________________
शतकं-१, वर्ग:-, उद्देशक:-२
आरंभि० १ परि० २ माया० ३ अप्पच्च० ४ मिच्छदंसण० ५ सम्मामिच्छदिट्टीणं पंच ६ वाणमंतरजोतिसवेमाणिया जहा असुरकुमारा, नवरं वेयणाए नाणत्तं-मायिमिच्छदिट्ठीउववन्नगाय अप्पवेदणतरा अमायिसम्मदिट्ठीउववन्नगा य महावेयणतरागा भाणियव्वा, जोतिसवेमाणिया ।
४७
सलेस्सा णं भंते! नेरइया सव्वे समाहारगा ?, ओहियाणं सलेस्साणं सुक्कलेस्साणं, एएसि णं तिण्हं एक्को गमो, कण्हलेस्साणं नीललेस्साणंपि एक्को गमो नवरं वेदणाए मायिमिच्छदिट्टीउववनगा य अमायिसम्मदिट्ठीउवव० भाणियव्वा । मणुस्सा किरियासु सरागवीयरागपमत्तापमत्ता न भाणियव्वा । काउलेसाएवि एसेव गमो, नवरं नेरइए जहा ओहिए दंडए तहा भाणियव्वा, तेउलेस्सा पम्हलेस्सा जस्स अस्थि जहा ओहिओ दंडओ तहा भाणियव्वा नवरं मणुस्सा सरागा वीयरागा य न भाणियव्वा, गाहा
-
वृ. 'नेरइए' इत्यादि व्यक्तं, नवरं 'महासरीरा य अप्पसरीरा ये' त्यादि, इहाल्पत्वं महत्त्वं चापेक्षिकं, तत्र जघन्यम् अल्पत्वमङ्गुलासङ्घयेयभागमात्रत्वम्, उत्कृष्टं तु महत्वं पञ्चधनुः शतमानत्वम्, एतच्च भवधारणीयशरीरापेक्षया, उत्तरवैक्रियापेक्षया तु जघन्यमङ्गुलसङ्ख्यात भागमात्रत्वम्, इतरतु धनुः सहमानत्वमिति, एतेन च किं समशरीरा इत्यत्र प्रश्ने उत्तरमुक्तं, शरीरविषमताऽभिधाने सत्याहारोच्छसयोर्वैषम्यं सुखप्रतिपाद्यं भवतीति शरीरप्रश्नस्य द्वितीयस्थानोक्तस्यापि प्रथमं निर्वचनमुक्तम् ।
अथाहारीच्छसप्रश्नयोर्निर्वचनमाह - 'तत्थ ण' मित्यादि ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलान् आहारयन्ति, महाशरीरत्वादे, दृश्यते हि लोके बृहच्छरीरो बह्वाशी स्वल्पशरीरश्चाल्पभोजी, हस्तिशशकवत्, बाहुल्यापेक्षं चेदमुच्यते, अन्यथा बृहच्छरीरोऽपि कश्चिदल्पमश्नाति अल्पशरीरोऽपि कश्चिभूरि भुङ्क्ते, तथाविधमनुष्यवत्, न पुनरेवमिह, बाहुल्यपक्षस्यैवाश्रयणात्, ते च नारका उपपातादिसद्वेद्यानुभवादन्यत्रासद्वेद्योदयवर्त्तित्वेनैकान्तेन यथा महाशरीरा दुःखितास्तीव्राहारभिलाषाश्च भवन्तीति 'बहुतराग पोग्गले परिणार्मेति त्ति, आहारपुद्गलानुसारित्वापरिणामस्य बहुतरानित्युक्तं, परिणामश्चापृष्टोऽप्याहारकार्यमितिकृत्वोक्तः ।
तथा 'बहुतराए पोग्गले उस्ससंति' तिउच्छ्वासतया गृह्णन्ति, 'निस्ससंति' त्तिनिःश्वासतया विमुञ्चन्ति महाशरीरत्वादेव, दृश्यते हि बृहच्छरीरस्तजातीयेतरापेक्षया बहूच्छसनिःश्वास इति, दुःखितोऽपि तथैव, दुःखिताश्च नारका इति बहुतरांस्तानुच्छसन्तीति । तथाऽऽहारस्यैव कालकृतं वैषम्यमाह-'अभिक्खणं आहारेति त्ति, अभीक्ष्णं पौनःपुन्येन यो यतो महाशरीरः स तदपेक्षया शीघ्रशीघ्रतराहारग्रहण इत्यर्थः, 'अभिक्खणंऊससंति अभिक्खणं नीससंति' एते हि महाशरीरत्वेन दुःखिततरत्वाद् 'अभीक्ष्णम्' अनवरतमुच्छसादि कुर्वन्तीति ।
तथा - 'तत्थणं जे ते ' इत्यादि, येते, इह 'ये' इत्येतावतैवार्थसिद्धौ यत्ते इत्युच्यते तद्भाषामात्रमेवेति, 'अप्पसरीरा अप्पतराए पोग्गले आहारेंति' त्ति, ये यतोऽल्पशरीरास्ते तदाहारणीय पुद्गलापेक्षयाऽल्पतरान् पुद्गलनाहारयन्ति, अल्पशरीरत्वादेव, आहस्र आहारेंति' त्ति कदाचिदाहारयन्ति कदाचिन्नाहारयन्ति, महाशरीराहारग्रहणान्तरालापेक्षया, बहुतरकालान्तरालतयेत्यर्थः, ‘आहच्च ऊससंति नीससंति' त्ति एते ह्यल्प शरीरत्वेनैव महाशरीरापेक्षयाऽल्पतरदुःखत्वाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org