________________
५०२
भगवतीअङ्गसूत्रं ९/-३३/४६४ सावाह-एवं खलु'इत्यादि, एवं वक्ष्यमाणेनन्यायेन अनेगजाइजरामरणरोगसारिरमाणसएकामदुक्खवेयणवसणसओवद्दवाभिभूए'त्ति अनेकानि यानि जातिजरामरणरोगरूपाणि शारीराणि मानसिकानि च प्रकाम-अत्यर्थं दुःखानि तानि तथा तेषां यद्वेदनं, व्यसनानां च-चौर्यधूतादीनां यानि शतानि उपद्रवाश्च-राजचौर्यादिकृतास्तैरभिभूतो य स तथा, अत एव अधुवे'त्तिन ध्रुवः-सूर्योदयवन्न प्रतिनियतकालेऽवश्यम्भावी 'अणितिए'त्तिइतिशब्दोनियतरूपोपदर्शनपरः ततश्चन विद्यत इति यत्रासावनितिकः-अविद्यमाननियतस्वरूप इत्यर्थः,ईश्वरादेरपिदारियादिभावात्, ‘असासए'त्तिक्षणनश्वरत्वात्, अशाश्वतत्वमेवोपमानैर्दर्शयन्नाह-संज्ञे' त्यादि, किमुक्तं भवति? इत्याह-- ____'अनिच्चेत्ति अथवा प्राग जीवितापेक्षयाऽनित्यत्वमुक्तमथ शरीरस्वरूपापेक्षया तदाह 'अनिच्चे 'सडणपडणविद्धंसणधम्मेत्तिशटनं-कुष्ठादिनाऽङ्गुल्यादेः पतनंबाह्यादेः खड्गच्छेदादिना विध्वंसनं-क्षयः एत एव धर्मा यस्य स तथा 'पुचि वित्ति विवक्षितकालात्पूर्व वा ‘पच्छा वित्ति विवक्षितकालात्पश्चाद्वा अवस्सविप्पजहियव्वे'त्ति अवश्यं विप्रजहातव्यः'त्याज्यः 'जे केसणं जाणइत्ति अथ कोऽसौ जानात्यस्माकं, न कोऽपीत्यर्थ, 'केपुट्विं गमणयाए'त्तिकः पूर्वं पित्रोः पुत्रस्य वाऽन्यतोगमनाय परलोक उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते, कः पूर्व को वा पश्चान्नियत इत्यर्थः। ___'पविसिहरूवं'त्ति प्रविशिष्टरूपं 'लक्खणवंजणगुणोववेयं' लक्षणम् ‘अस्थिष्वर्थः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु ।गतौ यानंस्वरे चाज्ञा, सर्वसत्त्वे प्रतिष्ठितम्॥१॥" इत्यादि, व्यञ्जनं-मषतिलकादिकं तयोर्यों गुणः-प्रशस्तत्वं तेनोपपेतं-सङ्गतं यत्तत्तथा 'उत्तमबलवीरियसत्तजुत्तं उत्तमैर्बलवीर्यसत्वैर्युक्तंयत्तत्तथा, तत्र बलं-शारीरःप्राणो वीर्य-माजसोऽवष्टम्भः सत्त्वं-चित्तविशेष एव, यदाह-“सत्त्वमवैक्लव्यकरमध्यवसानकरं च अथवा उत्तमयोर्बलवीर्ययोर्यत्सत्वं-सत्ता तेन युक्तयत्तत्था 'ससोहग्गगुणसमूसियत्तिसमीभाग्यं गुणसमुच्छ्रितंचेत्यर्थः 'अभिजायमहक्खमंतिअभिजातं-कुलीनं महतीक्षमा यत्र तत्तथा, ततः कर्मधारयः, अथवाऽभिजातानां मध्ये महत्-पूज्यं क्षम-समर्थं च यत्तत्तथा, 'निरुवहयउदत्तलठ्ठपंचिंदियपहुं'ति नुिरुपहतानि-अविद्यमानवाताधुपघातानि उदात्तानि-उत्तमवर्णादिगुणानि अत एव लष्टानिमनोहराणि पञ्चापीन्द्रियाणि पटूनि च-स्वविषयग्रहणदक्षाणि यत्र तत्तथा 'विविहवाहिसयसंनिकेयंति इहसंनिकेतं-स्थानम् अढियकछुट्ठिय'ति अस्थिकान्येवकाष्ठानिकाठिन्यसाधाततभ्यो यदुत्थितं तत्तथा।
-'छिराण्हारुजालओणद्धसंपिणद्धं तिशिरा-नाड्यः ‘ण्हारुत्तिस्नायवस्तासांयञ्जालंसमूहस्तेनोपद्धं संपिनद्धं-अत्यर्थं वेष्टितं यत्तत्तथा 'असुइसंकिलिडे'ति अशुचिना-अमेध्येन सङ्क्लिष्टं-दुष्टं यत्तत्तथा अनिट्ठवियसव्वकालसंठप्पयंति अनिष्ठापिता-असमापितासर्वकालंसदा संस्थाप्यता-तत्कृत्यकरणं यस्य सतथा 'जराकुणिमजजरधरंव' जराकुणपश्च-जीर्णताप्रधानशबोजर्जरगृहंच-जीर्णगेहंसमाहारद्वन्द्वाज्जराकुणपजर्जरगृहं, तदेवं किम्? इत्याह-'सडणे त्यादि
"विपुले'त्यादि, विपुलकुलाश्च ता बालिकाश्चेति विग्रहः कलाकुशलाश्च ताः सर्वकाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org