SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३८ भगवतीअङ्गसूत्रं 91-19/२२ नमारभन्ते आत्मना वा स्वयमारभन्त इत्यात्मारम्भाः, तथा परमारभनतेपरेण वाऽऽरम्भयतीति परारम्भाः, तदुभयम्-आत्मपररूपं, तदुभयेन वाऽऽरम्भन्तइति तदुभयारम्भाः,आत्मपरोभारम्भवर्जितास्त्वनारम्भा इतिप्रश्नः,अत्रोत्तरं स्फुटमेव, नवरम् अस्तिशब्दस्याव्ययत्वेन बहुत्वार्थत्वाद् 'अस्ति विद्यन्ते सन्तीत्यर्थः, अथवाऽस्ति अयं पक्षो यदुत ‘एगइयत्त एकका एके केचनेत्यर्थ जीवाः, आत्मारम्भा अपीत्यादावपिशब्द उत्तरपदापेक्षया समुच्चये, स चात्मारम्भत्वादिधर्माणामेकाश्रयताप्रतिपादनार्थभिन्नाश्रयताप्रतिपादनार्थोवा एकाश्रयत्वंच कालभेदेनावगन्तव्यं, तथाहिकदाचिदात्मारम्भाः कदाचित्परारम्भाः कदाचित्तदुभयारम्भाः, अतएव नोअनारम्भाः,भिन्नाश्रयत्वं त्वेवम्-एके जीवा असंयता इत्यर्थः आत्मारम्भा वा परारम्भा वेत्यादि । ___ अथैकस्वभावत्वाञ्जीवानां भेदमसंभावयन्नाह-'से केणद्वेणं ति अथ केन कारणेनेत्यर्थः, 'दुविहा पन्नत्त'तिमयाऽन्यैश्च केवलिभिः,अनेन समस्तसर्वविदांमताभेदमाह, मतभेदे तुविरोधिवचनतया तेषामसत्यवचनतापत्तिः, पाटलीपुत्रस्वरूपभिधायकविरुद्धवचनपुरुष- कदम्बकवदिति, प्रमत्तसंयतस्य हिशुभोऽशुभश्च योगः स्यात् संयतत्वात्प्रमादपरत्वाच्च इत्यत आह-'सुभं जोगं पडुच्च'त्तिशुभयोगः-उपयुक्ततया प्रत्युपेक्षणादिकरण, अशुभयोगस्तु तदेवानुपयुक्ततया, आह च -- ॥१॥ “पुढवी आउक्काए तेऊचाऊवणस्सइतसाणं । पडिलेहणापमत्तो छण्हंपि विराहओ होइ । तथा “सव्वो पमत्तजोगो समणस्स उ होइ आरंभो" | त्ति अतः शुभाशुभौ योगावात्मा (ना) रम्भादिकारणमिति । 'अविरइंपडुच्च'त्ति, दहायं भावः-यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारम्भकादित्वं साक्षादस्ति तथाऽप्यविरतिं प्रतीत्य तदस्ति तेषां, न हि ते ततो निवृत्ताः, अतोऽसंयतानामविरतिस्तत्र कारणमिति, निवृत्तानांतु कथञ्चिदात्माधारम्भकत्वेऽप्यनारम्भकत्वं, यदाह॥१॥ “जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स। ___ सा होइ निजरफला अज्झत्थविसोहिजुत्तस्स ॥ ‘से तेणटेणं ति अथ तेन कारणेनेत्यर्थः । अथात्मारम्भकत्वादितवमेव नारकादिचतुविशतिदण्डकैर्निरूपयन्नाह-'नेरइयाणमित्यादि व्यक्तं, नवरं 'मणुस्से'त्यादौ अयमर्थ-मनुष्येषु संयतासंयतप्रमत्ताप्नम्तभेदाः पूर्वोक्ताः सन्ति ततस्ते यथा जीवास्तथाऽध्येतव्याः किन्तु संसारसमापन्नाः, इतरे च ते नवाच्याः,अभववर्तित्त्वादेव तेषामिति, एतदेवाह-'सिद्धविरहिए'इत्यादि व्यन्तरादयो यथा नारकास्तथाऽध्येयाः, असंयतत्व-साधादिति । आत्मारम्भकत्वादिभिर्द्धमॆर्जीवा निरूपिताः ते च सलेश्याश्चालेश्याश्च भवन्ति सलेश्यांस्तांस्तैरेव निरूपयन्नाह-'सलेसा जहा ओहिय'त्ति, लेश्या-कृष्णादिद्रव्यसान्निध्यजनितो जीवपरिणामो, यदाह॥१॥ “कृष्णादिद्रव्यसाचिव्यात, परिणामो य आत्मनः । __स्फटिकस्येव तत्रायं, लेश्याशब्द प्रयुज्यते ।। तत्र ‘सलेश्याः' लेश्यावन्तो जीवाः 'जहा ओहिय'त्ति यथा नारकादिविशेषणवर्जिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy