________________
३८२
भगवती अङ्गसूत्रं ८/-/२/३९५
अथवा यद्यप्यभिलाप्यानां भावानामनन्तभाग एव श्रुतनिबद्धस्तथापि प्रसङ्गानुप्रसङ्गतः सर्वेऽप्यभिलाप्याः श्रुतविषया उच्यन्ते अतस्तदपेक्षया सर्वभावानजानातीत्युक्तम्, अनभिलाप्यभावापेक्षया तु "सुए चरित्ते न पञ्जवा सव्वे" इत्युक्तमिति न विरोधः । 'दव्वओ णमित्यादि, अवधिज्ञानी रूपिद्रव्यानि पुद्गलद्रव्याणीत्यर्थः, तानि च जघन्येनानन्तानि तैजसभाषाद्रव्याणामपान्तरालवत्तनि, यत उक्तं-‘“तेयाभासादव्वण अंतरा एत्थ लभति पट्टवओ"त्ति, उत्कृष्टतस्तु सर्वबादरसूक्ष्मभेदभिन्नानि जानाति विशेषाकारेण, ज्ञानत्वात्तस्य ।
,
पश्यति सामान्याकारेणावधिज्ञानिनोऽवधिदर्शनस्यावश्यम्भावात्, नन्वादी दर्शनं ततो ज्ञानमिति क्रमस्तत्किमर्थःमेनं परित्यज्य प्रथमं जानातीत्युक्तम् ? अत्रोच्यते, इहावधिज्ञानाधिकारात्, प्रधान्यख्यापनार्थः मादौ जानातीत्युक्तम्, अवधिदर्शनस्य त्ववधिविभङ्गसाधारणत्वेनाप्रधानत्वात् पश्चात्पश्यतीति, अथवा सर्वा एव लब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्ते लब्धिश्चावधिज्ञानमिति साकारोपयोगोपयुक्तस्यावधिज्ञानलब्धिर्जायते इत्येतस्यार्थःस्य ज्ञापनार्थं साकारोपयोगाभिधायकं जानातीति प्रथममुक्तं ततः क्रमेणोपयोगप्रवृत्तेः पश्यतीति ।
'जहा नंदीए 'त्ति, एवं च तत्रेदं सूत्रं - 'खेत्तओणं ओहिनाणी जहन्त्रेणं अंगलस्स असंखेज्जइभागं जाणइ पासइ' इत्यादि, व्याख्या पुनरेवं- क्षेत्रतोऽवधिज्ञानी जघन्येनाङ्गुलस्यासङ्घयेयभागमुत्कृष्टतोऽसङ्घयेयान्यलोके शक्तिमपेक्ष्य लोकप्रमाणानि खण्डानि जानाति पश्यति, कालतोऽवधिज्ञानी जघन्येनावलिकाया असङ्घयेयं भागमुत्कृष्टतोऽसङ्घयेया उत्सर्पिण्यवसर्पिणीरतीता अनागताश्च जानाति पश्यति, तद्गतरूपिद्रव्यावगमात्, अथ कियद्दूरं यावदिह नन्दीसूत्रं वाच्यम्
इत्याह -
'जाव भावओ'त्ति भावाधिकारं यावदित्यर्थः, स चैवं भावतोऽवधिज्ञानी जघन्येनान्तान् भावानाधारद्रव्यानन्तत्वाज्ञ्जानाति पश्यति, न तु प्रतिद्रव्यमिति, उत्कृष्टतोऽप्यनन्तान् भावान् जानाति पश्यति च तेऽपि चोत्कृष्टपदिनः सर्वपर्यायाणामनन्तभाग इति, 'उज्जुमइ'त्ति मननं मतिः संवेदनमित्यर्थः ऋ ज्वी सामान्यग्राहिणी मति ऋ जुमति-घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धना मनोद्रव्यपरिच्छित्तिरित्यर्थः, अथवा ऋज्वी मतिर्यस्यासावृजुमतिस्तद्वानेव गृह्यते, 'अनंते'त्ति 'अनन्तान्' अपरिमितान् 'अनंतपएसिए' त्ति अनन्तपरमाण्वात्मकान् ।
'जहा नंदीए 'त्ति, तत्र चेदं सूत्रमेवं- 'खंदे जाणइ पासइ' त्तितत्र 'स्कन्धान्' विशिष्टैकपरिणामपरिणतान् सञ्ज्ञिभिः पर्याप्तकैः प्रानिभिरर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्तिभिर्मनस्त्वेन परिणामितानित्यर्थः, 'जाणइ'ति मनःपर्यायज्ञानावरणक्षयोपशमस्य पटुत्वात्साक्षात्कारेण विशेषभूयिष्ठपरिच्छेदात् जानातीत्युच्यते, तदालोचितं पुनरर्थं घटादिलक्षणं मनः पर्यायज्ञानं स्वरूपाध्यक्षतो न जानाति किन्तु तत्परिणामान्यथाऽनुपपत्याऽतः पश्यतीत्युच्यते, उक्च भाष्यकारेण - "जाणइ बज्झेऽनुमाणाओ "त्ति, इत्थं चैतदङ्गीकर्त्तव्यं, यतो मूर्त्तद्रव्यालम्बनमेवेदं, मन्तारश्चामूर्त्तमपि धर्मास्तिकायादिकं मन्येरन्, न च तदनेन साक्षात् कर्तुं शक्यते, तथा चतुर्विधं च चक्षुर्दर्शनादि दर्शनमुक्तमतो भिन्नालम्बनमेवेदमवसेयं, तत्र च दर्शनसम्भवात्पश्यतीत्यपि न दुष्टम्, एकप्रमानपेक्षया तदनन्तरभावित्वाञ्च्चोपन्यस्तमित्यलमतिविस्तरेण ।
'ते चेव उ विउलमई अब्भहियतराए वितिमिरतराए विसुद्धतराए जाणइ पासइ' तानेव
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International