SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३८६ भगवतीअङ्गसूत्रं ८/-/२/३९६ परस्परेणाज्ञानिनांच ज्ञान्यज्ञानिनांचयथाऽल्पबहुत्ववक्तव्यतायांप्रज्ञापनासम्बन्धिन्यामभिहितानि तथा वाच्यानीति, तानि चैवम्-'एएसि णं भंते ! जीवाणं आभिनिबोहियनाणीणं ५ कयरे २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वस्थोवाजीवामणपज्जवनाणी ओहिनाणी असंखेजगुणा आभिनिबोहियनाणी सुयनाणी दोवि तुल्ला विसेसाहिया केवलनाणी अनंतगुणा' इत्येकम् ११ _ 'एएसिणं भंते ! जीवाणं मइअन्नाणीणं ३ कयरे २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा जीवा विभंगनाणी मइअन्नाणी सुयअन्नाणी दोवि तुल्ला अनंतगुणा' इति द्वितीयम् २ । एएसिणंभंते ! जीवाणं आभिनिबोहियनाणीणं ५ मइअन्नाणीणं ३ कयरे २ हिंतो जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवाजीवा मणपज्जवणाणीओहिनाणी असंखेजगुणा आभिनिबोहियनाणीसुयनाणीयदोवितुल्ला विसेसाहिया विभंगनाणी असंखेजगुणा केवलनाणी अनंतगुणा मइअन्नाणी सुयअन्नाणी दोवि तुल्लाअनंतगुण'त्ति, तत्र ज्ञानिसूत्रे स्तोका मनःपर्यायज्ञानिनो यस्माद्धिप्राप्तादिसंयतस्यैव तद्भवति, अवधिज्ञानिनस्तुचतसृष्वपिगतिषु सन्तीति तेभ्योऽसङ्खयेयगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्चान्योऽन्यं तुल्याः, अवधिज्ञानिभ्यस्तु विशेषाधिकाः, यतस्तेऽवधिज्ञानिनोऽपिमनःपर्यायज्ञानिनोऽपिअवधिमनःपर्यायज्ञानिनोऽपिअवध्यादिरहिताअपि पञ्चेन्द्रिया भवन्ति सास्वादनसम्यग्दर्शनसद्भावे विकलेन्द्रिया अपिच मतिश्रुतज्ञानिनो लभ्यन्त इति, केवलज्ञानिनस्त्वनन्तगुणाः, सिद्धानां सर्वज्ञानिभ्योऽ. नन्तगुणत्वात्। अज्ञानिसूत्रेतुविभङ्गज्ञानिनः स्तोकाः, यस्मात्पञ्चेन्द्रियाएव ते भवन्ति, तेभ्योऽनन्तगुणा मत्यज्ञानिनः श्रुताज्ञानिनः, यतोमत्यज्ञानिनःश्रुताज्ञानिनश्चैकेन्द्रियाअपीतिनतेभ्यस्तेऽनन्तगुणाः, परस्परतश्च तुल्याः। तथा मिश्रसूत्रेस्तोका मनःपर्यायज्ञानिनः, अवधिज्ञानिनस्तुतेभ्योऽसद्धेययगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्चान्योऽन्यं तुल्याः प्राक्तनेभ्यश्च विशेषाधिकाः, इह युक्तिपूर्वोक्तेव, आभिनिबोधिकज्ञानिश्रुतज्ञानिभ्यो विभङ्गज्ञानिनोऽसद्धेययगुणाः, कथम् उच्यते, यतः सम्यग्भ्रष्टिभ्यः सुरनारकेभ्यो मिथ्याध्ष्टयस्तेऽसङ्खयेयगुणा उक्तास्तेन विभङ्गज्ञानिन आमिनिबोधिकज्ञानिःश्रुतज्ञानिभ्योऽसङ्घयेयगुणाः, केवलज्ञानिनस्तुविभङ्गज्ञानिभ्योऽनन्तगुणाः, सिद्धानामेकेन्द्रियवर्जसर्वजीवेभ्योऽनन्तगुणत्वात्, मत्यज्ञानिनः श्रुताज्ञानिनश्चान्योऽन्यं तुल्याः, केवलज्ञानिभ्यस्त्वनन्तगुणाः, वनस्पतिष्वपि तेषां भावात्, तेषांच सिद्धेभ्योऽप्यनन्तगुणत्वादिति अथ पर्यायद्वारे- 'केवइया'इत्यादि, आभिनिबोधिकज्ञानस्य पर्यवा:-विशेषधा आभिनिबोधिकज्ञानपर्यवाः, तेच द्विविधाः स्वपरपर्यायभेदात्, तत्र येऽवग्रहादयो मतिविशेषाः क्षयोपशमवैचित्र्यात्ते स्वपर्यायास्ते चानन्तगुणाः, कथम् ?, एकस्मादवग्रहादेरन्योऽवग्रहादिरनन्तभागवृद्धया विशुद्धः १ अन्यस्त्वसङ्ख्येयभागवृद्धया २ अपरः सङ्ख्येयभागवृद्धया ३ अन्यतरः सङ्ख्येयगुणवृद्धया ४ तदन्योऽसङ्ग्येयगुणवृद्धया ५ अपरस्त्वनन्तगुणवृद्धया ६ इति, एवंच सङ्ग्यातस्य सङ्ग्यातभेदत्वादसंख्यातस्य चासङ्ख्यातभेदत्वादनन्तस्य चानन्तभेदत्वादनन्ता विशेषा भवन्ति, अथवा तज्ज्ञेयस्यानन्तत्वात् प्रतिज्ञेयं च तस्य भिद्यमानत्वात् अथवा मतिज्ञानमविभागपरिच्छेदैर्बुद्ध्या छिद्यमानमनन्तखण्डं भवतीत्येवमनन्तास्तत्पर्यवाः, तथा ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy