________________
शतकं-१०, वर्गः-, उद्देशक:-१
५२९ एवं जीवप्रदेशा अपि, 'जे अरूवी अजीवा ते सत्तविह'त्ति, कथं ?, नोधम्मस्थिकाए, अयमर्थः-धर्मास्तिकायः समस्त एवोच्यते, सच प्राचीदिग्न भवति, तदेकदेशभूतत्वात्तस्याः, किन्तुधर्मास्तिकायस्य देशः,सातदेकदेशभागलपेति १,तथा तस्यैव प्रदेशाःसा भवति,असङ्घयेयप्रदेशात्मकत्वात्तस्याः २, एवमधर्मास्तिकायस्य देश-प्रदेशाश्च३-४, एवामाकाशास्तिकायस्यापि देशः प्रदेशाश्च ५-६, अद्धासमयश्चेति७, तदेवं सप्तप्रकारारूप्यजीवरूपा ऐन्द्री दिगिति।
'अग्गेयीण मित्यादप्रश्नः, उत्तरे तुजीवा निषेधनीयः, विदिशामेकप्रदेशेच जीवानामवगाहाभावात, असङ्ख्यातप्रदेशावगाहित्वात्तेषां, तत्र 'जे जीवदेसा ते नियगा लागेदियदेस'त्ति एकेन्द्रियाणां सकललोकव्यापकत्वादाग्नेय्यां नियमादेकेन्द्रियदेशाः सन्तीति, 'अहवे त्यादि, एकेन्द्रियाणां सकललोकव्यापकत्वादेव द्वीन्द्रियाणांचाल्पत्वेन कचिदेकस्यापितर सम्भवादुच्यते एकेन्द्रियाणां देशाश्च द्वीन्द्रियस्य देशश्चेति द्विकयोगे प्रथमः, अथवैकेन्द्रियपदं तथैव द्वीन्द्रियपदे त्वेकवचनं देशपदे पुनर्वहुवचनमिति द्वितीयः, अयं च यदा द्वीन्द्रियो द्वयादिभिर्देशैस्तां स्पृशति तदा स्यादिति, अथवैकेन्द्रियपदं तथैव द्वीन्द्रियपदं देशपदं च बहुवचनान्तमिति तृतीयः, स्थापना-एगि० देसा ३ बेइं १ देसे एगि० देसा ३ वेइं १ देसा ३ एगि० देसा ३ बेइं०३ देसा ३
एवं त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियानिन्द्रियैः सह प्रत्येकंभङ्गकत्रयंदृश्यम्, एवंप्रदेशपक्षोऽपि वाच्यो, नवरमिह द्वीन्द्रियादिषु प्रदेशपदं बहुवचनान्तमेव, यतो लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकः प्रदेशस्तत्रासङ्ख्यातास्ते भवन्ति, लोकव्यापकावस्थानिन्द्रियस्य पुनर्यद्यप प्येकत्र क्षेत्रप्रदेशे एक एव प्रदेशस्तथाऽपित प्रदेशपदे वहुवचनमेवाग्नेय्यां तटादेशानामसङ्ख्यातानामवगाढत्वाद्, अतः सर्वेषु द्विकयोगेष्वाद्यविरहितं भङ्गकद्वयमेव भवतीत्येतदेवाहआइल्लविरिहओ'त्ति द्विकभङ्ग इति शेषः । ___'विमलाए जीवा जहा अग्गेईए'त्ति विमलायामपि जीवानामनवगाहात् 'अजीवा जहा इंदाए ति समानवक्तव्यत्वात्, ‘एवं तमावित्ति विमलावत्तमाऽपि वाच्येत्यर्थः, अथ विमलायामनिन्द्रियसम्भवात्तद्देशादयो युक्तास्तमायां तु तस्यासम्भवात्कथं ते? इति, उच्यते, दण्डाद्यवस्थं तमाश्रित्य तस्य देशो देशाः प्रदेशाश्च विवक्षायां तत्रापि युक्ता एवेति।
अथ तमायां विशेषमाह-'नवर'मित्यादि, 'अद्धासमयो न भनइत्ति समयव्यवहारो हि सञ्जरिष्णुसूर्यादिप्रकाशकृतः, स च तमाया नास्तीति तत्राद्धासमयो न भण्यत इत्यर्थः ।
अथ विमलायामपि नास्त्यसाविति कथं तन समयव्यवहारः ? इति, उच्यते, मन्दरावयवभूतस्फटिककाण्डे सूर्यादिप्रभासक्रान्तिद्वारेणतत्रसञ्चरिष्णुसूर्यादिप्रकाशभावादिति
अनन्तरंजीवादिरूपा दिशः प्ररूपिताः,जीवाश्च शरीरिणोऽपि भवन्तीति शरीरप्ररूप-णायाह
मू. (१७६) कतिणंभंते! सरीरा पन्नत्ता?, गोयमा! पंच सरीरा पन्नत्ता, तंजहा-ओरालिए जाव कम्मए । ओरालियसरीरे णं भंते ! कतिविहे पन्नत्ते?, एवं ओगाहणसंठाणं निरवसेसं भाणियध्वं जाव अप्पाबहुगंति । सेवं भंते ! सेवं भंतेत्ति।
घृ. 'कइ णं भंते !'इत्यादि, 'ओगाहणसंठाणं'ति प्रज्ञापनायामेकविंशतितमं पदं, 534
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org