________________
४१६
भगवतीअगसूत्रं 21-14/४२० अबंधगस्सणंभंते! अजोगिभवत्यकेवलिस्स कतिपरीसहा पन्नत्ता?,गोयमा! एकारस परीसहा पन्नत्ता, नव पुण वेदेइ, जसमयं सीयपरीसहं वेदेतिनोतंसमयंउसिणपरीसहं वेदेइजं समयं उसिणपरीसहं वेदेति नो तं समयं सीयपरीसहं वेदेइ, जं समयं चरियपरीसहं वेदेइ नो तं समयं सेनापरीसहं वेदेतिजं समयं सेजापरिसहं वेदेइ नो तं समयंचरियापरीसहं वेदेइ ।।
वृ. 'एगेअलाभपरीसहे समोयरति'तिअलाभपरीषह एवान्तराये समवतरति, अन्तयार चेह लाभान्तरायं, तदुदय एव लाभाभावात्, तदधिसहनंच चारित्रमोहनीयक्षयोपशम इति॥ अथ बन्धस्थानान्याश्रित्यपरीषहान् विचारयन्नाह- 'सत्तविहे' त्यादि, सप्तविधबन्धकः-आयुर्वजशेषकर्मबन्धकः 'जंसमयं सीयपरीसहमित्यादि, यत्रसमयेशीतपरीषहं वेदयतेनतत्रोष्णपरीसहं, शीतोष्णयोः परस्पकमत्यन्तविरोधेनैकदैकत्रासम्भवात्, अथ यद्यपि शीतोष्णयोरेकदैकत्रासम्भवस्तथाऽप्यात्यन्तिके शीते तताविधाग्निसन्निधौ युगपदेवैकस्य पुंस एकस्यां दिशि शीतमन्यस्यांचोष्णमित्येवंद्वयोरपिशीतोष्णपरीषहयोरस्तिसम्भवः,नैतदेवं, कालकृतशीतोष्णाश्रयत्वादधिकृतसूत्रस्यैवंविधव्यतिकरस्य वा प्रायेण तपस्विनामभावादिति।
तथा 'जंसमयंचरियापरीसह मित्यादितत्रचर्या-ग्रामादिषुसंचरणनषेधिकीच-ग्रामादिषु प्रतिपन्नमासकल्पादेः स्वाध्यायादिनिमित्तं शय्यातो विविक्त तरोपाश्रये गत्वा निषदनम्, एवं चानयोर्विहारावस्थानरूपत्वेन परस्परविरोधान्नैकदा सम्भवः, अथ नैषेधिकीवच्छय्याऽपिचर्यया सह विरुद्धेतिनतयोरेकदासम्भवस्ततैश्चकोनविंशतेरेव परीषहाणामुत्कर्षेणैकदा वेदनंप्राप्तमिति, नैवं, यतो ग्रामादिगमनप्रवृत्तीयदा कश्चिदौत्सुक्यादनिवृत्ततत्परिणामएव विश्रामभोजनाद्यर्थःमित्वरशय्यायांवर्ततेतदोभयमप्यविरुद्धमेव, तत्त्वतश्चर्यायाअसमाप्तत्वाद्आश्रयस्यचाश्रयणादिति, यद्येवं तर्हि कथं षविधबन्धकमाश्रित्य वक्ष्यति
'जंसमयं चरियापरीसहंवेएतिनोतंसमयंसेज्जापरिसहं वेएइ' इत्यादीति?,अत्रोच्यते, षड्विधबन्धको मोहनीयस्या विद्यमानकल्पत्वात् सर्वत्रौत्सुक्याभावेन शय्याकाले शय्यायामेव वर्तते न तु बादररागवदौत्सुक्येन विहारपरिणामाविच्छेदाचर्यामपि, अतस्तदपेक्षया तयोः परस्परविरोधाधुगपदसम्भवः, ततश्च साध्वेव जं समयं चरिए त्यादीति। _ 'छब्बिहबंधे'त्यादि, षविधबन्धकस्यायुर्मोहवर्जानां बन्धकस्य सूक्ष्मसम्परायस्येत्यर्थः, एतदेवाह-‘सरागछउमस्थस्से त्यादि, सूक्ष्मलोभाणूनांवेदनात्सरागोऽनुत्पत्रकेवलत्वाच्छद्मस्थस्ततः कर्मधारयोऽतस्तस्य 'चोद्दसपरीसह त्तिअष्टानां मोहनीयसम्भवानांतस्यमोहाभावेनाभावात्द्वाविंशतेः शेषाश्चतुर्दशपरीषहा इति, ननु सूक्ष्मसम्परायस्य चतुर्दशानामेवाभिधानान्मोहनीयसम्भवानामष्टानासम्भवा इत्युक्तं, ततश्च सामर्थ्यादनिवृत्तिबादरसंपरायस्य मोहनीयसम्भवानामष्टानामपि सम्भवःप्राप्तः, कथं चैतद युज्यते?
यतो दर्शनसप्तकोपशमे बादरकषायस्य दर्शनमोहनीयोदयाभावेन दर्शनपरीषहाभावासप्तानामेव सम्भवो नाष्टानां, अथ दर्शनमोहनीयसत्तापेक्षयाऽसावपीष्यत इत्य,ष्टावेव तर्हि उपशमकत्वेसूक्ष्मसम्परायस्यापिमोहनीयसत्तासद्भावात्कथं तदुत्थाःसर्वेऽपिपरीषहान भवन्ति इति, न्यायस्य समानत्वादिति, अत्रोच्यते, यस्माद्दर्शनसप्तकोपशमस्योपर्येव नपुंसकवेदाधुपशमकालेऽनिवृत्तिबादरसम्परायो भवति, न चावश्यकादिव्यतिरिक्तग्रन्थान्तरमतेन दर्शनत्रयस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org