________________
३७४
॥२॥
भगवतीअगसूत्रं ८/-/२/३९३ 'छेओवट्ठावनियचरित्तलद्धित्ति छेदे-प्राक्तनसंयमस्य व्यवच्छेदे सति यदुपस्थापनीयंसाधावारोपणीयं तच्छेदोपस्थापनीयं, पूर्वपर्यायच्छेदेन महाव्रतानामारोपणमित्यर्थः, तच्च सातिचारमनतिचारंच, तत्रानतिचारमित्वरसामायिकस्य शिक्षकस्यारोप्यते, तीर्थान्तरसान्ती वा, यथा पार्श्वनाथतीर्थाद्वर्द्धमानस्वामित्यर्थं सङ्क्रामतः पञ्चयामधर्मप्राप्ती, सातिचारंतुमूलगुणघातिनो यद्वतारोपणं, तच्च तच्चरित्रं च छेदोपस्थापनीयचरित्रं तस्य लब्धिश्छेदोपस्थापनीयचरित्रलब्धिः
परिहारविसुद्धियचरित्तलद्धि'त्ति परिहारः-तपोविशेषस्तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकं, शेषं तथैव, एतच्च द्विविधं-निर्विशमानकं निर्विष्टकायिकंच, तत्र निर्विशमानकास्तदासेवकास्तदव्यतिरेकात्तदपिनिर्विशमानकम, आसेवितविवक्षितचारित्रकायास्तुनिर्विष्टकायास्तएव निर्विष्टकायिकास्तदव्यतिरेकात्तदपिनिर्विष्टकापिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः॥१॥ “परिहारियाण उ तबोजहन्न मज्झो तहेव उक्कोसो।
सीउण्हवासकाले भनिओ धीरेहिं पत्तेयं ।। तत्य जहन्नो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ।
अठ्ठममिह उक्कोसो एत्तो सिसिरे पवक्खामि॥ ॥३॥ सिसिरे उ जहन्नाईछट्ठाई दसमचरिमगा होति ।
वासासुअट्ठमाइं बारसपज्जन्तओ नेइ ।। ॥४॥ पारणगे आयामपंचसु गह दोसऽभिग्गहो भिक्खे।
कप्पट्ठिया य पइदिण करेंति एमेव आयामं॥ इह सप्तस्वेषणासुमध्ये आधयोरग्रह एव, पञ्चसुपुनर्ग्रहः, तत्राप्येकतरया भक्तमेकतरया च पानकमित्येवं द्वयोरभिग्रहोऽवगन्तव्य इति ।
'एवं छम्मासतवं चरिउंपरिहारिगाअनुचरंत ।
अनुचरगे परिहारियपयट्ठिए जाव छम्मासा॥ ॥६॥
कप्पट्टिओवि एवं छम्मासतवं करेइ सेसा उ ।
अनुपरिहारिगभावं वयंति कप्पट्टियत्तं च ॥ ॥७॥ एवेसो अट्ठारसमासपमाणो उ वन्निओ कप्पो।
संखेवओ विसेसो सुत्ता एयस्स नायव्वो॥ ॥८॥ कप्पसमत्तीइ तयं जिणकप्पं वा उति गच्छं वा।
पडिवजमाणगा पुण जिणस्सगासे पवनति ।। ॥९॥ तित्थयरसमीवासेवगस्स पासे व नो य अन्नस्स।
एएसिंजं चरणं परिहारविसुद्धियंतंतु॥ अन्यैस्तु व्याख्यातं-परिहारतो मासिकं चतुर्लघ्वादि तपश्चरति यस्तस्य परिहारिकचरित्रलब्धिर्भवतीति, इदं च परिहारतपो यथा स्यात्तथोच्यते
Jain Education International
ar
For Private & Personal Use Only
www.jainelibrary.org