________________
४१४
भगवती अङ्गसूत्रं ८//८/४१६
कम्मपयडीसु समोयरंति, तंजहा - नाणावरनिज्जे वेयनिज्जे मोहनिज्जे अंतराइए ।
नाणावरनिज्जेणं भंते! कम्मे कति परीसहा समोयरंति ?, गोयमा ! दो परीसहा समोयरंति, तंजा पन्नापरीसहे नाणपरीसहे य ।
वेयनिज्जेणं भंते! कम्मे कति परीसहा समोयरंति ?, गोयमा ! एक्कारस परीसहा समोयरंति,
तंजा
वृ. 'कतिण' मित्यादि, 'परीसह त्ति परीति- समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थं साध्वादिभिः सह्यन्त इति परीषहास्ते च द्वाविंशतिरिति 'दिगिंछ 'त्ति बुभुक्षा सैव परीषह:तपोऽर्थःमनेषणीयभक्तपरिहारार्थं वा मुमुक्षुणा परिषह्यमाणत्वात् दिगिंछापरीसहेत्ति, एवं पिपासापरीसहोऽपि, यावच्छब्दलब्धं सव्याख्यानमेवं दृश्यं 'सीयपरीसहे उसिणपरीसहे' शीतोष्णे परीषही आतापनार्थं शीतोष्णबाधायामप्यग्निसेवास्नानाद्यकृत्यपरिवर्जनार्थं वा मुमुक्षुणा तयोः परिषह्यमाणत्वात् एवमुत्तरत्रापि, 'दंसमसगपरीसहे' दंश मशकाश्च चतुरिन्द्रियविशेषाः, उपलक्षणत्वाश्चैषां युकामत्कुणमक्षिकादिपरिग्रहः, परीषहता चैतेषां देहव्यथामुत्पादयत्स्वपि तेष्वनिवारणभयद्वेषाभावतः ।
'अचेलपरीसहे' चेलानां वाससामभावोऽचेलं तच्च परीषहोऽचेलतायां जीर्णापूर्णमलिनादिचेलत्वे च लज्जादैन्याकाङ्क्षाद्यकरणेन परिषह्यमाणत्वादिति, 'अरइपरीसहे' अरति मोहनीयजो मनोविकारः सा च परीषहस्तन्निषेधनेन सहनादिति 'इत्थियापरीसहे' स्त्रियाः परीषहः २ तत् परीषहणंच तन्निरपेक्षत्वं ब्रह्मचर्यमित्यर्थः 'चरियापरीसहे' चर्या ग्रामनगरादिषुसंचरणं ततपरिषहणं चाप्रतिबद्धतया तत्करणं 'निसीहियापरीसहे' नैषेधिकी स्वाध्यायभूमि सून्यागारादिरूपा तत्परिषहणं च तत्रोपसर्गेष्वत्रासः ‘सेज्जापरीहे' शय्या-वतिस्तत्परिषहणं च तज्जन्यदुःखादेरुपेक्षा 1
'अक्कोसपरीसहे' आक्रोशो- दुर्वचनं 'वहपरीसहे' व्यधो वधे वा यष्ट्यादिताडनं तत्परीषहणं च क्षान्त्यवलम्बनं 'जायणापरीसहे' याञ्चा भिक्षणं तत्परिषहणं च तत्र मानवर्जनम् 'अलाभपरीसहे' अलाभः प्रतीतस्तत्परिषहणं च तत्र दैन्याभावः 'रोगपरीसहे' रोगो- रुक् तत्परिषहणं च तपीडासहनं चिकित्सावर्जनं च 'तणफासपरीसहे' तृणस्पर्श-कुशादिस्पर्शस्तत्परिषहणं च कादाचित्कतृणग्रहणे तत्संस्पर्शजन्यदुःखाधिसहनं 'जल्लपरीसहे' जल्लो-मलस्तत्परिषहणं च देशतः सर्वतो वा स्नानोद्वर्त्तनादिवर्जनं 'सक्कारपुरक्कारपरीसहे' सत्कारो - वस्त्रादिपूजा पुरस्कारो - राजादिकृताभ्युत्थानादिस्तत्परिषहणं च तत्सद्भावे आत्मोत्कर्षवर्जनं तदभावे दैन्यवर्जनं तदनाकाङ्क्ष चेति ।
'पन्नापरीसहे' प्रज्ञा- मतिज्ञानविशेषस्तत्परिषहणं च प्रज्ञाया अभावे उद्वेगाकरणं तद्भावे च मदाकरणं 'नाणपरीसहे' ज्ञानं मत्यादि तत्परिषहणं च तस्य विशिष्टस्य सद्भावे मदवर्जनमभावे च दैन्यपरिवर्जनं, ग्रन्थान्तरे त्वज्ञानपरीषह इति पठ्यते, 'दंसणपरीसहे' दर्शनं-तत्त्वश्रद्धानं तत्परिषहणं च जिनानां जिनोक्तसूक्ष्मभावानां चाश्रद्धानवर्जनमिति ।
'कइसु कम्मपयडीसु समोयरंति' त्ति कतिषु कर्म्मप्रकृतिषु विषये परीषहाः समवतारं व्रजन्तीत्यर्थः ' पण्णापरीसहे त्यादि प्रज्ञापरीषहे ज्ञानावरणेमतिज्ञानावरणरूपे समवतरति, प्रज्ञाया अभावमाश्रित्य तदभावस्य ज्ञानवरणोदयसम्भवत्वात्, यत्तु तदभावे दैन्यपरिवर्जनं तत्सद्भावे च मानवर्जनं तच्चारित्रमोहनीयक्षयोपशमादेरिति एवं ज्ञानपरीषहोऽपि नवरं मत्यादिज्ञानावरणेऽवतरति, 'पंचे' त्यादिगाथा |
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org