SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४४८ भगवतीअङ्गसूत्रं ८/-/१०/४३१ एवं दर्शनाराधना चारित्राराधना चेति। अथोक्ताऽऽराधनाभेदानामेव परस्परोपनिबन्धमभिधातुमाह-'जस्स ण'मित्यादि, 'अजहन्नुक्कोसा वत्तिजघन्या चासौ उत्रक्षाच-उत्कृष्टाजघन्योत्कर्षातन्निषेधादजघन्योत्कर्षामध्यमेत्यर्थः, उत्कृष्टज्ञानाराधनावतो हि आधे द्वे दर्शनाराधने भवतो न पुनस्तृतीया, तथास्वभावत्वात्तस्येति। _ 'जस्स पुणे'त्यादि उत्कृष्टदर्शनाराधनावतो हि ज्ञानं प्रति त्रिप्रकारस्यापि प्रयत्नस्य सम्भवोऽस्तीति त्रिप्रकाराऽपि तदाराधना भजनया भवतीति। उत्कृष्टज्ञानचारित्राराधनासंयोगसूत्रे तूत्तरं-यस्योत्कृष्टा ज्ञानाराधनातस्य चारित्राराधना उत्कृष्टा मध्यमावास्यात्, उत्कृष्टज्ञानाराधनावतो हिचारित्रप्रति नाल्पतमप्रयत्नता स्यात्तत्स्वभावात्तस्येति, उत्कृष्टदर्शनचारित्राराघनासंयोगसूत्रे तूतरं-'जस्स उक्कोसिया दंसणाराहणा'इत्यादि, यस्योत्कृष्टा दर्शनाराधना तस्य चारित्राधना त्रिविधाऽपि भजनया स्यात्, उत्कृष्टदर्शनाराधनावतो हि चारित्रं प्रति प्रयलस्य त्रिविधस्याप्यविरुद्धत्वादिति। उत्कृष्टायां तु चारित्राराधनायामुत्कृष्टैवदर्शनाराधना, प्रकृष्टचारित्रस्य प्रकृष्टदर्शनानुगतत्वादिति ॥अथाराधनाभेदानां फलप्रदर्शनायाह–'उक्कोसियंण'मित्यादि, 'तेणेव भवग्ग-हणेणं सिज्झइत्ति उत्कृष्टां ज्ञानाराधनामाराध्य तेनैव भवग्रहणेन सिद्ध्यति, उत्कृष्टचारित्राराधनायाः सद्भावे, 'कप्पोवएसुवत्ति 'कल्पोपगेषु सौधर्मादिदेवलोकोपगेषु देवेषुमध्ये उपपद्यते, मध्यमचारिनाराघनासद्भावे, “कापातीएसु वत्ति अवेयकादिदेवेषूत्पद्यते, मध्यमोत्कृष्टचारित्राराघनासद्भावे इति, तथा 'उक्कोसियं णं भंते ! दंसणाराहण'मित्यादि, 'एवं चेव'त्ति करणात् 'तेणेव भवग्गहणेणं सिज्झइ'इत्यादिदृश्य, तद्भवसिद्ध्यादिचतस्यां स्यात्, चारित्राराधनायास्तत्रोत्कृष्टायामध्यमायाश्वोक्तत्वादिति, तथा 'उक्कोसियंणं भंते ! चारित्ताराहण'मित्यादौ ‘एवं चेव'त्ति करणात् 'तेणेव भवग्गहणेण'मित्यादि दृश्य, केवलं तत्र ‘अत्थेगइएकपोवगेसु वे'त्यभिहितमिह तु तन्न वाच्यं उत्कृष्ट चारित्राराधनावतःसौधर्मादि कल्पेष्वगमनाद्वाच्यं पुनः अत्थेगइए कप्पातीएसु उववज्जइ'त्ति सिद्धिगमनाभावे तस्यानुत्तरसुरेषुगमनात्, एतदेव दर्शयतोक्तं 'नवर'मित्यादि। मध्यमज्ञानाराघनासूत्रेमध्यमत्वं ज्ञानाराधनाया अधिकृतभव एव निर्वाणाभावात्, भावे पुनरुत्कृष्टत्वमवश्यम्भावीत्यवसेयं, निर्वाणान्यथाऽनुपपत्तेरिति, 'दोच्चेणं ति अधिकृतमनुष्यभवापेक्षया द्वितीयेन मनुष्यभवेन 'तच्चं पुण भवग्गहणं'ति अधिकृतमनुष्यभवग्रहणापेक्षया तृतीयं मनुष्यभवग्रहणं, एताश्च चारित्राराघनासंवलिता ज्ञानाद्याराधना इह विवक्षिताः। कथमन्यथा जघन्यज्ञानाराधनामाश्रित्य वक्ष्यति सत्तट्ठभवग्गहणाइंपुण नाइक्कमइति, यतश्चारित्राराधनायाएवेदं फलमुक्तं, यदाह-"अट्ठभवाउचरित्तेत्ति श्रुतसम्यक्त्वदेश-विरतिभवास्त्वसङ्खयेया उक्ताः, ततश्चरणाराधनारहिता ज्ञानदर्शनाराधना असवयेयभविका अपि भवन्ति नत्वष्टभविका एवेति ॥ अनन्तरं जीवपरिणाम उक्तोऽथ पुद्गलपरिणामाभिधानायाहमू. (४३२) कतिविहे णं भंते ! पोग्गलपरिणामे पन्नते?, गोयमा ! पंचविहे पोग्गल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy