________________
शतकं ११,
वर्ग:-, उद्देशक:- १०
२९
स्थानं कल्पनया लक्षमित्यर्थः तदेकजीवस्य सम्बन्धिना पूर्वोक्तप्रकारतः कल्पनया लक्षप्रमाणेनैवोत्कृष्टपदगतप्रदेशराशिना तुल्यं भवति यस्मात्तस्माद्गोला उत्कृष्टपदैकजीव देशैस्तुल्या भवन्तीति प्रकृतमेवेति । एवं गोलकानाभुत्कृष्टपदगतैकजीवप्रदेशानां च तुल्यत्वं समर्थितं पुनस्तदेव प्रकारान्तरेण समर्थः यति
॥२२॥ अहवा लोगपएसे एक्केक्केउठविय गोलमेएक्केक्कं । एवं उक्कोसपएक्कजियपेसेसु मायंति ॥
अथवा लोकस्यैव प्रदेशे एकैकस्मिन् ' स्थापय' निधेहि विवक्षितसमत्वबुभुत्सो ! गोलकमेकैकं, ततश्च 'एवम् उक्तक्रमस्थापने उत्कृष्टपदे ये एकजीवप्रदेशास्ते तथा तेषु तत्परिमाणेष्वाकाशप्रदेशेष्वित्यर्थः मान्ति गोला इति गम्यं, यावन्त उत्कृष्टपदे एकजीवप्रदेशास्तावन्तो गोलका अपि भवन्तीत्यर्थः, ते च कल्पनया किल लक्षप्रमाणा उभयेऽपीति । अथ सर्वजीवेभ्य उत्कृष्टपदजीवप्रदेशा विशेषाधिका इति बिभणिषुस्तेषां सर्वजीवानां च तावत्समतामाहगोलो जीवो य समापएसओ जं च सब्जीवावि । होति समोगाहणया मज्झिमओगाहणं पप्य ॥
॥२३॥
गोलको जीवश्च समौ प्रदेशतः - अवगाहनाप्रदेशानाश्रित्य, कल्पनया द्वयोरपि प्रदेशदशसहस्प्रामवगाढत्वात्, ‘जंच' त्ति यस्माच्च सर्वजीवा अपि सूक्ष्मा भवन्ति समावगाहनका मद्यमावगाहनामाश्रित्य, कल्पनया हि जघन्यावगाहना पञ्चप्रदेशसहस्राणि उत्कृष्टा तु पञ्चदशेति द्वयोश्च मीलनेनाद्धीकरणेन च दशसहस्राणि मध्यमा भवतीति ।
॥ २४ ॥
ते फुडं चिय सिद्धं एगपएसंमि जे जियपएसा । ते सव्वजीवतुल्ला सुणसु पुणो जह विसेसहिया ॥
इह किलासद्भावस्थापनया कोटीशतसङ्घयप्रदेशस्य जीवस्याकाशप्रदेशदशसहस्यामवगाढस्य जीवस्य प्रतिप्रदेशं प्रदेशलक्षं भवति, तच पूर्वोक्तप्रकारतो निगोदवर्त्तिना जीवलक्षेण गुणितं कोटी सहस्रं भवति, पुनरपि च तदेकगोलवर्त्तिना निगोदलक्षेण गुणितं कोटीकोटीदशकप्रमाणं भवति, जीवप्रमाणमप्येतदेव, तथाहि - कोटीशतसंख्यप्रदेशे लोके दशसहस्रावगाहिनां गोलानां लक्षं भवति, प्रतिगोलकं च निगोदलक्षकल्पनात् निगोदानां कोटीसहस्रं भवति, प्रतिनिगोदं च जीवलक्षकल्पनात् सर्वजीवानां कोटीकोटीदशकं भवतीति । अथ सर्वजीवेभ्य उत्कृष्टपदगतजीवप्रदेशा विशेषाधिका इति दर्श्यते
॥२५॥
जं संति केइ खंडा गोला लोगंतवत्तिणो अन्ने । बायरविग्गहिएहि य उक्कसपयं जमब्भहियं ।
यस्माद्विद्यन्ते केचित्खण्डा गोला लोकान्तवर्त्तिनः 'अन्ने' त्ति पूर्णगोलकेभ्योऽपरेऽतो जीवराशिः कल्पनया कोटीकोटीदशकरूप ऊनो भवति पूर्णगोलकतायामेव तस्य यथोक्तस्य भावात्, ततश्च येन जीवराशिना खण्डगोलका पूर्णीभूताः स सर्वजीवराशेरपनीयते असद्भूतत्वातस्य स च किल कल्पनया कोटीमानः, तत्र चापनीते सर्वजीवराशि स्तोकतरो भवति, उत्कृष्टपदं तु यथोक्तप्रमाणमवेति तत्वतो विशेषाधिकं भवति, समता पुनः खण्डगोलानां पूर्णताविवक्षणाक्तेति, तथा बादरविग्रहिकैश्च- बादरनिगोदादिजीवप्रदेशैश्चोत्कृष्टपदं यद् - यस्मात्सर्वजीवराशेर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org