SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ॥१ ॥ शतकं-१, वर्गः-, उद्देशकः-२ ५७ पतितपत्राद्युपभोगवतां बालतपस्विनां, तथा 'कन्दप्पियाणं'ति कन्दर्प-परिहासः स येषामस्ति तेन वायेचरन्तिते कन्दर्पिकाः कान्दर्पिका वा-व्यवहारतश्चरणवन्तएव कन्दर्पकौकुच्यादिकारकाः, तथाहि॥१॥ "कहकहकहस्स हसनं कंदप्पो अनिहुया य उल्लावा । कंदप्पकहाकहणं कंदपुवएस संसाय॥ ॥२॥ भुमनयणवयणदसणच्छदेहिं करपायकनमाईहिं। तंतं करेइ जह जह हसइ परो अत्तणा अहसं ।। ॥३॥ वाया कुक्कुइओ पुणतंजंपइजेण हस्सए अन्नो। नानाविहजीवरुए कुव्वइ मुहतूरए चेव ।। इत्यादि, “जो संजओवि एयासुअप्पसत्थासु भावणं कुणइ । सो तबिहेसुगच्छइ सुरेसु भइओ चरणहीणो ।। अतस्तेषां कन्दर्पिकाणां, 'चरगपरिव्वायगाणं'ति चरकपरिव्राजकाघाटिभैक्ष्योपजीविनस्त्रिदण्डिनः, अथवा घरकाः-कच्छेटकादयः परिव्राजकास्तु-कपिलमुनिसूनवोऽतस्तेषां, 'किब्विसियाणं ति किल्विषं-पापंतदस्ति येषां ते किल्बिषिकाः, तेचव्यवहारतश्चरणवन्तोऽपि ज्ञानावर्णवादिनः, यथोक्तम्॥१॥ “नाणस्स केवलीणं धम्मायरियस्स सव्वसाहूणं ! माई अवन्नवाई किव्विसियं भावणं कुणइ ॥" अतस्तेषां, तथा 'तेरिच्छियाणं'ति 'तिरश्चां' गवाश्चादीनां देशविरतिभाजाम् 'आजीवियाणं ति पाषण्डिविशेषाणां नाग्न्यधारिणां, गोशालकशिष्याणामित्यन्ये, आजीवन्ति वा येऽविवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाऽस्तित्वेनाजीविका अतस्तेषां, तथा आभिओगियाण'तिअभियोजन-विद्यामन्त्रादिभिपरेषां वशीकरणाद्यभियोगः, सच द्विधा, यदाह॥१॥ "दुविहो खलु अभिओगो दव्वे भावे य होइ नायव्वो। दव्वंमि होंति जोगा विज्जा मंता य भावंमि ।। इति सोऽस्तियेषांतेन वा चरन्तियेतेऽभियोगिका आभियोगिका वा, तेच व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, यदाह॥१॥ "कोउयभूईकम्मे पसिणापसिणे निमित्तमाजीवी। इड्डिरससायगुरुओ अहिओगंभावणं कुणइ ।।" इति 'सलिंगीण ति रजोहरणादिसाधुलिङ्गवतां किंविधानामित्याह-'दसणवावनगाणं'तिदर्शनंसम्यक्त्वं व्यापन्नं-भ्रष्टं येषां ते तथा तेषां, निह्नवानामित्यर्थः। 'एएसि णं देवलोएसु उववजमाणाणं'ति, अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्त इति प्रतिपादितं, 'विराहियसंजमाणं जहन्नेणं भवणईसु उक्कोसेणं सोहम्मे कप्पे'त्ति, इह कश्चिदाहविराहितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते?, द्रौपद्याः सुकुमालिकाभवे विराधितसंयमायाईशानेउत्पादश्रवरणात् इति,अत्रोच्यते, तस्याः संयमविराधनाउत्तरगुणविषया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy