________________
४४४
भगवतीअगसूत्रं ८/-/९/४२९ एवं च त्रयः सर्वबन्धकानां राशयः त्रय एव घाबन्धकानां, समयभेदेन राशिभेदादिति, एवं च ते राशिप्रमाण-तस्तुल्य यद्यपि भवन्ति तथाऽपि सङ्घयातप्रमाणतोऽधिका अबन्धका भवन्ति ।। ४-५-६॥
तेचैवम्-ये एकसमयिका ऋजुगत्योत्पद्यमानका इत्यर्थः ते एकस्मिन्निगोदे-साधारणशरीरे लोकमध्यस्थितेषड्भ्यो दिग्भ्योऽनुश्रेण्याऽऽगच्छन्ति, ये पनुर्द्धिसमयिका एकवक्रगत्योत्पद्यमाना इत्यर्थः तेत्रिप्रतरिकाः प्रतरत्रयादागच्छन्ति, विदिशोवक्रेणाऽऽगमनात्, प्रतरश्चवक्ष्यमाणस्वरूप, ये पुनस्त्रिसमयिकाः-समयत्रयेण वक्रद्वयेनचोत्पद्यमानकस्ते शेषलोकात्प्रतरत्रयातिरिक्तलोकादागच्छन्तीति ॥७॥
प्रतरप्ररूपणायाह-लोकमध्यगतकनिगोदमधिकृत्यतिर्यगायतश्चतसृषुदिक्षुप्रतरः कल्प्यते, असङ्खयेयप्रदेशबाहल्यो-विवक्षितनिगोदोत्पादकालोचितावगाहनाबाहल्यइत्यर्थः तन्मात्रबाहल्यादेव 'उद्दे'ति ऊधिोलोकान्तगतौ पूर्वापरायतो दक्षिणोत्तरायतश्चेति द्वौ प्रतराविति ।। ८॥ ___अथाधिकृतमल्पबहुत्वमुच्यते-ये जीवास्त्रिप्रतरिका एकवक्रया गत्योत्पत्तिमन्तस्ते षड्दिग्भ्यः-ऋजुगत्या षड्भ्यो दिग्भ्यः सकाशाद्भवन्त्यसङ्खयेयगुणाः, शेषाअपितेत्रिसमयिकाः शेषोलाकादागतास्तेऽप्यसख्येवगुणा भवन्ति, कुतः ?, क्षेत्रामङ्ख्यगनितत्वाद्, यतः षडदिक्क्षेत्रात्रिप्रतरमसङ्खयेयगुणं ततोऽपि शेषलोक इति ॥९॥
ततः किम् ? इत्याह-वक्रद्वयमाश्रित्येदं सूत्रमित्यर्थः ॥१०॥
प्रथमऋजुगत्युत्पन्नसर्वबन्धकराशि सह परिकल्पितं, क्षेत्रस्याल्पत्वात, द्विसमयोत्पन्नानां द्वौ राशी, एकोऽवन्धकानामन्यः सर्वबन्धकानां, तौच प्रत्येकं लक्षमानौ, तत्क्षेत्रस्य बहुतरत्वात्, ये पुनस्त्रिभिःसमयैरुत्पद्यन्ते तेषांत्रयोराशयः, तत्र चाद्ययोः समययोरबन्धकौ द्वौराशी तृतीयस्तु सर्वबन्धको राशिः, तेचत्रयोऽपिप्रत्येक कोटीमानास्तत्क्षेत्रस्य बहुतमत्वादिति, तदेवं राशित्रयेऽपि सर्वबन्धकाः सहस्रं लक्षंकोटी चेत्येवं सर्वस्तोकाः, अबन्धकास्तुलऑकोटीद्वयं चेत्येवं विशेषाधिकास्त इति ॥१२॥
अनेन च गाथाद्वयेनोद्वर्तनाभणनाद्विग्रह समय सम्भवः, अन्तर्मुहूत्तन्तेि परिवर्तनाभणनाचनिगोद-स्थितिसमयमानमुक्तं, ततश्च अयमर्थः-।। १३-१४ ।।
तेषामेव वैक्रियबन्धकानां सर्वबन्धकान् मुक्त्वा ये शेषास्ते सर्वे वैक्रियस्य देशबन्धका भवन्ति, तत्र च सर्वबन्धकान् मुक्त्वेलेन कथमित्यस्य निर्वचनमुक्तं, ये शेषा इत्यनेन तु के वेत्यस्येति, अबन्धकास्तु तस्यानन्ता भवन्ति, ते च के?, ते तद्वर्जा-वैक्रियसर्वदेशबन्धकवर्जाः शेषजीवास्ते चौदारिकादिबन्धकाः देवादयश्च वैग्रहिका इति ।।२१।।
तर्जा' आहारकबन्धवर्जा सर्वजीवा अबन्धका इत्याहारकाबन्धस्वरूपमुक्तं, ते च पूर्वेभ्योऽनन्तगुणा भवन्ति ।। २२-२४ ।।
सङ्ख्यातगुणा आयुष्काबन्धका इति यदुक्तं तत्र प्रश्नयन्नाह-एकोऽसङ्घयभागो निगोदजीवानांसदोद्वर्तते, सच बद्धायुषामेव, तदन्येषामुद्वर्तनाऽभावात, तेभ्यश्चयेशेषास्तेऽबद्धायुषः, तेच तदपेक्षयाऽसङ्ख्यातगुणा एवेत्येवमसङ्ख्यगुणा आयुष्काबन्धकाः स्युरिति ॥२५
अत्रोच्यते, निगोदजीवभवकालपेक्षया तेषामायुर्बन्धकालः सङ्ख्यातभागवृत्तिरित्यबन्धकाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org