SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४३३ शतकं-८, वर्ग:-, उद्देशकः-९ पुनरीदारिकशरीरस्यावश्यं प्रतिपत्तेरिति ॥ _ 'रयणप्पभे'त्यादि, 'देसबंधे जहन्नेणं दस वाससहस्साइं ति० समयऊणाई'ति, कथं ?, त्रिसमय-विग्रहेण रत्नप्रभायांजघन्यस्थिति रकः समुत्पन्नः तत्र च समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशबन्धको वैक्रियस्यतदेवमाद्यसमयत्रयन्यूनं वर्षसहस्रदशकंजघन्यतो देशबन्धः, उक्कोसेणं सागरोवमं समयऊणं'ति, कथं?,अविग्रहेण रत्नप्रभायाभुत्कृष्टस्थितिरिकः समुत्पन्नः, तत्रचप्रथमसमयेसर्वबन्धको वैक्रियशरीरस्यततः परं देशबन्धकस्तेन सर्वबन्धसमयेनोनं सागरोपममुत्कर्षतो देशबन्ध इति, एवं सर्वत्र सर्वबन्धः समयं देशबन्धश्चजघन्यो विग्रहसमयत्रयन्यूनोनिजनिजजघन्यस्थितिप्रमाणोवाच्यः, सर्वबन्धसमयन्यूनोत्कृष्टस्थितिप्रमाणश्चोत्कृष्टदेशबन्ध इति, एतदेवाह__ ‘एवंजावे त्यादि, पञ्चेन्द्रियतिर्यङ्गनुष्याणां वैक्रियसर्वबन्ध एकंसमयं देशबन्धस्तुजघन्यत एकं समयमुत्कर्षेण त्वन्तर्मुहूर्तम् - एतदेवातिदेशेनाह-पंचिंदिये त्यादि, यच्च । ॥१॥ "अंतमुहुत्तं निरएसु होइ चत्तारि तिरियमणुएसु । देवेसु अद्धमासो उक्कोस विउव्वणाकालो ।।" इति वचनसामथ्यार्दन्तर्मुहूर्तचतुष्टयं तेषां देसबन्ध इत्युच्यते तन्मतान्तरमित्यवसेयमिति उक्तो वैक्रियशरीरप्रयोगबन्धस्य कालः,अथतस्यैवान्तरं निरूपयन्नाह-'वेउब्विये' त्यादि, 'सव्वबंधंतरंजहन्नेणं एवं समयंति, कथं?, औदारिकशरीरी वैक्रियं गतःप्रथमसमये सर्वबन्धको द्वितीये, देशबन्धको भूत्वामृतो देवेषुनारकेषुवा वैक्रियशरीरिष्वविग्रहेणोत्पद्यमानः प्रथमसमये सर्वबन्धको द्वितीये देशबन्धको भूत्वामृतोदेवेषु नारकेषुवा वैक्रियशरीरिष्वविग्रहेणोत्पद्यमानः प्रथमसमये सर्वबन्धक इत्येवमेकः समयः सर्वबन्धान्तरमिति, 'उक्कोसेणं अनंत कालं'ति, कथं ?,औदारिकशरीरी वैक्रियंगतोवैक्रियशरीरिषुवादेवादिषुसमुत्पन्नः सच प्रथमसमये सर्वबन्धको भूत्वा देशबन्धं च कृत्वा मृतः ततः परमनन्तं कालमौदारिकशरीरिषु वनस्पत्यादिषु स्थित्वा वैक्रियशरीर-वत्सूत्पनः, तत्रच प्रथमसमये सर्वबन्धको जातः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, एवं देसबंधंतरंपित्ति, जघन्येनैकं समयमुत्कृष्टतोऽनन्तं कालमित्यर्थः, भावना चास्य पूर्वोक्ता-नुसारेणेति। _ 'वाउक्काइए'त्यादि ‘सव्वबंधंतरं जहन्नेणं अंतोमुहत्तं'ति, कथं ?, वायुरौदारिकशरीरी वैक्रियमापनः, तत्रच प्रथमसमयेसर्ववन्धको भूत्वा मृतः पुनर्वायुरेवजातः, तस्य चापर्याप्तकस्य वैक्रियशक्ति विर्भवतीत्यन्तर्मुहूर्त्तमात्रेणासौ पर्याप्तको भूत्वा वैक्रियशरीरमारभते, तत्र चासौ प्रथमसमये सर्वबन्धको जात इत्येवं सर्वबन्धान्तरमन्तर्मुहूर्त्तमिति, 'उक्कोसेणं पलिओवमस्स असंखेज्जइभार्ग'ति, कथं ?, वायुरौदारिकशरीरी वैक्रियं गतः, तप्रथमसमयेच सर्वबन्धकस्ततो देशबन्धको भूत्वा मृतस्ततः परमौदारिकशरीरिषु वायुषु पल्योपमासङ्घयेयभागमतिवाह्यावश्यं वैक्रियं करोति, तत्र च प्रथमसमये सर्वबन्धकः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, एवं देसबंधंतरंपि'त्ति, अस्य भावना प्रागिवेति। 1528 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy