SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ५४ भगवतीअङ्गसूत्रं ११-/२/३० साहिए वा ?, गोयमा ! सव्वत्थोवे मणुस्ससंसारसंचिट्ठणकाले, नेरइयसंसारसंचिट्ठणकाले असंखेनगुणे, देवसंसारसंचिठ्ठणकाले असंखेज्जगुणे, तिरिक्खजोए अनंतगुणे। वृ. 'जीवस्स ण'मित्यादि व्यक्तं, नवरं किंविधस्य जीवस्य? इत्याह-'आदिष्टस्य' अमुष्य नारकादेरित्येवं विशेषितस्य 'तीतद्धाए'त्तिअनादावतीतेकाले कतिविधः' उपाधिभेदात्कतिभेदः संसारस्य-भवाद्भवान्तरे संचरणलक्षणस्य संस्थानम्-अवस्थितिक्रिया तस्य कालः-अवसरः संसारसंस्थानकालः, अमुष्य जीवस्यातीतकाले कस्यां कस्यां गताववस्थानमासीत् ? इत्यर्थः, अत्रोत्तरं-चतुर्विध उपाधिभेदादितिभावः, तत्र नारकभवानुगतसंसारास्थानकालस्त्रिधाः- शून्यकालोऽशून्यकालो मिश्रकालश्चेति, तिरश्चां शून्यकालो नास्तीति तेषां द्विविधः, मनुष्यदेवानां त्रिविधोऽप्यस्ति, आह च॥१॥ “सुन्नासुन्नो मीसो तिविहो संसारचिट्ठणाकालो। __ तिरियाण सुन्नवजो सेसाणं होइ तिविहोवि।। तत्राशून्यकालस्तावदुच्यते, अशून्यकालस्वरूपपरिज्ञाने हि सतीतरौ सुज्ञानी भविष्यत इति, तत्र वर्तमानकाले सप्तसु पृथिवीषु ये नारका वर्तन्ते तेषां मध्याद्यावन्न कश्चिदुद्वर्त्तते न चान्य उत्पद्यते तावन्मात्रा एव ते आसते स कालस्तान्नारकानङ्गीकृत्याशून्य इति भण्यते, आहच॥१॥ “आइट्ठसमइयाणं नेरइयाणं नजाव एकोवि। उव्वट्टइ अन्नो वा उववज्जइ सो असुन्नो उ ।। मिश्रकालस्तुतेषामेव नारकाणांमध्यादेकादय उद्धृताःयावदेकोऽपिशेषस्तावन्मिश्रकालः, शून्यकालस्तुयदात एवादिष्टसामयिकानारकाः सामस्त्येनोद्वृत्ता भवन्तिनैकोऽपितेषां शेषोऽस्ति स शून्यकाल इति, आह च॥१॥ "उव्वट्टेएक्कमिवि वा मीसो धरइ जाव एकोवि । निल्लेविएहिं सव्वेहि वट्टमाणेहिं सुन्नो उ॥ इदंच मिश्रनारकसंसारावस्थानकालचिन्तासूत्रन तमेव वार्त्तमानिकनारकभवमङ्गीकृत्य प्रवृत्तम्, अपितु वार्त्तमानिकनारकजीवानां गत्यन्तरगमने तत्रैवोत्पत्तिमाश्रित्य, यदि पुनस्तमेव नारकभवमङ्गीकृत्येदं सूत्रं स्यात्तदाऽशून्यकालापेक्षया मिश्रकालस्यानन्तगुणता सूत्रोक्तानस्यात्, आह च-- ॥१॥ “एयं पुण ते जीवे पडुच्च सुत्तं न तब्भवं चेय। जइ होज तडावं तो अनन्तकालोनं संभवइ॥ कस्मात् ? इति चेद् उच्यते, ये वार्त्तमानिका नारकास्ते स्वायुष्ककालस्यान्ते उद्वर्तन्ते असङ्ख्यातमेव च तदायुः, अत उत्कर्षतो द्वादशमौहूर्तिकाशून्यकालापेक्षया मिश्रकालस्यानन्तगुणवाभावग्रसङ्गादिति, आह च॥१॥ "किं कारणमाइट्ठा नेरइया जे इमम्मि समयम्मि। ते ठिइकालस्संते जम्हा सव्वे खविजंति ॥" इति 'सव्वत्थोवेअसुन्नकाले'त्ति नारकाणामुत्पादोद्वर्तनाविरहकालस्योत्कर्षतोऽपि द्वादशमुहूर्तप्रमाणत्वात्, ‘मीसकाले अनंतगुणे'त्ति मिश्राख्यो विवक्षितनारकजीवनिर्लेपना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy