SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ४०८ भगवती अङ्गसूत्रं ८//८/४१२ ज्ञानादीन् प्रति प्रत्यनीकः तेषां वितथप्ररूपणतो दूषणतो वा, यथा"पाययसुत्तनिबद्धं को वा जाणइ पणीय केणेयं । किं वा चरणेणं तु दाणेण विणा उ हवइत्ति ॥" || 9 || एते च प्रत्यनीका अपुनः करणेनाभ्युत्थिताः शुद्धिमर्हन्ति शुद्धिश्च व्यवहारादिति व्यवहार प्ररूपणायाह मू. (४१३) कइविहे णं भंते ! ववहारे पन्नत्ते ?, गोयमा ! पंचविहे ववहारे पन्नत्ते तंजहाआगमे सुत्तं आणा धारणा जीए, जहा से तत्थ आगमे सिया आगमेणं ववहारं पट्टवेज्जा, नो य से तत्थ आगमे सिया जहा से तत्थ सुते सिया सुएणं ववहारं पट्टवेज्जा, नो वा से तत्थ सुए सिया जहा से तत्थ आणा सिया आणाए ववहारं पट्टवेज्जा, नो य से तत्थ आणा सिया जहा से तत्थ धारणा सिया धारणाए णं ववहारं पट्टवेज्जा, नो य से तत्थ धारणा सिया जहा से तत्थ जीए सिया जीएणं ववहारं पट्टवेज्जा, इच्चेएहिं पंचहिं ववहारं पट्टवेज्जा, तंजहा आगमेणं सुएणं आणाए धारणाए जीएणं, जहा २ से आगमे सुए आणा धारणा जीए तहा २ ववहारं पट्टवेज्जा । से किमाहु भंते !, आगमबलिया समणा निग्गंथा इच्चेतं पंचविहं ववहारं जया २ जहिं २ तहा २ तहिं २ अनिस्सिओवसितं सम्मं ववहरमाणे समणे निग्गंथे आणाए आराहए भवइ । वृ. 'कइविहे ण' मित्यादि, व्यवहरणं व्यवहारो-मुमुक्षुप्रवृत्तिनिवृत्तिरूपः इह तु तन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यवहारः, तत्रागम्यन्ते - परिच्छिद्यन्ते अर्था अनेनेत्यागमः केवलमनः पर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः, तथा श्रुतं शेषमाचारप्रकल्पादि, नवादिपूर्वाणां च श्रुतत्वेऽप्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति, तथाSSज्ञा यदगीतार्थः स्य पुरतो गूढार्थः पदैर्देशान्तरस्थगीतार्थः निवेदनायातीचारालोचनं इतरस्यापि तथैव शुद्धिदानं, तथा धारणा - गीतार्थः संविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धि कृता तामवधारय यदगुप्तमेवालोचनदानतस्तत्रैव तथैव तामेव प्रयुङ्क्ते इति वैयावृत्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषानुचितस्य प्रायश्चित्तपदानां प्रदर्शितानां धरणमिति, तथा जीतं द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवानुवृत्या संहननधृत्यादिपरिहानिमवेक्ष्य यत् प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्त्तितो बहुभिरन्यैश्चानुवर्त्तित इति । आगमादीनां व्यापारणे उत्सर्गापवादावाह 'जहे' त्यादि, यथेति यथाप्रकारः केवलादीनामन्यतमः ' से' तस्य व्यवहर्तु स चोक्तलक्षणो व्यवहारः 'तत्र' तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रयाश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये 'आगमः ' केवलादि 'स्यात्' भवेत् ताद्दशेनेति शेषः आगमेन 'व्यवहारं' प्रायश्तित्तदानादिकं 'प्रस्थापयेत्' प्रवर्त्तयेत् न शेषः आगमेऽपि षडूविधे केवलेनावन्ध्यबोधतिवात्तस्य, तदभावे मनः पर्यायेण, एवं प्रधानत राभावे इतरेणेति । अथ 'नो' नैव चशब्दो यदिशब्दार्थः 'से' तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात्, 'यथा' यठाकारं 'से' तस्य तत्र व्यवहर्त्तव्यादौ श्रुतं स्यात् ताद्दशेन श्रुतेन व्यवहारं प्रस्थापयेदिति, 'इच्चे हिं' इत्यादि निगमनं सामान्येन, 'जहा जहा से' इत्यादि तु विशेषनिगमनमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy