________________
शतकं-८, वर्गः:, उद्देशकः-८
४११ प्रतिपद्यमानकानां तु सामयिकत्वाद् विरहभावेनैकादिसम्भवाद्विकल्पद्वयमत एवाह'पडिवज्जमाणे त्यादि।
अपगतवेदमैर्यापथिकबन्धमाश्रित्य स्त्रीत्वादिभूतभावापेक्षया विकल्पयन्नाह 'जईत्यादि, 'तंभंते! तदा भदन्त! तद्वा कर्म 'इत्थीपच्छाकडे'त्तिभावप्रधानत्वानिर्देशस्यस्त्रीत्वं पश्चात्कृतंभूततां नीतं येनावेदकेनासौ स्त्रीपश्चात्कृतः, एवमन्यान्यपि, इहैककयोगे एकत्वबहुत्वाभ्यां षड् विकल्पाः द्विकयोगे तु तथैव द्वादश त्रिकयोगे पुनस्तथैवाष्टी, एते च सर्वे षडविंशति, इयं चैषां स्थापना-स्त्री पु०१ न०१ स्त्री ३ पु०३ न०३।
सूत्रेनचतुर्भङ्गयष्टमङ्गीनांप्रथमविकल्पादर्शिताःसन्तिमश्चेति अथैर्यापथिकर्मबन्धनमेवकालत्रयेण विकल्पयन्नाह-'तं भंते!' इत्यादि, 'तद् एपिथिकं कर्म 'बंधी तिबद्धवान् बघ्नाति मन्स्यति चेत्येको विकल्पः, एवमन्येऽपि सप्त, एषां च स्थापना । उत्तरंतु 'भवे' त्यादि, भवे अनेकत्रोपशमादिश्रेनिप्राप्तयाआकर्ष-एपिथिक कर्माणुग्रहणं भवाकर्षस्तंप्रतीत्य अस्त्यैकः' भवत्येकः कश्चिजीवः प्रथमवैकल्पिकः, तथा हि
पूर्वभवे उपशान्तमोहत्वे सत्यैर्यापथिकं कर्म बद्धवान् वर्तमानभवे चोपाशान्तमोहत्वे बध्नातिअनागते चोपशान्तमोहावस्थायांभन्स्यतीति द्वितीयस्तुयःपूर्वस्मिन्भवे उपशान्तमोहत्वं लब्धवान् वर्तमाने च क्षीणमोहत्वं प्राप्तः स पूर्वं बद्धवान् वर्तमाने च बघ्नाति शैलेश्यवस्थायां पुनर्न भन्स्यतीति २, तृतीयः पूर्वजन्मनि उपशान्तमोहत्वे बद्धवान् तत्प्रतिपतितो न बघ्नाति अनागते चोपशान्तमोहत्वं प्रतिपत्स्यते तदा भन्स्यतीति ३, चतुर्थःस्तुशैलेशीपूर्वकाले बद्धवान् शैलेश्यांचनवजातिनच पुनर्भन्स्यतीति४, पञ्चमस्तुपूर्वजन्मनि नोपशान्तमोहत्वंलब्धवानिति न बद्धवान् अघुना लब्धमिति बध्नाति पुनरप्येष्यत्काले उपशान्तमोहाद्यवस्थायां भन्स्यतीति पञ्चमः ५, षष्ठः पुनः क्षीणमोहत्वादि न लब्धवानिति न पूर्वं बद्धवान् अघुना तु क्षीणमोहत्वं लब्धमिति बजाति शैलेश्यवस्थायां पुनर्न भन्स्यतीति षष्ठः ६, स्तमः पुनर्भव्यस्य, स ह्यनादौ काले न बद्धवान् अघुनाऽपि कश्चिन्न बध्नाति कालान्तरे तु भनत्स्यतीति ७, अष्टमस्त्वभव्यस्य ८, स च प्रतीत एव। _ 'गहणागरिस'मित्यादि, एकस्मिन्नेव भवे एपिथिककर्मपुद्गलानां ग्रहणरूपो य आकर्षोऽसौ ग्रहणाकर्षस्तं प्रतीत्यास्त्येकः कश्चिजीवःप्रथमवैकल्पिकः, तथाहि-उपशान्तमोहादिर्यदा एर्यापथिकं कर्मबध्ध्या बघ्नाति तदाऽतीतसमयापेक्षया बद्धवान् वर्तमानसमयापेक्षया चबजातिअनागत-समयापेक्षया२, तृतीयस्तूपशान्तमोहत्वेबद्धवान् तत्प्रतिपतितस्तुनबध्नाति पुनस्तत्रैव भवे उपशमश्रेणी प्रतिपन्नो भन्स्यतीति, एकभवे चोपशमश्रेणी द्विवरिं प्राप्यत एवेति ३, चतुर्थः पुनः सयोगित्वे बद्धवन् शैलेश्यवस्थायां न बघ्नाति न च भन्स्यतीति ४, पञ्चमः पुनरायुषः पूर्वभागे उपशान्तमोहत्वादि न लब्धमिति न बद्धवान् अधुना तुलब्धमिति बध्नाति तदद्धाया एव चैष्यत्समयेषु पुनर्भन्स्यतीति ५।
षष्ठस्तु नास्त्येव, तत्र बद्धवान् बघ्नातीत्यनयोरुपपद्यमानत्वेऽपि न मन्त्स्यतीति इत्यस्यानुपपद्यमानत्वात्, तथाहि-आयुषः पूर्वभागेउपशान्तमोहत्वादिनलब्धिमितिन बद्धवान् तल्लाभसमये च बघ्नाति ततोऽनन्तरसमयेषु च भन्स्यत्येव न तु न भन्स्यति, समयमात्रस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org