SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ शतकं ८, वर्ग:-, उद्देशकः -२ यादिभावेन सिद्धभावेन वा, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनया । एवं छेदोपस्थापनीयादिष्वपि वाच्यम्, एतदेवाह - 'एव' मित्यादि, तत्र छेदोपस्थापनीयादिचरित्रत्रयलब्धयो ज्ञानिन एव, तेषां चाद्यानि चत्वारि ज्ञानानि भजनया, तदलब्धयो यथाख्यातचारित्रलब्धयश्च ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषामज्ञानत्रयं भजनयैव, यथाख्यातचारित्रलब्धिकानां तु विशेषोऽस्ति अतस्तद्दर्शनायाह ३७७ 'नवरं अहक्खाये'त्यादि, सामायिकादिचारित्रचतुष्टयलब्धिमतां छद्मस्थत्वेन चत्वार्येव ज्ञानानि भजनया, यथाख्यातचारित्रलब्धिमतां छद्मस्थेतरभावेन पञ्चापि भजनया भवन्तीति तेषां तथैव तान्युक्तानीति । 'चरित्ताचरिते' त्यादौ, 'तस्स अलद्विय'त्ति चरित्राचरित्रस्यालब्धिकाः श्रावकादन्ये, ते च ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनयैव ॥ 'दानलद्धी' त्यादि, दानान्तरायक्षयक्षयोपशमाद्दाने दातव्ये लब्भिर्येषां ते दानलब्धयः, ते च ज्ञानिनोऽज्ञानिनश्च तत्र ये ज्ञानिनस्तेषां पञ्च ज्ञानानि भजनया, केवलज्ञानिनामपि दानलब्धियुक्तत्वात्, ये त्वज्ञानिनस्तेषां त्रीण्यज्ञानानि भजनयैव, दानस्यालब्धिकास्तु सिद्धास्ते च दानान्तरायक्षयेऽपि दातव्याभावात् सम्प्रदानासत्त्वाद्दानप्रयोजनाभावाञ्च दानालब्धय उक्तास्ते च नियमात्केवलज्ञानिन इति । लाभभोगोपभोगवीर्यलब्धी: सेतरा अतिदिशन्नाह - 'एव' मित्यादि, इह चालब्धयः सिद्धानामेवोक्तन्यायादवसेयाः, ननु दानाद्यन्तरायक्षयात्केवलिनां दानादयः सर्वप्रकारेण कस्मान्न भवन्ति ? इति उच्यते, प्रयोजनाभावात्, कृतकृत्याहि ते भगवन्त इति ॥ 'बालवी रियलद्धियाण' मित्यादि, बालवीर्यलब्धयः - असंयताः तेषां च ज्ञानिनां त्रीनि ज्ञानानि अज्ञानिनां च त्रीण्यज्ञानानि भजनया भवन्ति, तदलब्धिकास्तु संयताः संयतासंयताश्च ते च ज्ञानिन एव, एतेषां च पञ्च ज्ञानानि भजनया । 'पंडियवीरिये' त्यादौ, 'तस्स अलद्धियाणं ति असंयतानां संयतासंयतानां सिद्धानां चेत्यर्थः, तत्रासंयतानामाद्यं ज्ञानत्रयमज्ञानत्रयं च भजनया, संयतासंयतानां तु ज्ञानत्रयं भजनयैव भवति, सिद्धानां तु केवलज्ञानमेव, मनः पर्यायज्ञानं तु पण्डितवीर्यलब्धिमतामेव भवति तान्येषामत उक्तं 'मणपज्जवे'त्यादि, सिद्धानां च पण्डितवीर्यालब्धिकत्वं पण्डितवीर्यवाच्ये प्रत्युपेक्षणाद्यनुष्ठाने प्रवृत्त्यभावात्, 'बालपंडिए' इत्यादी, तस्स अलद्धियाणं 'ति अश्श्रावकाणामित्यर्थः । 'इंदियलद्धियाण' मित्यादि, इन्द्रियलब्धिका ये ज्ञानिनस्तेषां चत्वारि ज्ञानानि भजनया, केवलं तु नास्ति तेषां केवलिन एवेत्येकमेव तेषां ज्ञानमिति । 'सोइंदिय' इत्यादि, श्रोत्रेन्द्रियलब्धय इन्द्रियलब्धि पुनः केवलिन एवेत्येकमेव तेषां ज्ञानमिति । 'सोइंदिय' इत्यादि, श्रोत्रेन्द्रियलब्धय इन्द्रियलब्धिका इव वाच्याः, तेच ये ज्ञानिनस्तेऽ केवलित्वादाद्यज्ञानचतुष्टयवन्तो भजनया भवन्ति, अज्ञानिनस्तु भजनयात्र्यज्ञानाः, श्रोत्रेन्द्रियालब्धिकास्तु ये ज्ञानिनस्ते आद्यद्विज्ञानिनः, तेऽपर्याप्तकाः सासादन सम्यग्दर्शिनो विकलेन्द्रियाः एकज्ञानिनो वा केवल ज्ञानिनः, ते हि श्रोत्रेन्द्रियालब्धिका इन्द्रियोपयोगाभावात्, ये त्वज्ञानितस्ते पुनराद्याज्ञानद्वयवन्त इति । 'चकिखंदिए' इत्यादि, अयमर्थः यथा श्रोत्रेन्द्रियलब्धिमतां चत्वारि ज्ञानानि भजनयत्रीणि - For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy