________________
५३२
भगवतीअङ्गसूत्रं १०/-/२/४७८
जीवेन परिगृहीतेऽपरिगृहीते उभयरूपे चोत्पत्तिरिति त्रिविधाऽपि योनिरिति ।
तथा-कतिविहाणंभंते! जोणी पन्नता?, गोयमा ! तिविहा जोणी पन्नत्ता, तंजहा संवुडजोणी वियडाजोणी संवुडवियडाजोणी'त्यादि, संवृत्तादियोनिप्रकरणार्थःसङ्ग्रहस्तु प्राय एवम्॥१॥ “एगिंदियनेरइया संवुडजोणी तहेव देवाय।
विगलिदिएसु वियडा संवुडवियडा य गभंमि।।" एकेन्द्रियाणां संवृतायोनिस्तथास्वभावत्वात्, नारकाणामपि संवृतैव, यतो नरकनिष्कुटाः संवृतगवाक्षकल्पास्तेषु च जातास्ते वर्द्धमानमूर्तयस्तेभ्यः पतन्ति शीतेभ्यो निष्कुटेभ्य उष्णेषु नरकेषु उष्णेभ्यस्तु शीतेष्विति, देवानामपि संवृतैव यतो देवशयनीये दूष्यान्तरितोऽ. गुलासङ्ख्यातमागमात्रावगाहनो देव उत्पद्यत इति । तथा
'कतिविहाणं भंते! जोणी पन्नत्ता? गोयमा! तिविहा जोणी पन्नत्ता, तंजहा-कुम्मुन्नया संखावत्ता वंसीपत्ते'त्यादि, एतद्वक्तव्य- तासङ्ग्रहश्चैवं॥१॥ संखावत्ता जोणी इत्थीरयणस्स होति विनेया।
तीए पुण उप्पन्नो नियमा उ विणस्सइ गब्भो ।। ॥२॥ कुम्मुन्नयजोणीए तित्थयरा चक्किवासुदेवा य ।
रामावियजायते सेसाए सेसगजणो उ ।। अनन्तरं योनिरुक्ता, योनिमतां च वेदना भवन्तीति तनरुपणायाह
मू. (४७९) कतिविहा णं भंते ! वेयणा पन्नत्ता?, गोयमा ! तिविहा वेयणा पन्नत्ता, तंजहा-सीया उसिणा सीओसिणा, एवं वेयणापयं निरवसेसं भाणियव्वंजाव नेरइयाणं भंते।
किं दुक्खं वेदणं वर्देति सुहं वेयणं वेयंतिअदुक्खमसुहं वेयणं वेयंति?, गोयमा! दुक्खंपि वेयणं वेयंति सुहंपि वेयणं वेयंति अदुक्खमसुहंपि वेयणं वेयंति ॥
वृ. 'कइविहा ण मित्यादि, ‘एवं वेयणापयं भाणियव्य'ति वेदनापदं च प्रज्ञापनायां पञ्चत्रिंशत्तमं, तच्च लेशतो दर्शाते-'नेरइयाणं भंते ! किं सीयं वेयणं वेयंति ३?, गोयमा ! सीयंपिवेयणं वेयंति एवंउसिणंपिनोसीओसिणं' एवमसुरादयो वैमानिकान्ताः ‘एवं चउब्विहा वेयणा दब्वओ खेत्तओ कालओ भावओ' तत्र पुद्गलद्रव्यसम्बन्धाद्रव्यवेदना नरकादिक्षेत्रसम्बन्धाक्षेत्रवेदना नारकादिकालसम्बन्धात्कालवेदना शोकक्रोधादिभावसम्बन्धाद्भाववेदना, सर्वे संसारिणश्चतुर्विधामपि ।
तथा 'तिविहावेयणा सारीरामाणसासारीरमाणसा' समनस्कास्त्रिविधामपिअसज्ञिनस्तु शारीरीमेव, तथा 'तिविहा वेयणा साया असाया सायासाया' सर्वे संसारिण- स्त्रिविधामपि, तथा 'तिविहावेयणा-दुक्खासुहाअदुक्खमसुहा' सर्वे त्रिविधामपि, सातासातसुखदुःखयोश्चायं विशेषः-सातासाते अनुक्रमेणोदयप्राप्तानां वेदनीयकर्मपुद्गलानाम- नुभवरूपे, सुखदुःखे तु परीदीर्यमाणवेदनीयानुभवरूपे। ____ तथा दुविहावेयणा अब्भुवगमिया उवक्कमिया' आभ्युपगमिकी यास्वयम्भुपगम्यवेद्यते यथा साधवः केशोल्लुचनातापनादिभिर्वेदयन्ति औपक्रमिकी तु स्वयमुदीर्णस्योदीरणाकरणेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org