________________
४८
भगवतीअङ्गसूत्रं १/१२/२७
आहत्य-कदाचित् सान्तरमित्यर्थः उच्छ्वासादिकुर्वन्ति, यच्चनारकाः सन्ततमेवोच्छसादिकुर्वन्तीति प्रागक्तं तन्महाशरीरापेक्षयेत्यवगन्तव्यमिति, अथवाऽपर्याप्तकालेऽल्पशरीराः सन्तो लोमाहारपेक्षया नाहारयन्ति उच्छ्वास अपर्याप्तकत्वेन च नोच्छ्वसन्ति, अन्यदा वाहारयन्ति उच्छ्वसन्ति चेत्यत आहत्याहारयन्ति आहत्योच्छसन्तीत्युक्तं, ‘से तेणटेणं गोयमा! एवं वुच्चइनेरइया सव्वे नो समाहारे'त्यादि निगमनमिति ।
समकर्मसूत्रे-'पुव्वोववन्नगा य पच्छेववन्नगा यत्ति 'पूर्वोत्पन्नाः' प्रथमतरमुत्पन्नास्तदन्ये तुपश्चादुत्पन्नाः, तत्र पूर्वोत्पन्नानामायुषस्तदन्यकर्मणांच बहुतरवेदनादल्पकर्मत्वं, पश्चादुत्पन्नानां च नारकाणामायुष्कादीनामल्पतराणां वेदितत्वात्महाकर्मत्वम्, एतच्च सूत्रंसमानस्थितिका ये नारकास्तानङ्गीकृत्यप्रणीतम्, अन्यथाहि रत्नप्रभायामुत्कृष्टस्थिते रकस्य बहुन्यायुषि क्षयमुपगते पल्योपमावशेषे च तिष्ठति तस्यामेव रत्नप्रभायां दशवर्षसहस्रस्थितिारकोऽन्यः कश्चिदुत्पन्न इतिकृत्वा प्रागुत्पन्नं पल्योपमायुष्कं नारकमपेक्ष्य किं वक्तुं शक्यं महाकर्मेति ?।
एवंवर्णसूत्रेपूर्वोत्पन्नस्याल्पंकर्मततस्तस्य विशुद्धोवर्ण, पश्चादुत्पन्नस्यचबहुकर्मत्वादविशुद्धतरो वर्ण इति ॥ एवं लेश्यासूत्रेऽपि, इह च लेश्याशब्देन भावलेश्या ग्राह्याः, बाह्यद्रव्यलेश्या तु वर्णद्वारेणैवोक्तेति।
'समवेयण'त्ति समवेदनाः' समानपीडाः सन्निभूयत्तिसज्ञा-सम्यग्दर्शनंतद्वन्तः सज्ज्ञिनः सज्ञिनो भूताः-सज्ज्ञित्वं गताः सज्ज्ञिभूताः, अथवाऽसज्ज्ञिनः सज्ञिनो भूताः सज्ञिभूताः च्चिप्रत्यययोगात्, मिथ्यादर्शनमपहा सम्यग्दर्शनजन्मना समुत्पन्ना इतियावत् तेषां च पूर्वकृतकर्मविपाकमनुस्मरतामहो मह खसङ्कटमिदमकस्मादस्माकमापतितं न कृतो भगव-दर्हत्प्रणीतः सकलदुःखक्षयकरो विषयविषमविषयपरिभोगविप्रलब्धचेतोभिर्द्धर्म इत्ययो महङ्खं मानसमुपजायतेऽतो महावेदनास्ते, असज्ञिभूतास्तु मिथ्यादृष्टयः, ते तु स्वकृतकर्मफलमिदमित्येवमजानन्तोऽनुपतप्तमानसाअल्पवेदनाः स्युरित्येके, अन्येत्वाहुः-सज्ञिनः-सज्ञिपञ्चेन्द्रियाः सन्तोभूता-नारकत्वंगताः सज्ञिभूताः, तेमहावेदनाः, तीव्राशुभाध्यवसायेना-शुभतरकर्मबन्धनेन महानरकेषूत्पादात्, असज्ञिभूतास्त्वनुभूतपूर्वासज्ज्ञिभवाः,ते पासज्ज्ञित्वा-देवात्यताशुभाध्यवसायाभावाद्रत्नप्रभायामनतितीव्रवेदननरकेषूत्पादादल्पवेदनाः, अथवा 'सज्ज्ञिभूताः' पर्याप्तकीभूताः, असज्ज्ञिनस्तु
अपर्याप्तकाः, तेच क्रमेण महावेदना इतरे च भवन्तीति प्रतीयत एवेति।
'समकिरियत्ति, समाः-तुल्याः क्रियाः कर्मनिबन्धनभूता आरम्भिक्यादिका येषां ते समक्रियाः, 'आरंभिय'त्ति आरम्भः-पृथिव्याधुपमर्द स प्रयोजनं-कारणं यस्याः साऽऽरम्भिकी १, परिग्गहिय'त्ति, परिग्रहो-धर्मोपकरणवर्जवस्तुस्वीकारो धर्मोपकरणमूर्छ च स प्रयोजनं यस्याः सा पारिग्रहिकी २, ‘मायावत्तियत्ति, माया-अनार्जवं उपलक्षणत्वाक्रोधादिरपि च सा प्रत्ययःकारणं यस्याः सामायाप्रत्यया ३, 'अप्पक्खाणकिरिय'त्ति अप्रत्याख्यानेन-निवृत्भावेन क्रिया-कर्मबन्धादिकरहणमप्रत्याख्यानक्रियेति४ 'पंच किरियाओ कजंति'त्ति क्रियन्ते, कर्मकर्त्तरि प्रयोगोऽयंतेनभवन्तीत्यर्थः, 'मिच्छदसणवत्तिय तिमिथ्यादर्शनं प्रत्ययो-हेतुर्यस्याःसा मिथ्यादर्शनप्रत्यया, ननुमिथ्यात्वाविरतिकषाययोगाः कमबन्धहेतवइतिप्रसिद्धिइहतुआरम्भादयस्तेऽभिहिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org