________________
शतर्क- ९, वर्ग:-, उद्देशकः - ३३
५११
एगावलिं पिणद्धंति एवं मुत्तावलिं कणगावलिं रयणावलिं अंगाई केऊराई कडगाई तुडियाई कडिसुत्तयं दसमुद्दयाणंतयं वच्छसुत्तं मुरविं कंटमुरविं पालंबं कुंडलाई चूडामणि' ति तत्रैकावली-विचित्रमणिकमयी मुक्तावली - केवलमुक्ताफलमयीकनकावली - सौवर्णमणिकमयी रलावली - रत्नमयी अङ्गदं केयूरं च बाह्वाभरणविशेषः, एतयोश्च यद्यपि नामकोशे एकार्थः तोक्ता तथाऽपीहाऽऽकारविशेषाद् भेदोऽवगन्तव्यः, कटकं - कलाचिकाभरणविशेषः त्रुटिकं - बाहुरक्षिका दशमुद्रिकानन्तकं- हस्ताङ्गुलीमुद्रिकादशकं वक्षः सूत्रं - हृदयाभरणभूतसुवर्णसङ्कलकं 'वेच्छासुतं 'ति पाठान्तरं तत्र वैकक्षिकासूत्रम् - उत्तरासङ्गपरिधानीयं सङ्कलकं मुरवीमुरजाकारमाभरणं कण्ठमुखी तदेव कण्ठासन्नतरावस्थानं प्रालम्बं झुम्बनकं, वाचनान्तरे त्वयमलङ्कारवर्णकः साक्षाल्लिखित एव ध्यत इति, 'रयणसंकडुक्कडं ति रत्नसङ्कटं च तदुत्कटं च-उत्कृष्टं रत्नसङ्कटोत्कटं ‘गंधिमवेढिमपूरिमसंघाइमेणं' ति इह ग्रन्थिमं-ग्रन्थननिर्वृत्तं सूत्रग्रथितमालादि वेष्टिमं - वेष्टितनिष्पन्नं पुष्पलम्बूसकादि पूरिमं येन वंशशलाकामयपञ्जरकादि कूर्यादि वा पूर्यते सङ्घातिमं तु यत्परस्परतो नालसङ्घातनेन सङ्घात्यते 'अलंकियविभूसियं' ति अलङ्कृतश्चासौ कृतालङ्कारोऽत एव विभूषितश्च - सञ्जातविभूषश्चेत्यलङ्कृतविभूषितस्तं ।
वाचनान्तरे पुनरिदमधिकं 'दद्दरमलयसुगंधिगंधिएहिं गायाई भुंकुंडेंति ' त्ति दृश्यते, तत्र च दर्द्दरमलयाभिधापर्वतयोः सम्बन्धिस्तदुदूतचन्दनादिद्रव्ययजत्वेन ये सुगन्धयो गन्धिकागन्धावासास्ते तथा, अन्ये त्वाहुः - दर्द्दरः -- चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्वा वा ये ‘मलय'त्ति मलयोद्भवत्वेन मलयजस्य - श्रीखण्डस्य सम्बन्धिनः सुगन्धयोगन्धिकागन्धास्ते तथा तैर्गात्राणि 'भुकुंडेंति 'त्ति उद्धूलयन्ति ।
“अनेगखंभसयसन्निविट्टं ति अनेकेषु स्तम्भशतेषु सन्निविष्टद्य या सा तथा अनेकानि वा स्तम्भशतानि संनिविष्टानि यस्यां सा तथा तां 'लीलट्ठियसालिभंजियागं ति लीलास्थिताः शालिभचिकाः - पुत्रिकाविशेषा यत्र सातथातां, वाचनान्तरे पुनरिदमेवंध्श्यते- 'अब्मुग्गयसुक - यवइरवेइयतोरणवररइयलीलठ्ठियसालिभंजियागं 'ति तत्र चाभ्युद्गते - उच्छ्रिते सुकृतव- वेदिकायाः सम्बन्धिनि तोरणवरे रचिता लीलास्थिता शालभञ्जिका यस्यां सा तथा तां 'जहा रायप्पसेणइज्जे विमाणवन्नओ'त्ति एवमस्या अपि वाच्य इत्यर्थः स चायम्- 'ईहामियउसभतुरगनरमगरविहगवालकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं' ईहामृगादिभिभक्तिभि - विच्छित्तमिश्चित्रा - चित्रवती या सा तथा तां, तत्र ईहामृगा-वृकाः ऋषभाः वृषभाः व्यालकाः - श्वापदा भुजङ्गा वा किन्नरा-देवविशेषाः रुरवो - मृगविशेषाः सरभाः - परासराः वनलता-चम्पकलसादिकाः पद्मलता - मृणालिकाः शेषपदानि प्रतीतान्येव 'संभुग्गयवइरवेइ - यापरिगयाभिरामं' स्तम्भेषु उद्गता- निविष्टा या वज्रवेदिका तया परिगता-परिकरिता अत एवाभिरामा च - रम्या या सा तथा तां 'विज्जाहरजमलजुयलजंतजुत्तंपिव' विद्याधरयोर्यद् यमलं- सम श्रेणीकं युगलं- द्वयं तेनेव यन्त्रेण-सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्ता या सा था ताम्, आर्षत्वाच्चैवंविधः समासः ।
'अच्चीसहस्समालिणीयं' अर्चिसहमालाः- दीप्तिसहस्राणामावल्यः सन्ति यस्यां सा तथा, स्वार्थिः ककप्रत्यये च अर्द्धिः सहस्रमालिनीका तां, 'रूवगसहस्सकलियं' 'भिसमाणं' दीप्यमानां
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International