SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः-२ कालोऽशून्यकालापेक्षयाऽनन्तगुणो भवति, यतोऽसौ नारकेतरेष्वागमनगमनकालः, सच त्रसवनस्पत्यादिस्थितिकालमिश्रितः सन्नन्तगुणो भवति, त्रसवनस्पत्यादिगमनागमनानामनन्तत्वात्, स च नारकनिर्लेपनाकालो वनस्पतिकायस्थितेरनन्तभागे वर्तत इति, उक्तंच॥१॥ “थोवो असुनकालोसो उक्कोसेण बारसमुहुत्तो। तत्तो यअनंतगुणो मीसो निल्लेवणाकालो। ॥२॥ आगमणगमणकालो तसाइतरुमीसिओ अनंतगुणो । ___ अह निल्लेवणकालो अनंतभागे वणद्धाए।। 'सुन्नकाले अनंतगुणेत्ति सर्वेषां विवक्षितनारकजीवानां प्रायो वनस्पतिष्वनन्तानन्तकालमवस्थानात्, एतदेव वनस्पतिष्वनन्तानन्तकालावस्थानंजीवानांनारकभवान्तरकाल उत्कृष्टो देशितः समय इति, उक्तंच॥१॥ "सुनो य अनंतगुणो सो पुण पायं वणस्सइगयाणं । एवं चेव य नारयभवंतरं देसियं जेहें। 'तिरिक्खजोणियाणं सव्वत्थोवे असुन्नकाले'त्ति, स चान्तर्मुहूर्त्तमात्रः, अयं च यद्यपि सामान्येन तिरश्चामुक्तस्तथाऽपि विकलेन्द्रियसंमूर्छिमानामेवावसेयः,तेषामेवान्तमर्मुहूर्तमानस्य विरहकालस्योक्तत्वात, यदाह-"भिन्नमुहुत्तोविगलिदिएसु सम्मुच्छिमेसुविस एव" एकेन्द्रियाणां तूद्वर्त्तनोपपातविरहाभावेनाशून्यकालाभाव एव, आह च॥१॥ “एगो असंखभागो वट्टइ उव्वट्टणोववायमि। एगनिगोए निचं एवं सेसेसुवि स एव ।। . पृथिव्यादिषुपुनः अनुसमयमसंखेन तिवचनाद्विरहाभाव इति, मिस्सकाले अनंतगुणे त्ति नारकवत् शून्यकालस्तु तिरश्चां नास्त्येव, यतो वार्त्तमानिकसाधारणवनस्पतीनां तत उद्वृत्तानां स्थानमन्यन्नास्ति, मणुस्सदेवाणंजहा नेरइयाणं ति, अशून्यकालस्यापि द्वादशमुहूर्तप्रमाणत्वात्, अत्र गाथा॥१॥ "एवं नरामराणवि तिरियाणं नवरि नत्थि सुन्नद्धा। जं निग्गयाण तेसिं भायणमन्नं तओ नत्थि ।। इति 'एयस्से'त्यादि व्यक्तम्। किं संसार एवावस्थानं जीवस्य स्यादुत मोक्षेऽपि? इति शङ्कायां पृच्छमाह मू. (३१)जीवेणंभंते! अंतकिरियंकरेजा?, गोयमा! अत्थेगतिया करेजा अत्धेगतिया नो करेजा, अंतकिरियापयं नेयव्वं । वृ. 'जीवेण मित्यादि व्यक्तं, नवरम् 'अंतकिरियंति अन्त्याचसा परर्यन्तवर्तिनी क्रिया चान्त्यक्रिया, अन्तस्य वाकर्मान्तस्य क्रिया अन्तक्रिया, कृत्स्नकर्मक्षयलक्षणां मोक्षप्राप्तिमित्यर्थः 'अंतकिरियापयं नेयव्वं ति, तच्च प्रज्ञापनायां विंशतितमं, तच्चैवम्। - 'जीवेणं भंते! अंतकिरियं करेजा?, गोयमा ! अत्थेगइए करेजा अत्थेगइएनो करेजा, एवं नेरइए जाव वेमाणिए भव्यः कुर्यान्नेतर इत्यर्थः । 'नेरइया णं भंते ! नेरइएसु वट्टमाणे अंतं करेजा ?, गोयमा ! नो इणढे समढे' इत्यादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy