________________
शतकं - ८, वर्ग:-, उद्देशक:- ९
॥२७॥
॥२८॥
॥२९॥
11 30 11
॥३१॥
॥ ३२ ॥
॥३३॥
जीवा टिईकाले आउयबंधद्धमाइए लद्धं । एवइभागे आउस्स बंधया सेसजीवाणं ॥ जं संखेजतिभागी ठिकालस्साउबंधकालो उ । म्हाऽसंखगुणा से अबंधया बंधएहिंतो ।। संजोगप्पबहुयं आहारगसव्वबंधगा थोवा । तस्सेव देसबंधा संखगुणा ते य पुव्युत्ता ॥ तत्तो वेउव्वियसव्यबंधगा दरिसिया असंखगुणा । जमसंखा देखाई उववजंतेगसमएणं ॥ तस्सेव देसबंधा असंखगुनिया हवंति पुव्युत्ता ! तेयगकम्माबंधा अनंतगुनिया य ते सिद्धा ॥ तत्तो उ अनंतगुणा ओरालियसव्वबंधगा होंति । तस्सेव ततोऽबंधा य देसबंधा य पुव्युत्ता ॥ तत्तो तेयगकम्माणं देसबंधा भवे विसेसहिया ।
॥ ३४ ॥
॥ ३५ ॥
॥३६॥
४४३
ते चेवोरालियदेसबंधगा होंतिमे वऽन्ने ॥ जे तस्स सव्वंबंधा अबंधग जे य नेरइयदेवा । एएहिं साहिया ते पुणाइ के सव्वसंसारी ॥ वेउव्वियस्स तत्तो अबंधगा साहिय विसेसेणं । ते चैव य नेरइयाइविरहिया सिद्धसंजुत्ता ॥ आहारगस्स तत्तो अबंधगा साहिया विसेसेणं । ते पुण के ? सव्वजीवा आहारगलद्धिए मोत्तुं ॥
इहौदारिकसर्वबन्धादीनामल्पत्वादिभावनार्थं सर्वबन्धादिस्वरूपं तावदुच्यते-इह ऋ जुगत्या विग्रहगत्या चोत्पद्यमानानां जीवानामुत्पत्तिक्षेत्रप्राप्तिप्रथमसमये सर्वबन्धो भवति, द्वितीया तु देशबन्धः सिद्धादीनामित्यत्रादिशब्दाद्वैक्रियादिबन्धकानां च जीवानामौदारिकस्यावन्ध, इह च सिद्धादीनामबन्धकत्वेऽप्यत्यन्ताल्पत्वेनाविवक्षणाद्वैग्रहिकानेव प्रतीत्य सर्वबन्धकेभ्योऽबन्धका विशेषाधिका उक्ता इति ॥ १-२॥
एतदेवाह-साधारणेष्वपि सर्वबन्धभावात्सर्वबन्धकाः सिद्धेभ्योऽनन्तगुणाः, यत एवं ततः सिद्धास्तेषामनन्तभागे वर्त्तन्ते, यदि च सिद्धा अपि तेषामनन्तभागे वर्त्तन्ते तदा सुतरां वैक्रियबन्धकादय इति प्रतीयन्त एव ततश्च तान् विहायैव सिद्धपदमेवाधीतमिति ॥ ३ ॥
अथ सर्वबन्धकानामबन्धकानां च समताभिधानपूर्वकमबन्धकानां विशेषाधिकत्वमुपदर्शयितुमाह-ऋज्वायतायां गतौ सर्वबन्धका एवाद्यसमये भवन्त्येवमेकस्तेषां राशि:, एकवक्रया ये उत्पद्यन्ते तेषां ये प्रथमे समये तेऽबन्धका द्वितीये तु सर्वबन्धका इत्येवं तेषां द्वितीयो राशि, स चैकवक्राभिधानद्वितीयगत्योत्पद्यमानानामर्द्धभूतो भवतीति द्विवक्रया गत्या ये पुनरुत्पद्यन्ते ते आधे समयद्वयेऽवन्धकास्तृतीये तु सर्वबन्धकाः, अयं च सर्वबन्धकानां तृतीयो राशिः, स च द्विवनाभिधान तृतीयगत्योत्पद्यमानानां त्रिभागभूतो भवति, तृतीयसमयभावित्वात्तस्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org