SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ भगवतीअङ्गसूत्रं (२) ११/-19०/५१३ भ्यधिकं ततः सर्वजीवेभ्य उत्कृष्टपदे जीवप्रदेशा विशेषाधिका भवन्तीति, इयपत्र भावनाबादरविग्रहगतिकादीनमनन्तानां जीवानां सूक्ष्मजीवासद्धेययभागवर्तिनांकल्पनया कोटीप्रायसङ्ख्यानां पूर्वोक्तजीवराशिप्रमाणे प्रक्षेपणेन समताप्राप्तावपि तस्य बादरादिजीवराशेः कोटीप्रायसङ्घयस्य मध्यादुत्कर्षतोऽसख्येयभागस्य कल्पनयाशतसङ्ख्यस्य विवक्षितसूक्ष्मोगोलकावगाहनायामवगाहनात् एकैकस्मिंश्च प्रदेशे प्रत्येकं जीवप्रदेशलक्षस्यावगाढत्वात् लक्षस्य च शतगुणत्वेन कोटीप्रमाणत्वात्तस्याश्चोत्कृष्टपदेप्रक्षेपात्पूर्वोक्तमुत्कृष्टपदजीवप्रदेशमानंकोट्याऽधिकं भवतीति । यस्मादेवं तम्हा सव्वेहितो जीवेस्तिो फुडं गहेयव्वं । उक्कोसपयपएसा होति विसेसाहिया नियमा।। __-इदमेव प्रकारान्तरेण भाव्यते-- ॥२७॥ अहवा जेण बहुसमा सुहुमा लोएऽवगाहणाएय। तेणेएकेकं जीवं बुद्धीए विरल्ल एलोए॥ यतो बहुसमाः-प्रायेण समाना जीवसङ्ख्यया कल्पनया एकैकावगाहनायां जीवकोटीसहनस्यावस्थानात, खण्डगोलकैय॑भिचारपरिहारार्थंचेह बहुग्रहणं, सूक्ष्माः' सूक्ष्मनिगोदगोलकाः कल्पनया लक्षकल्पाः ‘लोके' चतुर्दशरज्ज्वात्मके, तथाऽवगाहनया च समाः, कल्पनया दशसु दशसु प्रदेशसहस्रेष्ववगाढत्वात्, तस्मादेकप्रदेशावगाढजीवप्रदेशानां सर्वजीवानां च समतापरिज्ञानार्थःमेकैकं जीवं बुद्धया विरल्लएत्ति केवलियसमुद्घातगत्या विस्तारयेल्लोके, अयमत्र भावार्थः-यावन्तोकोलकस्यैकत्रप्रदेशेजीवप्रदेशा भवन्ति कल्पनया कोटीरदशकप्रमाणास्तावन्त एवं विस्तारेतेषु जीवेषु लोकस्यैकत्र प्रदेशे ते भवन्ति, सर्वजीवा अप्येतत्समाना एवेति, अत एवाह एवंपि समा जीवा एगपएसगयजियपएसेहिं । बायरबाहुल्ला पुण होति पएसा विसेसहिया ।। । एवमपि न केवलं ‘गोल जीवो यसमा' इत्यादिना पूर्वोक्तन्यायेन समा जीवा एकप्रदेशगतैर्जीवप्रदेशैरिति, उत्तरार्द्धस्य तु भावना प्राग्वदवसेयेति । अथ पूर्वोक्तराशीनां निदर्शनान्यभिधित्सुःप्रस्तावयन्नाह॥२९॥ तेसिं पुण रासीणं निदरिसणमिणं भणामि पच्चक्खं! सुहगहणगाहणत्थं ठवणारासिप्पमाणेहिं।। ॥३०॥ गोलाण लक्खमेक्क गोले २ निगोयलक्खं तु। एकछेय निगोए जीवाणं लक्खमएक्केकं ।। ॥३१॥ कोडिसयमेगजीवपएसमाणं तमेव लोगस्स। . गोलनिगोयजियाणं दस उ सहस्सा समोगाहो। ॥३२॥ जीवस्सेएक्कक्केस्स यदससाहस्सावगाहिणो लोगे। __एकेकेमि पएसे पएसलक्खं समोगाढं ॥ ॥३३॥ जीवसयस्स जहन्ने पयंमि कोडी जियप्पएसाणं । ॥२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy