________________
भगवती अङ्गसूत्रं ८//८/४१४
बन्धस्येहाभावात्, यस्तु मोहोपशमनिर्ग्रन्थस्य समयानन्तरमरणेनैर्यापथिककर्मबन्धः समयमात्रो भवति नासी षष्ठविकल्पहेतुः, तदनन्तरैर्यापथिककर्मबन्धाभावस्य भावान्तरवर्तित्वाद्गृहणाकर्षस्य चेह प्रक्रान्तत्वात्, यदि पुनः सयोगिचरमसमये बध्नाति ततोऽनन्तरं न भनत्स्यतीति विवक्ष्येत तदा यत्सयोगिचरमसमये बघ्नातीति तद्बन्धपूर्वकमेव स्यानाबन्धपूर्वकं, तत्पूर्वसमये तस्य बन्धकत्वात्, एवं च द्वितीय एव भङ्गः स्यान्न पुनः षष्ठ इति ६, सप्तमः पुनर्भव्यविशेषस्य ७, अष्टमस्त्वभव्यस्येति ८
४१२
इह च भवाकर्षापेक्षेष्वष्टसु भङ्गकेषु 'बंधी बंधइ बंधिस्सइ' इत्यत्र प्रथमे भङ्गे उपशान्तमोहः, 'बंधी बंधइ न बंधिस्सइ' इत्यत्र चतुर्थे शैलेशीगतः, 'न बंधी न बंधइ बंधिस्सइ' इत्यत्र सप्तमे भव्यः, 'न बंधी न बंधइ न बंधिस्सइ' इत्यत्राष्टमेऽभव्यः, ग्रहणाकर्षापेक्षेषु पुनरेतेष्वेव प्रथमे उपशान्तमोहः क्षीणमोहोवा, द्वितीये तु केवली, तृतीये तूपशान्तमोहः, चतुर्थे शैलेशीगतः पञ्चमे उपशान्तमोहः क्षीणमोहो वा, षष्ठः शून्यः, सप्तमे भव्यो भाविमोहोपशमो भाविमोहक्षयो वा, अष्टमे त्वभव्य इति ।
अथैर्यापथिकबन्धमेव निरूपयन्नाह - 'त' मित्यादि, 'तत' एर्यापथिकं कर्म्म 'साइयं सपज्जवसियंमित्यादि चतुर्भङ्गी तत्र चैर्यापथिककर्मणः प्रथम भने बन्धोऽन्येष तदसम्भवादिति' 'त' मित्यादि, 'तत्' एर्यापथिकं कर्म 'देसेणं देसं' ति 'दशेन' जीवदेशेन 'देश' कम्मपदेशं बघ्नातीत्यादि चतुर्भङ्गी, तत्र च देशेन कर्म्मणो देशः सर्वं वा कर्म्म सर्वात्मना वा कर्म्मणो देशो न बध्यते, किं तर्हि सर्वात्मना सर्वमेव बध्यते, तथास्वभावत्वाज्जीवस्येति ।
अथ साम्परायिकबन्धनिरूपणायाह
सू. (४१५) संपराइयन्नं भंते! कम्मं किं नेरइयो बंधइ तिरिक्खजोणीओ बंधइ जाव देवी बंधइ ?, गोयमा ! नेरइओवि बंधइ तिरिक्खजोणी ओवि बंधइ तिरिक्खजोनिणीवि बंधइ मणुस्सोवि बंधइ मणुस्सीवि बंधइ देवोवि बंधइ देवीवि बंधइ ।
तं भंते! किं इत्थी बंधइ पुरिसो बं० तहेव जाव नोइत्थीनोपुरिसोनोनपुंसओ बंधइ ?, गोयमा ! इत्थीवि बं० पुरिसोवि बंधइ जाव नपुंसगोवि बंधइ अहवेए य अवगयवेदो य बंधइ अहवेए य अवगयवेया य बंधइ ।
जइ भंते! अवगयवेदो य बंधइ अवगयवेदा य बंधन्ति तं भंते! किं इत्थीपच्छाकडो बंधइ पुरिसपच्छाकडो बंधइ ? एवं जहेव अवगयवेदो य बंधइ अवगयवेदाय बंधन्ति तं भंते ! किं इत्थीपच्छाकडो बंधइ पुरिसपच्छाकडो बंधइ ? एवं जहेब इरियावहियाबंधगस्स तहेव निरवसेसं जाव अहवा इत्थीपच्छाकडा य पुरिसपच्छाकडा य (बंधइ) नपुंसगपच्छाकडा य बंधति ।
तं भंते! किं बंधी बंधइ बंधिस्सइ १ बंधी बंधइ न बंधिस्सइ २ बंधी न बंधइ बंधिस्सइ ३ बंधी न बंधइन बंधिस्सइ ४ ?, गोयमा ! अत्येगतिए बंधी बंधइ बंधिस्सइ १ अत्येगतिए बंधी बंधइ न बंधिस्सइ २ अत्थेगतिए बंधी न बंधइ बंधिस्सइ ३ अत्थेगतिए बंधी न बंधइ न बंधिस्सइ तं भंते! किं साइयं सपज्जवसियं बंधइ ? पुच्छा तहेच, गोयमा ! साइयं वा सपज्जवसियं बंधइ अणाइयं वा सपज्जवसियं बंधइ अणाइयं वा अपज्जवसियं बंधइ णो चेव णं साइयं अपज्जवसियं बंधइ । तं भंते! किं देसेणं देसं बंधइ एवं जहेब ईरियावहियाबंधगस्स जाव सव्वेणं सव्वं बंधि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org