________________
५१२
भगवतीअगसूत्रं ९/-३३/४६५ 'भिभिसमाणां अत्यर्थं दीप्यमानां चक्खुलोयणलेसं चक्षु कर्तृलोकने-अवलोकनेसतिलिशतीवदर्शनीयत्वातिशयात् श्लिष्यतीव यस्यां सा तथा तां 'सुहफासं सस्सिरीयरूवं सशोभरूपकां 'घंटावलिचलियमहुरमणहरसरं घण्टावल्याश्चलिते-चलने मधुरो मनोहरश्च स्वरो यस्यां सा तथा तां 'सुहं कंतं दरिसणिज्जं निउणोवियमिसिमिसंतमणिरयणघंटियाजालपरिक्खित्तं' निपुणेन-शिल्पिना ओपितं-परिकर्मितं मिसिमिसंत' चिकचिकायमानं मणिरलानांसम्बन्धि यद् घण्टिकाजालं-किङ्किणीवृन्दं तेन परिक्षिप्ता परिकरिता या सा तथा तां, वाचनान्तरे पुनरयं वर्णकः साक्षाद् ध्यत एवेति।।
केसालंकारेणं ति केशा एवालङ्कारः केशालङ्कारस्तेन, यद्यपि तस्य तदानीं केशाः कल्पिता इति केशालङ्कारो न सम्यक् तथाऽपिकियतामपि सद्भावात्तद्भाव इति, अथवा केशानामलङ्कारः पुष्पादि केशालङ्कारस्तेन, ‘वत्थालंकारेणं'ति वस्त्रलक्षणालङ्कारेण 'सिंगारागारचारुवेस'त्ति श्रृङ्गारस्य-रसविशेषस्या गारमिवयश्चारुश्चवेषो नेपथ्यं यस्याः सा तथा, अथवा श्रृङ्गारप्रधान आकारश्चारुश्च वेषो यस्याः सा तथा 'संगते त्यादी यावत्करणादेवं दृश्यं-'संगयगयहणियभणियचिट्ठियविलाससंलाससंलावुल्लावनिउणजुत्तोवयारकुसल तितत्रचसङ्गतेषुगतादिषु निपुणा युक्तेषूपचारेषु कुशला च या सा तथा, इह च विलासो नेत्रविकारो, यदाह
"हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः। विलासो नेत्रजो ज्ञेयो, विनमो भ्रूसमुद्भवः ।।१॥" इति
-तथा संलापो-मिथोभाषा उल्लापस्तु काकुवर्णनं, यदाह॥१॥ "अनुलापो मुहुर्भाषा, प्रलापोऽनर्थःकं वचः ।
काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः॥१॥" इति 'सुन्दरथण' इत्यनेन 'सुंदरथणजहणवयणकरचरणणयणलावन्नरूवजोव्वणगुणोववेय'त्ति सूचितं, तत्रच सुन्दराये स्तनादयोऽस्तैिरुपेता या सा तथा, लावण्यं चेह स्पृहणीयता रूपं-आकृतिौवनं-तारुण्यं गुणा-मृतुस्वरत्वादयः 'हिमरययकुमुयकुंदेंदुप्पगासंति हिमंच रजतंच कुमुदंचकुन्दश्चेन्दुश्चेतिद्वन्द्वस्तेषामिवप्रकाशोयस्यतत्तथा ‘सकोरेंटमल्लदामंतिसकोरेण्टकानि-कोरण्टपुष्पगुच्छयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा 'नणामणिकणगरयणविमलमहरिहतवणिजउज्जलविचित्तदंडाओ'ति नानामणिकनकरलानां विमलस्य महार्हस्य महाघस्य वातपनीयस्य च सत्कावुज्ज्वली विचित्रौदण्डको ययोस्ते तथा, अथात्र कनकतपनीययोः को विशेषः?
उच्यते, कनकंपीतं तपनीयंरक्तमिति, चिल्लियाओ'त्ति दीप्यमानेलीनेइत्येके 'संखंककुंददगरयअमयमहियफेणपुंजसंनिगासाओ'त्ति शङ्खाङ्ककुन्ददकरजसाममृतस्य मथितस्य सतो यः फेनपुञ्जस्तस्य च संनिकाशे-सशे ये ते तथा, इह चाङ्को रलविशेष इति, 'चामराओ'त्ति यद्यपि चामरशब्दो नपुंसकलिङ्गो रूढस्तथाऽपीह स्त्रीलिङ्गतया निर्दिष्टस्तथैव कचिद्रूढत्वादिति
___ 'मत्तगयमहामुहाकिइसमाणं'तिमत्तगजस्ययन्महामुखं तस्ययाऽऽकृति-आकारस्तया समानंयत्तत्तथा 'एगाभरगवसणगहियणिज्जोय'त्तिएकः-एकाशआभरणवसनलक्षणो गृहीतो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org