________________
शतर्क-9, वर्गः-, उद्देशक:-9
जीवा अधीताः ।
'जीवा णं भंते! किं आयारंभा परारंभ' त्यादिना दण्डकेन तथा सलेश्या जीवा अपि वाच्याः, सलेश्यानामसंसारसमापन्नत्वस्यासम्भवेन संसारसमापन्नेत्यादिविशेषणवर्जितानां शेषाणां संयतादिविशेषणानां तेष्वपि युज्यमानत्वात्, तत्र चायं पाठक्रमः - 'सलेसा णं भंते! जीवा किं आयारंभे 'त्यादि तदेव सर्वं, नवरं जीवस्थाने सलेश्या इति वाच्यमिति, अयमेको दण्डकः, कृष्णादिलेश्याभेदात्तदन्ये षट्, तदेवमेते सप्त, तत्र 'कण्हलेसस्से' त्यादि, कृष्णलेश्यस्य नीललेश्यस्य कापोतलेश्यस्य च जीवराशेर्दण्डको यथा औधिकजीवदण्डकस्तथाऽध्येतव्यः प्रमत्ताप्रमत्तविशेषणवर्जः, कृष्णादिषु हि अप्रशस्तभावलेश्यासु संयतत्वं नास्ति, यच्चोच्यते- “पुव्वपडिवण्णओ पुण अन्नयरीए उ लेसाए "त्ति, तद्द्रव्यलेश्यां प्रतीत्येति मन्तव्यं, ततस्तासु प्रमत्ताद्यभावः, तत्र सूत्रोच्चारणमेवम्
३९
"कण्हलेसाणं भंते ! जीवा किं आयारंभा परारंभा तदुभयारंभा अनारंभा ४ ?, गोयमा आयारंभावि जाव नो अनारंभा, से केणट्टेणं भंते! एव बुच्चइ ?, गोयमा ! अविरई पडुच्च" एवं नीलकापोत लेश्यादण्डकावपीति, तथा तेजोलेश्यादेजींवराशेर्दण्डकाः ३ यथा औधिका जीवास्तथा वाच्याः, नवरं तेषु सिद्धा न वाच्याः, सिद्धानामलेश्यत्वात्, तच्चैवम्- 'तेउचेस्साणं भंते ! जीवा किं आयारंभा ४?, गोयमा ! अत्थेगइया आयारंभावि जाव नो अनारंभा, अत्थेगइया नो आयारंभा जाव अनारंभा, से केणट्टेणं भंते ! एवं बुच्चइ ?, गोयमा ! दुविहा तेउलेस्सा पन्नत्ता, तंजहासंजया च असंजया ये' त्यादि ।
भवहेतुभूतमारम्भं निरूप्य भवाभावहेतुभूतं ज्ञानादिधर्मकदम्बकं निरूपयन्नाह
मू. (२३) इहभविए भंते! नाणे परभविए नाणे तदुभयभविए नाणे?, गोयमा ! इहभविएवि नाणे परभविएवि नाणे तदुभयभविएवि नाणे। दंसणंपि एवमेव ।
इहभविए भंते ! चरित्ते परभविए चरित्ते तदुभयभविए चरिते ?, गोयमा ! इहभविए चरित्ते नो परभविए चरित्ते नो तदुभयभविए चरिते । एवं तवे संजमे ।
वृ. 'इहभविए' इत्यादि व्यक्तं, नवरम्-इह भवे वर्त्तमानजन्मनि यद्वर्त्तते न तु भवान्तरे तदैहभविर्क, काकुपाठाच्चेह प्रश्नताऽवसेया, तेन किमैहभविकं ज्ञानमुत 'परभविए 'त्ति परभवेवर्त्तमानानन्तरभाविन्यनुगामितया यद्वर्त्तते तत्पारभविकम्, आहोश्वित् 'तदुभयभविए 'त्ति तदुभयरूपयोः इहपरलक्षणयोर्भवयोर्यदनुगामितया वर्त्तते तत्तदुभयभविकम्, इदं चैवं न पारभविकाद्भिद्यत इति परतरभवेऽपि यदनुयाति तद्ग्राह्यम्, इहभवव्यतिरिक्तत्वेन परतरभवस्यापि परभवत्वात्, ह्रस्वतानिर्देशह सर्वत्र प्राकृतत्वादिति प्रश्नः, निर्वचनमपि सुगमं, नवरम् 'इहभविए'त्ति ऐहभविकं यदिहाधीतं नानन्तरभवेऽनुयाति, पारभविकं यदनन्तरभवेऽनुयाति, तदुभयभविकं तु यदिहाधीतं परभवे चानुवर्त्तत इति ।
'दंसणंपि एवमेव 'त्ति दर्शनमहि सम्यक्त्वमवसेयं, मोक्षमार्गाधिकारात्, यदाह “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" यत्र तु ज्ञानदर्शनयोरेव ग्रहणं स्यात्तत्र दर्शनं सामान्यावबोधरूपमवसेयमिति । 'एवमेवेति ज्ञानवत् प्रश्ननिर्वचनाभ्यां समवसेयं, चारित्रसूत्रे निर्वचने विशेषः, तथाहि चारित्रमैहभविकमेव, न हि चारित्रवानिह भूत्वा तेनैव चारित्रेण पुनश्चारित्री भवति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org