________________
शतकं-८, वर्गः-, उद्देशकः-९
४३५ 'असुरकुमारे'त्यादि, तत्रजघन्या स्थितिरसुरकुमारादीनांव्यन्तराणांच दशवर्षसहस्राणि ज्योतिष्काणां पल्योपमाष्टभागः सौधर्मादिषु तु 'पलियमहियं दो सार साहिया सत्तदस य चोद्दस य वर्षसहस्राणि ज्योतिष्काणां पल्योपमाष्टभागः सौधर्मादिषु तु पलियमहियं दो सार साहिया सत्तदस च चोद्दस य सतरस य' इत्यादि ।
आनतसूत्रे सव्वबंधंतर मित्यादि, एतस्य भावनाआनतकल्पीयो देवउत्पत्तौ सर्वबन्धकः, स चाष्टादशसागरोपमानि तत्र स्थित्वा ततश्च्युतो वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चासौ सर्वबन्धक इत्येवं सर्वबन्धान्तरं जघन्यमष्टादश सागरोपमानि वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैवोत्पन्नःप्रधमसमये चासौसर्वबन्धक इत्येवं सर्वबन्धान्तरंजघन्यमष्टादश सागरोपमानि वर्षपृथक्त्वाधिकानीति, उत्कृष्टं त्वनन्तं कालं, कथं?, स एव सतस्माच्युतोऽनन्तं कालं वनस्पत्यादिषुस्थित्वापुनस्तत्रैवोत्पन्नःप्रथमसमये चासौसर्वबन्धक इत्येवमिति, 'देसबंधंतरं जहन्नेणं वासुपुहुत्तंति, कथं?, स एव देशबन्धकः संश्रयतोवर्षपृथक्त्वं मनुष्यत्वमनुभूय पुनस्तत्रैव गतस्तस्य च सर्वबन्धानन्तरंदेशवन्धइत्येवंसूत्रोक्तमन्तरंभवति,इह च यद्यपि सर्वबन्धसमयाधिकं वर्षपृथक्त्वं भवति तथाऽप तस्य वर्षपृथक्त्वादनान्तरत्वविवक्षया न भेदेन गणनमिति । एवं प्राणतारणाच्युतग्रैवेयकसूतराण्यपि ज्ञेयानि ।
अथ सनत्कुमारादिसहस्रारान्ता देवा जघन्यतो नवदिनायुष्केभ्यः आनताद्यच्युतान्तास्तु नवमासायुष्केभ्यः समुत्पद्यन्त इति जीवसमासेऽभिधीयते, ततश्च जघन्यं तत्सर्वबन्धान्तरं तत्तदधिकतज्जधन्यस्थितिरूपंप्राप्नोतीति, सत्यमेतत, केवलं मतान्तरमेवेदमिति॥अनुत्तरविमानसूत्रेतु ‘उक्कोसेण'मित्यादि, उत्कृष्टं सर्वबन्धान्तरं देशवन्धान्तरं च सङ्ख्यातानि सागरोपमानि, यतो नान्तकालमनुत्तरविमानच्युतः 'संसरति, तानि च जीवसमासमतेन द्विसङ्घयानीति ।
अथवैक्रियशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह-'एएसी'त्यादि, तत्र सर्वस्तोका वैक्रियसर्वबन्धकास्तत्कालस्याल्पत्वात्, देशबन्धका असङ्ख्यातगुणास्तत्कालस्य तदपेक्षयाऽसङ्ख्येयगुणत्वात्, अबन्धकास्त्वनन्तगुणाः सिद्धानां वनस्पत्यादीनां च तदपेक्षयाऽनन्तगुणत्वादिति
अथाहारक शरीरप्रयोगबन्धमधिकृत्याह- 'आहारे' त्यादि, 'एगागारे' त्ति एकः प्रकारो नौदारियादिबन्धवदेकेन्द्रियाद्यनेकप्रकारइत्यर्थः, 'सब्बबंदे एक्कं समयंतिआधसमय एवसर्वबन्धभावात्, 'देसवंधेजहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तंति, कथं?, जघन्यतउत्कर्षतश्चान्तमुहूर्त्तमात्रमेवाहारकशरीरी भवति, परत औदारिकशरीरस्यावश्य ग्रहणात्, तत्र चान्तर्मुहूर्ते आधसमये सर्वबन्धः उत्तरकालं च देशबन्ध इति।
अथाहारकशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह-'आहार' त्यादि, सव्वबंधंतरंजहन्नेणं अंतोमुहुत्त'ति, कथं ?, मनुष्य आहारकशरीरं प्रतिपन्नस्तप्रथमसमये च सर्ववन्धकस्ततोऽन्तमुहूर्तमान स्थित्वौदारिकशरीरं गतस्तत्राप्यन्तर्मूहूर्त स्थितः, पुनरपि च तस्य संशयादि आहारकशरीरकरणकारणमुत्पन्नं ततः पुनरप्याहारकशरीरं गृह्णाति, तत्र च प्रथमसमये सर्वबन्धक एवेति,एवं च सर्वबन्धान्तरमन्तर्मुहूर्त, द्वयोरप्यन्तर्मुहूर्तयोरेकत्वविक्षणादिति, 'छोरोणं अनंतं कालं'ति, कथं ?, यतोऽनन्तकालादाहारकशरीरं पुनर्लभत इति, कालानन्त्यमेव विशेषेणाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org