________________
भगवती अङ्गसूत्रं ८/-/९/४२५
'तिरिक्खे' त्यादि, 'सव्वबंधंतरं जहन्त्रेणं अंतोमुहुत्तं 'ति, कथं ?, पञ्चेन्द्रियतिर्यग्योनिको वैक्रियं गतः तत्र च प्रथमसयमे सर्वबन्धकस्ततः परं देशबन्धकोऽन्तर्मूहूर्त्तमात्रं तत औदारिकस्य सर्वबन्धको भूत्वा समयं देशवन्धको जातः पुनरपि श्रद्धेयमुत्पन्न वैक्रियं करोमीतिपुनर्वैक्रियं कुर्वतः प्रथमसमये सर्वबन्धः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, 'उक्कोसेणं पुव्वकोडिपत्तं 'ति, कथं?, पूर्वकोट्यायुः पञ्चेन्द्रियतिर्यग्योनिको वैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धकस्ततो देशबन्धको भूत्वा कालान्तरे मृतस्तत्र पूर्वकोट्यायुः पञ्चेन्द्रियतिर्यक्ष्वेवोत्पन्नः पूर्वजन्मना सह सप्ताष्टौ वा वारान् ततः सप्तमेऽष्टमे वा भवे वैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धं कृत्वा देशबन्धं करोतीति, एवं च सर्वबन्धयोरुत्कृष्टं यथोक्तमन्तरं भवतीति, 'एवं देसबंधंतंपि त्ति, भावना चास्य सर्वबन्धान्तरोक्तभावनानुसारेण कर्त्तव्येति ।
४३४
वैक्क्रियशरीरवन्धान्तरमेव प्रकारान्तरेण चिन्तयन्नाह 'जीवस्से' त्यादि, 'सव्वबंधंतरं जहनेणं अंतोमुहुत्तं 'ति, कथं?, वायुर्वेक्रियशरीरं प्रतिपन्नः, तत्र च प्रथमसमये सर्वबन्धको भूत्वा मृतस्ततः पृथिवीकायिकेषूत्पन्नः तत्रापि क्षुल्लकभवग्रहणमात्रं स्थित्वा पुनर्वायुर्जातः, तत्रापि कतिपयान् क्षुल्लकभवान् स्थित्वा चैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धको जातस्ततश्च वैक्रियस्य सर्वबन्धयोरन्तरं बहवः क्षुल्लकभवास्ते च बहवोऽप्यन्तर्मुहूर्त्त, अन्तर्मुहूर्ते बहूनां क्षुल्लकभवानां प्रतिपादितत्वात्, ततश्च सर्वबन्धान्तरं यथोक्तं भवतीति, 'उक्कोसेणं अनंतं कालं वणस्सइकालो 'त्ति, कथं ?, वायुर्वैक्रियशरीरीभवन् मृतो वनस्पत्यादिष्वनन्तं कालं स्थित्वा वैक्रियशरीरं पुनर्यदा लप्स्यते तदा यथोक्तमन्तरं भविष्यतीति, 'एवं देसबंधंतरंपि 'त्ति, भावना चास्य प्रागुक्तानुसारेणेति ।।
रत्नप्रभासूत्रे 'सव्वबंधंतर' मित्यादि, एतद्भाव्यते - रत्नप्रभानारको दशवर्षसहस्रस्थितिक उत्पत्ती सर्वबन्धकः तत उद्धृतस्तु गर्भजपञ्चेन्द्रियेष्वन्तर्मुहूर्त स्थित्वा रत्नप्रभायां पुनरप्युत्पन्नः तत्र च प्रथमसमये सर्वबन्धक इत्येवं सूर्वोक्तं जघन्यमन्तरं सर्वबन्धयोरिति, अयं च यदाऽपि प्रथमोत्पत्ती त्रिसमयविग्रहेणोत्पद्यते तदापि न दश वर्षसहस्राणि त्रिसमयन्यूनानि भवन्ति, अन्तर्मुहूर्त्तस्य मध्यात्समयत्रयस्य तत्र प्रक्षेपात् न च तत्प्रक्षेपेऽप्यन्तर्मुहूर्त्तस्यान्तर्मुहूर्त्तत्वव्याघातस्तस्यानेकभेदत्वादिति, 'उक्कोसेणं वणस्सइकालो 'त्ति, कथं ?, रत्नप्रभानारक उत्पत्तौ सर्वबन्धकः ततं उद्धृतश्चानन्तं कालं वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पद्यमानः सर्वबन्धक इत्येवमुत्कृष्टमन्तरमिति, 'देसबंधंतरं जहन्नेणं अंतोमुहुत्तं 'ति, कथं?, रत्नप्रभानारको देशबन्धकः सन् मृतोऽन्तमुहूर्त्तायुःपञ्चेन्द्रियतिर्यकतयोत्पद्य मृत्वा रत्नप्रभानारकतयोत्पन्नः, तत्र च द्वितीयसमये देशबन्धक इत्येवं जघन्यं देशबन्धान्तरमिति, 'उक्कोसेणमित्यादि, भावना प्रागुक्तानुसारेणेति ।
शर्कराप्रभादिनारकाणां वैक्रियशरीरबन्धान्तरमतिदेशतः सङ्क्षेपार्थः माह एवं जावे' त्यादि, द्वितीयादिपृथिवीषु च जघन्या स्थिति क्रमेणैकं त्रीनि सप्त दश सप्तदश द्वाविंशतिश्च सागरी पाणीति पंचिदिए 'त्यादी 'जहा वाउकाइयाणं' ति जघन्येनान्तर्मुहूर्त्तमुत्कृष्टतः पुनरनन्तं कालमित्यर्थः असुरकुमारदयस्तु सहस्रारान्ता देवा उत्पत्तिसमये सर्वबन्धं कृत्वा स्वकीयां च जघन्यस्तितिमनुपालय पञ्चेन्द्रियतिर्यक्षु जघन्येनान्तर्मुहूर्त्तायुष्कत्वेन समुत्पद्य मृत्वा च तेष्वेव सर्वबन्धका जाताः, एवं च तेषां वैक्रियस्य जघन्यं सर्ववन्धान्तरं जघन्या तत्स्थितिरन्तर्मुहूर्त्ताधिका वक्तव्या, उत्कृष्टं त्वनन्तं कालं यथा रत्नप्रभानारकाणामिति, एतद्दर्शनायाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org