SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३७६ भगवतीअगसूत्रं ८/-/२/३९३ णलद्धी'त्यादि अवधिज्ञानलब्धिकास्त्रिज्ञानाः केवलमनःपर्यायासद्भावे चतुर्माना वा केवलाभावात्, अवधिज्ञानस्यालब्धिकास्तुयेज्ञानिनस्तेद्विज्ञानामतिश्रुतभावात्, त्रिज्ञानावामतुश्रुतमनः पर्यायभावात्, एकज्ञाना वा केवलभावात्, येत्वज्ञानिनस्ते द्वयज्ञानामत्यज्ञानश्रुताज्ञानभावात्, त्र्यज्ञाना वाऽज्ञानत्रयस्यापि भावात्। _ 'मनपज्जवे'त्यादि, मनःपर्यवज्ञानलब्धिकास्त्रिज्ञानाअवधिकेवलाभावात्, चतुर्माना वा केवलस्यैवाभावात्, मनः-पर्यवज्ञानस्यालब्धिकास्तु ये ज्ञानिनस्ते द्वि ज्ञाना आद्यद्वयभावात्, त्रिज्ञाना वाऽऽद्यत्रयभावात्, एकज्ञाना वा केवलस्यैव भावात्, ये त्वज्ञानिनस्ते द्वयज्ञाना आद्याज्ञानद्वयभावात्, त्र्यज्ञाना वाऽज्ञानत्रयस्यापि भावात् । 'केवलनाणे'त्यादि, केवलज्ञानलब्धिका एकज्ञानिनस्तेच केवलज्ञानिन एव, केवलज्ञानस्यालब्धिकास्तुये ज्ञानिनस्तेषामाचं ज्ञानद्वयं तत्त्रयंमतिश्रुतावधिज्ञानानिमति श्रुतमनःपर्यायज्ञानानि वा केवलज्ञानवर्जानि चत्वारि वा ज्ञानानि भवन्ति, ये त्वज्ञानिनस्तेषामाद्यज्ञानद्वयं तत्त्रयं वा भवतीत्येवं भजनाऽवसेयेति। 'अन्नाणलद्धियाण'मित्यादि,अज्ञानलब्धिकाअज्ञानिनस्तेषांचत्रीण्यज्ञानानि भजनया, द्वे अज्ञाने त्रीनि वाऽज्ञानानीत्यर्थः, अज्ञानालब्धिकास्तु ज्ञानिनस्तेषां च पञ्च ज्ञानानि भजनया पूर्वोपदर्शितया वाच्यानि, 'जहा अन्नाणे'त्यादि, अज्ञानलब्धिकानांत्रीण्यज्ञानानि भजनयोक्तानि मत्यज्ञानश्रुताज्ञानलब्धिकानामपि तानि तथैव, तथाऽज्ञानालब्धिकानां पञ्च ज्ञानानि भजनयोक्तानि, मत्यज्ञानश्रुताज्ञानालब्धिकानामपि पञ्च ज्ञानानि भजनयैव वाच्यानीति। _ 'विभंगे'त्यादि, विभङ्गज्ञानलब्धिकानां तु त्रीण्यज्ञानानि नियमात, तदलब्धिकानां तु ज्ञानिनां पञ्च ज्ञानानि भजनया, अज्ञानिनां च द्वे अज्ञाने नियमादिति ॥ "दंसणलद्धी'त्यादि, 'दर्शनलब्धिकः' श्रद्धानमात्रलब्धिका इत्यर्थः तेच सम्यकश्रद्धानवन्तोज्ञाननस्तदितरेत्वज्ञानिनः, तत्र ज्ञानिनांपञ्चज्ञानानि भजनया, अज्ञानिनांतुत्रीण्यज्ञानानि भजनयैवेति। तस्सअलद्धिया नत्पित्ति तस्य दर्शनस्य येषामलब्धिस्ते न सन्त्येव, सर्वजीवानां रुचिमात्रस्यास्तित्वादिति। ___ “सम्मइंसणलद्धियाण तिसम्यग्दृष्टीनां, 'तस्सअलद्धियाण'मित्यादि, तस्यालब्धिकानां' सम्यग्दर्शनस्यालब्धिमतां मिथ्यादृष्टीनांचत्रीण्यज्ञानानि भजनया, यतो मिश्रष्टीनामप्यज्ञानमेव, तात्त्विकसद्बोधहेतुत्वाभावान्मिश्रस्येति। "मिच्छादसणलद्धियाणं'तिमिथ्याटीनां, तस्सअलद्धियाण'मित्यादि, तस्यालब्धिकानां' मिथ्यादर्शनस्यालब्धिमतां सम्यग्दृष्टीनां च क्रमेण पञ्च ज्ञानानि त्रीण्यज्ञानानि च भजनयेति । ___'चरित्तलद्धी'त्यादि चरित्रलब्धिका ज्ञानिन एव, तेषां च पञ्च ज्ञानानि भजनया, यतः केवल्यपि चारित्री । चारित्रालब्धिकास्तु ये ज्ञानिनस्तेषां मनःपर्यववर्जानि चत्वारि ज्ञानानि भजनयाभवन्ति, कथम्?,असंयतत्वेआद्यं ज्ञानद्वयंतत्त्रयंवा, सिद्धत्वेचकेवलज्ञानं, सिद्धानामपि चरित्रलब्धिशून्यत्वाद्, यतस्ते नोचारित्रिणो नोअचारित्रिण इति, येत्वज्ञानिनस्तेषांत्रीण्यज्ञानानि भजनया। 'सामाइए त्यादि, सामायिकचरित्रलब्धिका ज्ञानिनएव,तेषांच केवलज्ञानवर्जानिचत्वारि ज्ञानानि भजनया, सामायिकचरित्राधिकास्तुयेज्ञानिनस्तेषांपञ्चज्ञानानि भजना, छेदोपस्थापनी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy