________________
शतकं - ९, वर्ग:-, उद्देशक:- ३३
निर्योगः - परिकरो यैस्ते तथा ।
'तप्पढमयाए' त्ति तेषां विवक्षितानां मध्ये प्रथमता तत्प्रथमता तया 'अट्ठट्ठमंगलग'त्ति अष्टावष्टाविति वीप्सायां द्विर्वचनं मङ्गलकानि - माङ्गल्यवस्तूनि अन्ये त्वाहुः - अष्टसङ्क्षयानि अष्टमङ्गलकज्ञानि वस्तूनि 'जाव दप्पणं' ति इह यावत्करणादिदं दृश्यं - 'नंदियावत्तवद्धमाणगमद्दासणकलसमच्छ'ति तत्र वर्द्धमानकं - शरावं ( वसंपुटं पुरुषारूढपुरुष इत्यन्ये स्वस्तिकपञ्चकमित्यन्ये प्रासादविशेषमित्यन्ये 'जहा उववाइए 'त्ति, अनेन च यदुपात्तं तद्वचनान्तरे साक्षादेवास्ति तच्चेदं ।
'दिव्वा य छत्तपडागा' दिव्येव दिव्याप्रधाना छत्रसहिता तथा 'सचामरादरसरइयआलोयदरिसज्जा वाउयविजयवेजयंती य ऊसिय'त्ति सह चामराभ्यां या सा सचामरा आदर्शी रचितो यस्यां साऽऽदर्शरचिता आलोकं दृष्टगोचरं यावदृश्यतेऽत्युच्चत्वेन या साऽऽलोकदर्शनीया, ततः कर्म्मधारयः, 'सचामरा दंसणरइयआलोयदरिसणिज्ज' त्ति पाठान्तरे तु सचामरेति भिन्नपदं, तथा दर्शने - जमालेद्दष्टिपथे रचिता-विहिता दर्शनरचिता दर्शने वा सति रतिदा- सखप्रदा दर्शनरतिदा सा चासावालोकदर्शनीया चेति कर्म्मधारयः, काऽसौ ? इत्याह-वातोद्धूता विजयसूचिका वैजयन्ती - पार्श्वतो लघुपताकिकाद्वययुक्ता पताकाविशेषा वातोद्धूतविजयवैजयन्ती 'उच्छ्रिता' उच्चा, कथमिव ?
५१३
गगणतलमणुलिर्हतीति गगनतलं आकाशतलमनुलिख्तीवानुलिखन्ती अत्युच्चतयेति 'जहा उववाइए 'त्ति अनेन यत्सूचितं तदिदं - ' तयानंतर च णं वैरुलियभिसंतविमलदंड' 'भिसंत'त्ति दीप्यमानं 'पलंबकोरंटमल्लदामोवसोहिय चंदमंडलनिभं समूसियं विमलमायवत्तं पवरं सीहासणं चमणिरयणपायपीढं' 'सपाउयाजुगसमाउत्तं' स्वकीयपादुकायुगसमायुक्तं 'बहुकिंकरकम्मगरपुरिसपायत्तपरिक्खित्तं' बहवो ये किङ्कराः - प्रतिकर्म्म प्रभोः पृच्छाकिरणः कर्मकराश्च तदन्यथाविधास्ते च ते पुरुषाश्चेति समासः पादातं च-तितसमूहः बहुकिङ्करादिभिः परिक्षिप्तं यत्तत्तथा 'पुरओ अहानुपुवीए संपट्ठियं, तयानंतरं च णं बहवे लठ्ठिग्गाहा कुंग्गाहा चामरग्गाहा पासग्गाहा चावग्गाहा पोत्थयग्गाहा फलगग्गाहा पीढयग्गाहा वीणग्गाहा कूवयग्गाहा' कुतपः - तैलादिभाजनविशेषः 'हडप्पग्गाहा' हडप्पो - द्रम्मादिभाजनं ताम्बूलार्थं पूगफलादिभाजनं वा 'पुरओ अहानुपुब्बीए संपट्टिया' ।
तयानंतरं च णं बहवे दंडिणो मुंडिणी सिहंडिगो - शिखाधारिणः जटिणो- जटाधराः पिच्छिणो-मयूरादिपिच्छवाहिनः हासकरा ये हसन्ति डमरकरा - विडवरकारिणः दवकराःपरिहासकारिणः चाटुकराः - प्रियवादिनः कंदप्पिया कामप्रधानकेलिकारिणः कुकुइया--भाण्डाः भाण्डप्राया वा 'वायंता गायंता य नच्चंता य हासंता य भासंता य सासिंता य शिक्षयन्तः 'साविंता य' इदं चेदं भविष्यतीत्येवंभूतवचांसि श्रावयन्तः 'रुक्खंता य' अन्यायं रक्षन्तः 'आलोकं च करेमाणे' त्यादि तु लिखितमेवास्ति इति, एतच्च वाचनान्तरे प्रायः साक्षाद्दश्यत एव, तथेदमपरं तत्रैवाधिकं ।
'तयानंतरं च णं जच्चाणं वरमल्लिहाणाणं चंचुच्चियललियपुलयविक्कमविलासियगईणं
5 33
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org