसम्बन्धि यत् 'कंखामोहणिजे त्तिमोहयतीति मोहनीय कर्मतच चारित्रमोहनीयमपि भवतीति विशिष्यते काङ्क्षा-अन्यान्यदर्शनग्रहः, उपलक्षणत्वाच्चास्य शङ्कादिपरिग्रहः, ततः काङ्या मोहनीयंकासमोहनीयं, मिथ्यात्वमोहनीयमित्यर्थः, 'कडे'त्ति कृतं क्रियानिष्पाद्यमिति प्रश्नः, उत्तरंतु 'हंता कडेत्ति अकृतस्य कर्मत्वानुपपत्तेः ।
इह च वस्तुनः करणे चतुर्भङ्गीहष्टा, यथा देशेन हस्तादिनावस्तुनो देशस्याच्छदनं करोति अथवा हस्तादिदेशेनैव समस्तस्य वस्तुनः २ अथवा सर्वात्मना वस्तुदेशस्य ३ अथवा सर्वात्मना सर्वस्य वस्तुनः ४ इत्येतां काङ्क्षामोहनीयकरणं प्रति प्रश्नयनाह-'से'त्ति तस्य कर्मणः भदन्त ! 'किम्' इति प्रश्ने 'देशेन' जीवस्यांशेन 'देशः' काङ्क्षामोहनीयस्य कर्मणोऽशः कृतः ? इत्येको भङ्गः १, अथ 'देशेन' जीवांशेनैव सर्वं कासामोहनीयं कृतम् ? इति द्वितीयः २ उत “सर्वेण' सर्वात्मना देशः काङ्क्षामोहनीयस्य कृतः? इति तृतीयः ३ उताहो ! “सर्वेण सर्वात्मना सर्वं कृतम् इति चतुर्थः४।
अत्रोत्तरं-'सव्वेणंसव्वेकडेत्तिजीवास्वाभाव्यात् सर्वस्वप्रदेशावगाढतदेकसमयबन्धनीयकर्मपुद्गलबन्धने सर्वजीवप्रदेशानां व्यापारइत्यतउच्यते-सर्वात्मना सर्वं तदेककालकरणीयं कासामोहनीयं कर्म कृतं कर्मतया बद्धम्, अत एव च भङ्गत्रयप्रतिषेध इति, अत एवोक्तम्
"एगपएसोगाढं सव्वपएसेहिं कम्मुणो जोग्गं बंधइजहुत्तहेर्ड"ति, 'एगपएसोगादति जीवापेक्षया कर्मेद्रव्यापेक्षया च ये एके प्रदेशास्तेष्ववगाढं, सर्वजीवप्रदेशव्यापारत्वाच्च तदेकसमयबन्धनार्ह सर्वमिति गम्यम् अथवा सर्व यत्किञ्चित् काङक्षामोहनीयं तत्सर्वात्मना कृतं न देशेनेति।
जीवानामिति सामान्योक्ती विशेषो नावगम्यत इति विशेषावगमाय नारकादिदण्डकेन प्रश्नयन्नाह-'नेरइयाण'मित्यादि भावितार्थमेव !
क्रियानिष्याचं कर्मोक्तं, तक्रिया च त्रिकालविषयाऽतस्यां दर्शयन्नाह
मू (३५)जीवाणंभंते! कंखामोहणिज्जं कम्मकरिसु?, हंता करिसुतिंभंते! किं देसेणं देसं करिसु?, एएणं अभिलावेणं दंडओ भाणियब्वो जाव वेमाणियाणं, एवं करेति एत्थवि दंडओ जाव वेमाणियाणं, एवं करेस्संति, एत्थवि दंडओ जाव वेमाणियाणं।
एवंचिएचिणिंसुचिणंतिचिणिस्संति, उवचिए उवचिणिंसुउवचिणंति उवचिणिस्संति, उदीरेंसु उदीरेति उदीरिस्संति, वेदिसु वेदंति वेदिस्संति, निञ्जरेंसुनिज्जरेति निजरिस्संति, गाहा!
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org