SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३८८ भगवतीअङ्गसूत्रं ८/-/२/३९६ तेभ्योऽवधिज्ञानपर्याय अनन्तगुणाः, मनःपयायज्ञानापेक्षयाऽवधिज्ञानस्यद्रव्यपर्यायतोऽनन्तगुणविषयत्वात्, तेभ्यः श्रुतज्ञानपर्यायाअनन्तगुणाः, ततस्तस्य रूप्यरूपिद्रव्यविषयत्वेनान्तगुणविषयत्वात्, ततोऽप्याभिनिबोधिकज्ञानपर्याया अनन्तगुणाः, ततस्तस्याभिलाप्यानभिला प्यद्रव्यादिविषयत्वेनानन्तगुणविषयत्वात्, ततःकेवलज्ञानपर्याया अनन्तगुणाः, सर्वद्रव्यपर्यायाविषयत्वात्तस्येति। एवमज्ञाननसूत्रेऽप्यल्पबहुत्वकारणं सूत्रानुसारेणोहनीयं, मिश्रसूत्रे तु स्तोका मनपर्यायज्ञानपर्यवाः, इहोपपत्तिप्राग्वत्, तेभ्योविभङ्गज्ञानपर्यवाअनन्तगुणाः, मनःपर्यायज्ञानापेक्षया विभङ्गस्यबहुतमविषयत्वात्, तथाहि-विभङ्गज्ञानमूवधि उपरिमनवेयकादारभ्य सप्तमपृथिव्यन्ते क्षेत्रे तिर्यक् चासङ्ख्यातद्वीपसमुद्ररूपे क्षेत्रेयानि रूपिद्रव्यानि तानि कानिचिज्जानाति कांश्चित्तत्प यांश्च, तानिचमनः-पर्यायज्ञानविषयापेक्षयाऽनन्तगुणानीति, तेभ्योऽवधिज्ञानपर्यवा अनन्तगुणाः, अवधेः सकलरूपिद्रव्यप्रतिद्रव्यासङ्ख्यातपर्यायविषयत्वेन विभङ्गापेक्षया अनन्तगुणविषयत्वात्, तेभ्योऽपि श्रुताज्ञानपर्यवाअनन्तगुणाः, श्रुताज्ञानस्य श्रुतज्ञानवदोघादेशेन समस्तमूर्त्तामूलद्रव्यसर्वपर्यायविषयत्वेनावधिज्ञानापेक्षयाऽनन्तगुणविषयत्वात्, तेभ्यः तेभ्योऽपि मत्यज्ञानपर्यवाअनन्तगुणाः, यतः श्रुतज्ञानमभिलाप्यवस्तुविषयमेव, मत्यज्ञानंतुतदनन्तगुणानभिलाप्यवस्तुविषयमपीति, ततोऽपि मतिज्ञानपर्यवा विशेषधिकाः, केषाञ्चिदपिमत्यज्ञानाविषयीकृतभावानां विषयीकरणात्, तद्धिमत्यज्ञानापेक्षया स्फुटतरमिति, ततोऽपि केवलज्ञानपर्यवा अनन्तगुणाः, सर्वाद्धाभाविनां समस्तद्रव्यपर्यायाणामनन्यसाधारणावभासनादिति ॥ शतकं-८ उद्देशकः-२ समाप्तः -:शतकं-८ उद्देशकः-३:वृ. अनन्तरमाभिनिबोधिकादिकं ज्ञानं पर्यवतः प्ररूपितं, तेन च वृक्षादयोऽर्था ज्ञायन्तेऽतस्तृतीयोद्देशके वृक्षविशेषानाह मू. (३९७) कइविहा णं भंते ! रुक्खा पनत्ता?, गोयमा ! तिविहा रुक्खा पन्नत्ता, तंजहा-संखेजजीविया असंखेज्जजीविया अनंतजीविया। से किंतंसंखेज्जजीविया?, संखे० अनेगविहा पन्नत्ता, तंजहा-ताले तमाले तक्कलितेतलि जहा पन्नवणाए जाव नालिएरी, जे यावन्ने तहप्पगारा, सेत्तं संखेजजीविया। से किं तं असंखेजजीविया ?, असंखेज्जजीविया दुविहा पन्नता, तंजहा-एगट्टिया य बहुबीयगाय। से किंतं एगट्ठिया?, २ अनेगविहा पन्नत्ता, तंजहा-निबंधजंबू० एवं जहा पनवणापए जाव फला बहुबीयगा, सेतं बहुबीयगा, सेत्तं असंखेजजीविया। सेकिंतंअनंतजीविया?, अंतजीविया अनेगविहा पन्नत्ता, तंजहा-आलुए मूलए सिंगबेरे, एवं जहा सत्तमसए जाव सीउण्हे सिउंढी, जे यावन्ने त० सेत्तं अनंतजीविया॥ वृ. 'कई त्यादि, 'संखेञ्जजीविय'त्ति सङ्ख्याता जीवा येषु सन्ति ते सझ्यातजीविकाः, एवमन्यदपिपदद्वयं, 'जहा पन्नवणाए'त्तियथा प्रज्ञापनायां तथाऽत्रेदं सूत्रमध्येयं, तत्रचैवमेतत् Jain Education International For For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy