________________
शतकं-९, वर्ग:-, उद्देशकः-३३
लातिकाचेति कलाकुशलसर्वकाललालिताः ताश्चताः सुखोचिताश्चेतिविग्रह-, मार्दवगुणयुक्तो निपुणो यो विनयोपचारस्तत्र पण्डितविचक्षणा–अत्यन्तविशारदा यास्तास्तथा ततः कर्मधारयः, 'मंजुलमियमहुरभणियविहसियविप्पेक्खियगइविलासविट्ठियविसारयाओ' मञ्जुलं-कोमलंशब्दतः मितं-परिमितं मधुरं-अकठोरमर्थःतो यद्भणितं तत्तथा तच्च विहसितं च विप्रेक्षितं च गतिश्च विलासश्च नेत्रविकारो गतिविलासो वा-विलसन्ती गति विस्थितं च-विशिष्टा स्थितिरितिद्वन्द्वः एतेषुविशारदा यास्तास्तथा, 'अविकलकुलसीलसालिणीओ' अविकलकुलाः--ऋद्धिप-रिपूर्णकुलाः शीलशालिन्यश्च-शीलशोभिन्य इति विग्रहः । _ विसुद्धकुलवंससंताणतंतुवद्धणपगब्भवयभाविणीओ' विशुद्धकुलवंश एव सन्तानतन्तुः-विस्तरितन्तुस्तद्वर्द्धनेन-पुत्रोत्पादनद्वारेण तवृद्धौ प्रगल्भं-समर्थं यद्वयो-यौवनं तस्य भावः-सत्ता विद्यते यासांतास्तथा विसुद्धकुलवंससंताणतंतुवद्धणपगभुभवपभाविणीओ'त्ति पाठान्तरं तत्र च विशुद्धकुलवंशसन्तानतन्तुवर्द्धना ये प्रगल्भाः-प्रकृष्टगस्तेिषां य उद्भवःसम्भूतिस्तत्रयःप्रभावः-सामर्थ्यं स यासामस्तितास्तथा मणाणुकूलहियइच्छियाओ' मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्मधारयः ‘अट्ठ तुझ गुणवल्लभाओ'त्ति गुणैर्वल्लभा यास्तास्तथा 'विसयविगयवोच्छिन्नकोउहल्लेत्ति, विषयेषु-शब्दादिषु विगत-व्यवच्छिन्नम्-अत्यन्तक्षीणं कौतुहलं यस्य स तथा ॥
माणुस्सगा कामभोगत्ति, इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि, 'उच्चारे त्यादि, उच्चारादिभ्यः समुद्भवो येषांतेतथा अमणुन्नदुरूवमुत्त-पूयपुरीसपुन्ना' अमनोज्ञाश्च ते दुरूपमूत्रेण पुतिकपुरीषेण च पूर्णाश्चेति विग्रहः-, इह च दूरूपं-विरूपं पूतिकंच-कुथितं, 'मयगंधुस्सासअसुभनिस्सासउव्वेयणगा' मृतस्येव गन्धो यस्य स मृतगन्धि स चासावुच्छस मृतगन्ध्युच्छसस्तेनाशुभनिश्वासेन चोद्वेगजनकाउद्वेगकाणो जनस्य येते तथा उच्छ्वासश्च-मुखादिना वायुग्रहणं निश्वासस्तु-तन्निर्गमः ‘बीभच्छ'त्ति जुगुप्सोत्पादकाः 'लहुस्सग'त्ति लघुस्वकाः-लघुस्वभावाः 'कलमलाहिवासदुक्खवहुजणसाहारणा' कलमलस्य-- शरीरसत्काशुभद्रव्यविशेषस्याधिवासेन–अवस्थानेन दुःखा-दुखरूपायये तेतथा तथा बहुजनानां साधारणा भोग्यत्वेन ये ते तथा, ततः कर्मधारयः । _ 'परिकिलेसकिच्छदुक्खसज्झा' परिक्लेशेन-महामानसायासेन कृच्छ्रदुःखेन चगाढशरीरायासेन ये साध्यन्ते-वशीक्रियन्ते येते तथा 'कडुगफलविवागा' विपाकः पाकोऽपि स्यादतो शेष्यते-फलरूपो विपाकः फलविपाकः कटुकः फलविपाको येषां ते तथा 'चुडलिव्य'त्ति प्रदीप्ततृणपूलिकेव 'अमुच्चमाणे'त्ति इह प्रथमावहुवचनलोपो दृश्यः ।
'इमे यते जाया ! अज्जयपज्जयपिउपञ्जयागए' इदंच तव पुत्र! आर्य-पितामहःप्रार्यकःपितुः पितामहः पितृप्रार्यकः-पितुः प्रपितामहस्तेभ्यः सकाशादागतं यत्तत्तथा, अथवाऽऽर्यकप्रार्यकपितॄणांयः पर्ययः--पर्यायः परिपाटिरित्यर्थः तेनागतंयत्तत्तथा विपुलधणकणग' इहयावत्करणादिदं दृश्यं-'रयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइए'त्ति तत्र ‘विपुलधणेति प्रचुरं गवादि कणग'त्ति दान्यं ‘रयण'त्तिकर्केतनादीनि मणि त्ति चन्द्रकान्ताद्याः मौक्तिकानि सङ्खाश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org