________________
शतकं ८, वर्ग:-, उद्देशकः - २
पदार्थानन्तपर्यायास्ते तस्य परपर्यायास्ते च स्वपर्यायेभ्योऽनन्तगुणाः परेषामनन्तगुणत्वादिति, ननु यदि ते परपर्यायास्तदा तस्येति न व्यपदेष्टुं युक्तं, परसम्बन्धित्वात्, अथ तस्य ते तदा न परपर्यायास्ते व्यपदेष्टव्याः, स्वसम्बन्धित्वादिति, अत्रोच्यते, यस्मात्तत्रासम्बद्धास्ते तस्मात्तेषां परपर्यायव्यपदेशः, यस्माच्च ते परित्यज्यमानत्वेन तथा स्वपर्यायाणां स्वपर्याया एते इत्येवं विशेषणहेतुत्वेन च तस्मिन्नुपयुज्यन्ते तस्मात्तस्य पर्यवा इति व्यपदिश्यन्ते, यथाऽसम्बद्धमपि धनं स्वधनं उपयुज्यमानत्वादिति, आह च
119 11
"जइ ते परपज्जाया न तस्स अह तस्स न परपज्जाया । जं तंमि असंबद्धा तो परपज्जायववएसी ॥ चायसपज्जावविसेसणाइणा तस्स जमुवजुञ्जंति । सधणमिवासंबद्धं हवंति तो पज्जवा तस्स ॥ त्ति ।
‘केवइयाणं भंते! सुयनाणे’त्यादौ, 'एवं चेव' त्ति अनन्ताः श्रुतज्ञानपर्यायाः प्रज्ञप्ता इत्यर्थः, तेच स्वपर्यायाः परपर्यायाश्च, तत्र स्वपर्याया ये श्रुतज्ञानस्य स्वतोऽक्षर श्रुतादयो भेदास्ते चानन्ताः क्षयोपशमवैचित्र्यविषयानन्त्याभ्यां श्रुतनुसारिणां बोधानामनन्तत्वात् अविभाग-पलिच्छेदानन्त्याच्च, परपर्यायास्त्वनन्ताः सर्वभावानां प्रतीता एव, अथवा श्रुतं ग्रन्थनुसारि ज्ञानं श्रुतज्ञानं, श्रुतग्रन्थश्चाक्षरात्मकः, अक्षराणि चाकारादीनि तेषां चैकैकमक्षरं यथायोगमुदात्तानुदात्तस्वरितभेदात् सानुनासिकनिरनुनासिकभेदात् अल्पप्रयनमहाप्रयत्नभेदादिमिश्च संयुक्तसंयोगा- संयुक्तसंयोगभेदात् द्वयादिसंयोगभेदादभिधेयानन्त्याच्च भिद्यमानमनन्तभेदं भवति, ते च तस्य स्वपर्यायाः, परपर्यायाश्चान्येऽनन्ता एव, एवं चानन्तपर्यायं तत्, आह च
119 11
॥२॥
३८७
"एक्केकमक्खरं पुण सपरपज्जायभेयओ भिन्नं । तं सव्वदव्वपज्जायरासिमाणं मुणेयव्वं ॥ जे भइ केवल से सवन्नसहिओ य पज्जवेऽगारो | ते तस्स सपज्जाया सेसा परपज्जवा तस्स " त्ति
एवं चाक्षरात्मकत्वेनाक्षरपर्यायोपेतत्वादनन्ताः श्रुतज्ञानस्य पर्याया इति, एवं जाव' त्तिकरणादिदं ६श्यं - 'केवइयाणं भंते ! ओहिनाणपञ्जवा पन्नत्ता ?, गोयमा ! अनंता ओहिना - पञ्जवा पत्ता । केवइया णं भंते! मणपजवनाणपजवा पत्ता?, गोयमा ! अनता मणजवनाणपज्जवा पन्नत्ता । केवइयाणं भंते! केवलनाणपञ्जवा पन्नत्ता ?, गोयमा ! अनंता केवलनाणपञ्जवा पनत्ता' इति, तत्रावधिज्ञानस्य स्वपर्याया येऽवधिज्ञानभेदाः सभवप्रत्ययक्षायोपशमिकभेदात् नारकतिर्यगमनुष्यदेवरूपतत्स्वामिभेदाद् असङ्ख्यात्भेदतद्विषयभूतक्षेत्रकालभेदाद् अनन्तभेदतद्विषयद्रव्यपर्यायभेदादविभागपलिच्छेदाच्च ते चैवमनन्ता इति, मनः पर्यायज्ञानस्य केवलज्ञानस्य च स्वपर्याया ये स्वाम्यादिभेदेन स्वगता विशेष्यास्ते चानन्ता अनन्तद्रव्यपर्यायपरिच्छेदापेक्षयाऽ विभागपलिच्छेदापेक्षया वेति, एवं मत्यज्ञानादित्रयेऽप्यनन्तपर्यायत्वमूह्यमिति । अथ पर्यवाणामेवाल्पबहुत्वनिरूपणायाह-
'एएसि ण' मित्यादि, इह च स्वपर्यायापेक्षयैवैषामल्पबहुत्वमवसेयं, स्वपर्यायापेक्षया तु सर्वेषां तुल्यपर्यायत्वादिति, तत्र सर्वस्तोका मनः पर्यायज्ञानपर्यायास्तस्य मनोमात्रविषयत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
॥२॥