SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ शतकं ८, वर्ग:-, उद्देशकः - २ ॥१॥ पेक्षयाऽवबुध्यते, अवग्रहेहयोर्दर्शनत्वात्, आह च भाष्यकारः-"नाणमवायधिईओ दंसणमिट्टं जहो ग्गहेहाओ । तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ।।" तथा - "जंसामन्नग्गहणं दंसणमेयं विसेसियं नाणं" अवग्रहेहे च सामान्यार्थः ग्रहणरूपे अवायधारणे च विशेषग्रहणस्वभावे इति, नन्वष्टाविंश तिभेदमानमाभिनिबोधिकज्ञानमुच्यते । ३८१ ॥ २ ॥ यदाह - "आभिनिबोहियनागे अठ्ठावीसं हवंति पयडीओ"त्ति इह च व्याख्याने श्रोत्रादिभेदेन षडभेदतयाऽवायधारणयोर्द्वादशविदं मतिज्ञानं प्राप्तं, तथा श्रोत्रादिभेदेनैव षड्भेदतयाऽर्थावग्रहईहयो र्व्यञ्जनावग्रहस्य च चतुर्विधतया षोड्शविधं चक्षुरादिदर्शनमिति प्रप्तमिति कथं न विरोधः ?, सत्यमेतत् किन्त्वविक्षयित्वा मतिज्ञानचक्षुरादिदर्शनयोर्भेद मतिज्ञानमष्टाविंशतिधोच्यते इति पूज्या व्याचक्षत इति, 'खेत्तओ' त्ति क्षेत्रमा - श्रिरत्याभिनिबोधिकज्ञानविषयक्षेत्रं वाऽऽश्रित्य यदाभिनिबोधिकज्ञानं तत्र 'आदेसेणं' ति ओघतः श्रुतपरिकर्मिततया वा 'सव्वं खेत्तं' ति लोकालोकरूपम्, एवं कालतो भावतश्चेति, आहच भाष्यकारः“आएसोत्ति पगारो ओघादेसेण सव्वदव्वाई । धम्मत्थिकाइयाई जाणइ न उ सव्वभावेणं ॥ खेत्तं लोगालोगं कालं सव्वद्धमहच तिविहंपि । पंचोदइयाईए भावे जन्नेयमेवइयं ॥ आएसोत्ति व सुत्तं सुओवलद्धेसु तस्स मइनाणं । पसरइ तब्भावणया विणावि सुत्ताणुसारेणं ॥ इति 119 11 ॥ ३ ॥ इदं च सूत्रं नन्द्यामिहैव वाचनान्तरे 'न पासइति पाठान्तरेणाधीतम्, एवं च नन्दिटीकाकृता व्याख्यातम्-“आदेशः प्रकारः, स च सामान्यतो विशेषतश्च, तत्र द्रव्यजातिसामान्यादेशेन सर्वद्रव्यानि धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश इत्यादि, न पश्यति सर्वान् धर्मास्तिकायादीन्, शब्दादींस्तु योग्यदेशावस्थितान् पश्यत्यपीति,” 'उवउत्तेत्ति” भावश्रुतोपयुक्तो नानुपयुक्तः, स हि नाभिधानादभिधेयप्रतिपत्तिसमर्थो भवतीति विशेषणमुपात्तं, 'सर्वद्रव्यानि धर्मास्तिकायादीनि 'जानाति विशेषतोऽवगच्छति, श्रुतज्ञानस्य तत्स्वरूपत्वात्, पश्यति च श्रुतानुवर्त्तिना मानसेन अचक्षुर्दर्शनेन, सर्वद्रव्याणि चाभिलाप्यान्येव जानाति । पश्यति चाभिन्नदशपूर्वधरादिः श्रुतकेवली, तदारतस्तु भजना, सा पुनर्मतिविशेषतो ज्ञातव्येति, वृद्धैः पुनः पश्यतीत्यत्रेदमुक्तंननु पश्यतीति कथं?, कथंचन, सकलोगचरदर्शनायोगात् अत्रोच्यते, प्रज्ञापनायां श्रुतज्ञानश्यत्तायाः प्रतिपादितत्वादनुत्तरविमानादीनां चालेख्यकरणात् सर्वथा चादृष्टस्यालेख्यकरणानुपपत्तेः एवं क्षेत्रादिष्वपि भावनीयमिति, अन्ये तु 'न पासइ' त्ति पठन्तीति, ननु 'वओ णं सुयनाणी उवउत्ते सव्यभावे जाणइ' इति यदुक्तमिह तत् "सुए चरित्ते न पजवा सव्वे "त्ति । अनेन च सह कथं न विरुध्यते - 7 उच्यते, इह सूत्रे सर्वग्रहणेन पञ्चदयिकादयो भावा गृह्यन्ते, तांश्च सर्वान् जातितो जानाति, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy